वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
३. तृतीय प्रकाश: दूत-कर्म, गुप्तचर, सन्धिविग्रह, मित्र-अरि मण्डल एवं युद्ध-धर्म
परदेशपण्ये शुल्कं, प्रनष्टाधिगते विशेषश्च । २६५
बाहुल्यविषयः, तेषामापद्विषयो वा । अस्मिन्नेव विषये पर-
देशपण्येऽपि-
तत्रैवोक्तम्,
शुल्कांशं परदेशाच्च निबोध गदतो मम ।
क्षयव्ययप्रवासांश्च यथाऽऽयासं द्विजोत्तम ॥
व्ययशुल्कप्रवासादि लङ्घयित्वा तथा द्विज ।
विंशांशं भागमादद्युर्दण्डनीया अतोऽन्यथा ॥ इति ।
सामुद्रपण्यशुल्के तु विशेष उक्तः-
सामुद्रः शुल्को वरं रूपमुद्धृत्य दशपणं स्मृतमन्येषामपि
सारानुरूपमुद्धृत्य धर्म्यं प्रकल्पयेदिति ।
वरं, बहुमूल्यं मुक्तादिष्वेकमुद्धृत्य धनस्वामिने दत्त्वा-
ऽवशिष्टस्य दशांशं गृह्णीयात् । अन्येषां सांयात्रिकातिरिक्ताना-
मपि सारभूतमेकमुद्धृत्य धर्म्यं यथोचितं शुल्कं प्रकल्पयेत् ।
प्रनष्टाधिगते तु विशेषमाह—
मनुः,
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः ।
दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥ इति ।
प्रनष्टं, स्वामिसकाशात् भ्रष्टं, यत् शौल्किकस्थानपाला-
दिभिरधिगतं राज्ञे समर्पितं, तस्मान्नृपः प्रथमवर्षे स्वामिने सर्वं
दद्यात्, द्वितीयवर्षे च तस्माद्द्वादशं, तृतीयवर्षे दशमं, चतुर्थवर्ष-
प्रभृति षष्ठं भागमादद्यात् । तदुक्तम्—
याज्ञवल्क्येन,
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् ।
अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥ इति ।
अत्र च “अर्वाक्संवत्सरात्स्वामी हरेत” इत्यनेन प्रथमवर्षे
३४
२६६ वीरमित्रोदयस्य राजनीतिप्रकाशे
स्वामिना सर्वमेव ग्राह्यम्, “हरेत परतो नृप” इत्यनेनाविशेषो-
क्तावपि राजा द्वितीयवर्षादौ संरक्षणनिमित्तं किञ्चिद्गृह्णीयात् ।
तत्र चौचित्येन द्वितीयवर्षे द्वादशं, तृतीये दशमं, चतुर्थप्रभृति
षष्ठं भागं गृह्णीयात् । अत एव-
मनुना,
प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् ॥
इति त्र्यब्दपर्यन्तं रक्षणं,स्वामिने दानं चोक्तम् । तदेव याज्ञ-
वल्क्यैकवाक्यतया अर्वाक्संवत्सरात्स्वामिने दानं किमप्यगृ-
हीत्वैव, परतस्तु कश्चिद्भागं गृहीत्वैवेति सिद्धम् । त्र्यब्दप-
र्यन्तावस्थापनं तु यथास्थितद्रव्यस्यैव, परतो हरणं तु व्य-
यीकरणानुमतिपरम् । स्वामिन्यागते तु तत्समसङ्ख्यं स्वांशं
गृहीत्वा दातव्यम् । तत्रापि स्वांशमध्ये चतुर्थोऽशोऽधिगन्त्रे
देयः । तदुक्तम्—
गौतमेन, प्रनष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यमू-
र्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम् । इति ।
अत्र संवत्सरमित्युपलक्षणम् । “राजा त्र्यब्दं निधापयेत्”
इति मनुस्मरणात् । निधौ तु विशेषमाह-
याज्ञवल्क्यः,
राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्द्धं द्विजः पुनः ।
विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥
इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् ।
अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ इति ।
भूमौ चिरनिखातं द्रव्यं निधिः, तं राजा लब्ध्वा अर्द्धं
ब्राह्मणेभ्यो दद्यात्, अर्द्धं कोशे स्थापयेत् । तथा च-
निधिविषये विष्णुयाज्ञवल्क्योक्तयोर्व्यवस्थापनम् । २६७
विष्णुः, निधिं लब्ध्वा तदर्द्धं ब्राह्मणेभ्यो दद्यात्,
द्वितीयमर्धं कोशे प्रवेशयेत् । इति ।
तच्छब्दात् यस्य स्वर्णादेरर्द्धीकरणं सम्भवति तस्यैवार्द्धं
दद्यात्, न रत्नादेः, तस्य तु मूल्यकल्पनया दद्यात् इत्येवम-
र्थः । तदुक्तम्—
मनुना,
निधीनां हि पुराणानां धातूनामेव च क्षितौ ।
अर्द्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ इति ।
“द्वितीयमर्द्धं कोशे प्रवेशयेत्” इति पृथक्सूत्रकरणं कोशे
स्थापनविधानार्थं, स्वामिन्यागते तद्दानावश्यम्भावात् । द्विजो,
ब्राह्मणः क्षत्रियो वैश्यश्च श्रुताध्ययनसम्पन्नः सदाचारो निधिं
लब्ध्वा, तं राज्ञे निवेद्य सर्वं गृह्णीयात्। अविदुषामेतेषां विशेष उक्तो-
विष्णुना,
निधिं ब्राह्मणो लब्ध्वा सर्वमादद्यात, क्षत्रियश्चतुर्थमंशं रा-
ज्ञे दद्याच्चतुर्थमंशं ब्राह्मणेभ्योऽर्द्धमादद्यात्, वैश्यस्तु चतुर्थमंशं
राज्ञे दद्याद्ब्राह्मणेभ्योऽर्द्धं चतुर्थमंशमादद्यादिति ।
अत्र ब्राह्मण इति सामान्यवचनाद्योगीश्वरवाक्ये ब्राह्म-
णांशे विद्वत्त्वमविवक्षितम् । इतरेण, शूद्रेण, लब्धे निधौ राजा
तस्मै षष्ठमंशं दद्याच्छेषं गृह्णीयादिति व्याख्येयम् ।
अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्धरेदधिगन्त्रे षष्ठ-
मंशं प्रदद्यात् —
इति वसिष्ठस्मरणात्,
निध्यधिगमो राजधनं न ब्राह्मणस्याभिरूपस्य, अब्राह्म-
णोऽप्याख्याता षष्ठमंशं लभेतेत्येके—
इति गौतमस्मरणाच्च । तथा च शूद्राय षष्ठं दत्त्वा शेषं
२६८ वीरमित्रोदयस्य राजनीतिप्रकाशे
ग्राह्यमिति सिद्धम् । स्वयंगृहीतादर्द्धं ब्राह्मणेभ्यो दद्यादित्याह-
विष्णुः, शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान् राज्ञे द-
द्यात्पञ्चांशान् ब्राह्मणेभ्यो दत्त्वाऽवशिष्टमंशद्वयमादद्यादिति ।
इति विष्णुयाज्ञवल्क्यवाक्ययोर्व्यवस्थां केचिदाहुः । परे तु
द्विजशब्दो ब्राह्मणवचनः, सामान्यशब्दस्य विशेषपरत्वात् । तच्च
शक्त्या लक्षणया वेत्यन्यदेतत् । विष्णुवाक्यानुरोधाच्चात्र वि-
द्वत्त्वमविवक्षितम् । एवमितरपदमपि शूद्रपरमेव । भवतामपि
वासिष्ठवाक्ये यत्पदस्य गौतमवाक्ये चाब्राह्मणपदस्य विशेषपर-
त्वावश्यकत्वात् । इत्थं च क्षत्रियवैश्ययोः साधारण्येन वि-
ष्णूक्ता व्यवस्थेत्याहुः ।
यत्तु विज्ञानेश्वरेण द्विजपदं ब्राह्मणपरम्, इतरपदं चा-
विद्वद्ब्राह्मणक्षत्रियादिपरमित्युक्तम् । तच्च विष्णुस्मृत्यदर्श-
ननिबन्धनम् । विज्ञानेश्वरानुयायिनस्तु विज्ञानेश्वरव्याख्या-
तत्तात्पर्यकयोगीश्वरविष्णुस्मृत्योर्विकल्पमाहुः, ते श्रद्धामन्द-
धिय उपेक्ष्याः । अपरार्कस्तु इतरपदमविद्वद्ब्राह्मणपरमिति प्राह ।
तस्यायमाशयः । अविद्वद्ब्राह्मणपरं गोरक्षकादिब्राह्मणपरम्,
तथा चैते षष्ठांशभागिन इत्यर्थः ।
गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥
इति स्मरणात् । अत्र विप्रपदं नीचकर्मकर्तृक्षत्रियवैश्ययो-
रप्युपलक्षकम् । इत्थं च विद्वत्क्षत्रियवैश्ययोर्विष्णूक्ता व्यवस्थे-
ति । विज्ञानेश्वरोक्तमप्येवमर्थकत्वे साधु सङ्गच्छते इति दिक् ।
अनिवेदित इति कर्त्तरि निष्ठा । तथा चायमर्थः-यो निधिं
लब्ध्वा राज्ञे न निवेदितवान्, राज्ञा च निध्यधिगन्तृत्वेन
विज्ञातः, स तं निधिं दाप्यः शक्त्यपेक्षया दण्डं चेति । तथा च-
स्वामिना स्वत्वे विभाविते निधिः परावर्त्यः । २६९
विष्णुः, अनिवेदितविज्ञातस्य सर्वमपहरेदिति ।
अनुलोमजानां मूर्द्धावसिक्तादीनां क्षत्रियादिवन्निर्णयो
मातृसमानधर्मत्वात् । प्रतिलोमजानां तु शूद्रवत् शूद्रसमानधर्म-
त्वादिति । यदा निधेः स्वामी आगत्य रूपसङ्ख्यादिभिः स्वत्वं
विभावयति तदा तस्मै निधिं दद्यात्, षष्ठं द्वादशं वांशं राजा
गृह्णीयात् । यथाऽऽह—
मनुः,
ममायमिति यो ब्रूयान्निधिं सत्येन मानवः
तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ इति ।
षष्ठं द्वादशं वा इति विकल्पस्तु धनस्वामिनः सगुणत्वनि-
र्गुणत्वापेक्षया कालापेक्षया वा द्रष्टव्यः । इदं च भागग्रहणं
ब्राह्मणभिन्नादेव । यथाऽऽह—
विष्णुः, स्वनिहितात् ब्राह्मणवर्जं द्वादशमंशं दद्युरिति ।
केचित्तु विष्णुवाक्यात् क्षत्रियादयो द्वादशं, ब्राह्मणः षष्ठं
दद्यादित्याहुः । तच्चिन्त्यम् । यदा राजा निधिस्वामिन्यागते
निधिं परावृत्य दद्यात्तदा ब्राह्मणाय दत्तं निध्यर्द्धं परावृत्य
गृह्णीयात् । यथाऽऽह—
बृहस्पतिः, अस्वामिविक्रयं दानमाधिं च विनिवर्तयेदिति।
परकीयं निधिं स्वीयमिति वदन् राज्ञा तन्निधिसमं दण्डनी-
य इत्युक्तम्—
विष्णुना, परनिहितमिति ब्रुवंस्तत्समं दण्डमावहेदिति ।
ब्रुवन्, स्वनिहितमिति ब्रुवन् इत्यर्थः । आकरेषु विशेषमाह—
विष्णुः, आकरेभ्यः सर्वमादद्यात् । इति ।
आकराः, सुवर्णरत्नाद्युत्पत्तिस्थानानि ।
विष्णुधर्मोत्तरे,
२७० वीरमित्रोदयस्य राजनीतिप्रकाशे
धात्वाकराणां सर्वेषां प्रभुरुक्तो महीपतिः ।
निधिं पुराणं सम्प्राप्य कोशेऽर्द्धं तु प्रवेशयेत् ॥
अर्द्धं ब्रह्मणसात्कुर्याद्धर्मकामो महीपतिः । इति ।
नदीतीरसमुद्रयोः शुल्कग्रहणमाह —
मनुः,
पणं यानतरे दाप्यः पौरुषेऽर्द्धपणं तरे ।
पादं पशुश्च योषिच्च पादार्द्धं रिक्तकः पुमान् ॥ इति ।
“भाण्डपूर्णानि”इति अग्रे वक्ष्यति, तद्भिन्नविषयतास्य श्लो-
कस्य। तेन रिक्तशकटादियानविषये तरणे पणं दाप्यः। एवं पु-
रुषवाह्यो भारोऽर्द्धपणं दाप्यः । पशोः, गवादेः, योषितश्च
पणचतुर्थांशः । भाररहितो मनुष्यः पणाष्टमभागं दाप्यः ।
तथा,
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत्किञ्चित्पुमांश्चापरिच्छदाः ॥ इति ।
भाण्डपूर्णानि, पण्यद्रव्यपूर्णानि शकटादीनि, द्रव्यगतमू-
ल्योत्कर्षापकर्षेण तार्यं दाप्यानि । रिक्तभाण्डानि, अपरिच्छदा
दरिद्राश्च, पणपादार्धदानेऽप्यक्षमा यत्किञ्चिद्दाप्याः । एतच्च
पारावारगमने । नदीमार्गेण तु दूरदेशगमने देशकालापेक्षया
कल्पनीयम् । तदुक्तम्—
तेनैव,
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ इति ।
समुद्रे इदं लक्षणम्, इयं पणादिदानव्यवस्था नास्ति, किन्तु
तत्र यथाव्यवस्थमेव देयमित्यर्थः । राज्ञा कर्षकवाणिगादिभ्यः
किमिति करो ग्राह्य इत्यपेक्षित आह—
करग्रहणस्यावश्यकत्वम् । २७१
कात्यायनः,
भूस्वामी तु स्मृतो राजा नान्यद्रव्यस्य सर्वदा ।
तत्फलस्य हि षड्भागं प्राप्नुयान्नान्यथैव तु ॥
भूतानां तन्निवासित्वात्स्वामित्वं तेन कीर्त्तितम् ।
तत्क्रियाबलिषड्भागं शुभाशुभनिमित्तजम् ॥ इति ।
अस्यार्थः। राजा, भुवः स्वामी स्मृतः । अन्यद्रव्यस्य, भू-
मिसम्बद्धद्रव्यस्य, न स्वामी । अन्यथा, भूमिसाम्याभावे । भूता-
नां, प्राणिनाम् । तन्निवासित्वात्, भूनिवासित्वात्। स्वामित्वं, राज्ञ
इति शेषः । इत्यतः तत्क्रियाबलिषड्भागं प्राप्नुयात् ।
विष्णुरपि,
राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् । इति ।
तथा च मनुः,
पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ इति ।
यत्तु—
अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥
इति याज्ञवल्क्यस्मरणं, तदत्यन्तारक्षणविषयम् । तस्मात्क-
रादानं दृष्टादृष्टार्थत्वेनावश्यकम् । तेनैव च राज्ञो वृत्तिः । तथाच-
गौतमः, राज्ञोऽधिकं रक्षणं सर्वभूतानाम् ।
सर्वग्रहणादश्वत्थच्छेदाद्यपि परिहार्यम् ।
अधिकेन वृत्तिः ।
अधिकं रक्षणमित्युक्तं, तद्वारेण यदधिगतं करादिद्रव्यं
तदधिकं, तेन वृत्तिः, पोष्यवर्गस्य हस्त्यश्वादीनां च पोषणम् ।
अनेन आपदोऽन्यत्र पूर्वसञ्चितेन न जीवेदित्युक्तम् । तथा च-
व्याघ्रः,
कुटुम्बपोषणं कुर्यान्नित्यं कोशं च वर्द्धयेत् ।
आपदोऽन्यत्रे तं कोशं न गृह्णीयात्कदाचन ॥ इति ।
कचित्करग्रहणस्यापवादमाह—
विष्णुः, ब्राह्मणेभ्यः करादानं न कुर्यात्, ते हि राज्ञो
धर्मकराः । इति ।
ब्राह्मणेभ्यः, कर्षकेभ्यो व्यवहर्तृभ्यः श्रोत्रियेभ्यश्च। तथा च-
मनुः,
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।
न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ इति ।
ते हि राज्ञो धर्मकराः, ते पूर्वोक्ता ब्राह्मणाः सम्यग्र-
क्षिताः स्वधर्मषष्ठांशं ददतीत्यर्थः ।
मनुरपि,
स रक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् ।
तेनायुर्वर्धते तस्य द्रविणं राष्ट्रमेव च ॥ इति ।
विष्णुधर्मोत्तरेऽपि, न गृह्णीयादित्युपक्रम्य ।
ब्राह्मणेभ्यस्तथा करम् ।
तेभ्यस्तद्धर्मलाभेन राज्ञो लाभः परं भवेत् ॥ इति ।
विशेषान्तरमाह—
मनुः,
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ।
श्रोत्रियेषूपकुर्वंश्च न दाप्यः केन चित्करम् ॥
पीठसर्पी पङ्गुः । श्रोत्रियेषूपकुर्वन्, श्रोत्रियाणां धनधा-
न्यादिदानेनोपकारकः ।
तथा,
श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् ।
अकराग्राह्यातार्यादयः । २७३
महाकुलीनमार्यं च राजा सम्पूजयेत्सदा ॥ इति
सम्पूजयेत्, स्वयंदानादिना पूजयेत् । अनेन तेभ्योऽपि न
किञ्चिद्गृह्णीयादिति ।
आपस्तम्बः, अकरः श्रोत्रियः सर्ववर्णानां, स्त्रियः कुमारश्च
प्राग्व्यञ्जनेभ्यो, ये च विद्यार्था वसन्ति, तपस्विनश्च ये धर्मपराः,
शूद्रश्च पादावनेक्ता, अन्धबधिरमूका रोगाविष्टाश्च, ये वृथा द्रव्य-
परिग्रहे । इति ।
व्यञ्जनानि, श्मश्रुप्रभृतीनि । वृथा द्रव्यपरिग्रहे, अर्थसङ्ग्रहे
विगतप्रयोजनाः ।
विष्णुधर्मोत्तरे तरविषये विशेष उक्तः—
दूतानां ब्राह्मणानां च राजाज्ञागामिनां तथा ।
स्त्रीणां प्रव्रजितानां च तरशुल्कं विवर्जयेत् ॥
गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ इति ।
लिङ्गिनो ब्रह्मचारिणः । वणिजां तु विशेषमाह-
गौतमः, पण्यं वणिग्भिरर्घापचयेन देयमिति ।
इदं शुल्कादधिकं मासिकं पण्यम् । तदुक्तम्-
बृहस्पतिना,
शुल्कं दद्युस्ततो मास एकैकं पण्यमेव च ।
अर्घावरं च मूल्येन वाणिजस्ते पृथक् पृथक् ॥ इति ।
शुल्कस्थानान्युक्तानि—
विष्णुधर्मोत्तरे,
दिशि दिश्येकमेव स्याच्छुल्कस्थानं नृपस्य तु ।
तदतिक्रमे दोष उक्तः-
तत्रैव,
३५
तदतिक्रामतो द्रव्यं राजगामि विधीयते । इति ।
तत्, शुल्कस्थानं हट्टघट्टादि ।
विष्णुनापि,
शुल्कस्थानादपाक्रामन् सर्वापहारमाप्नुयात् । इति ।
इदं राजयोग्यबहुमूल्यहस्त्यश्वादिविषयम् । राजप्रतिषि-
द्धम्-'दुर्भिक्षे ऽन्नं देशान्तरे न नेयम्'इत्येतद्विषयं वा । यथोक्तम्-
मनुना,
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ इति ।
तथाऽन्यत्र,
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ इति ।
शिल्प्यादिविषये मासिककरमाह-
विष्णुः, शिल्पिनः कर्मोपजीविनश्च मासेनैकं कर्म कुर्युः ।
शिल्पिनो, लोहकारादयः । कर्मोपजीविनः, कारवो बर्द्ध-
क्यादयः । चकारादन्योपजीविनः ।
मनुरपि,
कारुकाञ्छिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः ।
एकैकं कारयेत्कर्म प्रतिमासं महीपतिः ॥ इति ।
एतेनैतेभ्योऽन्यत् न ग्राह्यम्, एष एवैषां शुल्कः । विशेषा-
न्तरमाह-
वसिष्ठः,
नदीकक्षवनदाहशैलोपभोगा निष्कराः स्युस्तदुपजीविनो
वा दद्युः प्रतिमासम् । इति ।
वनदाहो. दग्धं वनं तदुपजीविनः । तानेव ये उपजीवन्ति
शिल्प्यादिकरः, करादेरग्रहणेऽन्यायेन ग्रहणे च दोषः।२७५
सैव तेषां वृत्तिः । विशेषान्तरमाह--
गौतमः, एतेनात्मोपजीविनो व्याख्याता, नौचक्रिव-
न्तश्च, भक्तं तेभ्योऽपि दद्यात् । इति ।
एतेन, प्रतिमासमेकाहकर्मकरणेन । आत्मोपजीविनः, भा-
रवाहनटनर्त्तकादयः । नौचक्रिवन्तो, नौशकटव्यवहारिणः ।
भक्तं, दिवाभोजनपर्याप्तमन्नं शिल्प्यादिभ्यो देयम् ।
विष्णुधर्मोत्तरेऽपि,
कर्म कुर्युर्नरेन्द्रस्य मासेनैकेन शिल्पिनः ।
भक्तमात्रेण ये चान्ये स्वशरीरोपजीविनः ॥ इति ।
करस्याग्रहणे दोषमाह-
मनुः,
नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन्नात्मनो मूलमात्मानं तांश्च नाशयेत् ॥ इति ।
करशुल्कादेरग्रहणमात्ममूलोच्छेदः । यथोचितादधिकग्र-
हणं परमूलोच्छेदः ।
तथा,
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥
अनादेयस्य चादानादादेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह विनश्यति ॥
स्वादानाद्वर्णसंसर्गाद्दुर्बलानां च रक्षणात् ।
बलं सञ्जायते राज्ञः स प्रेत्येह विवर्द्धते ॥ इति ।
स्वादानात्, स्वस्य न्यायागतस्य करादेरादानात् । वर्णसं-
सर्गात्, वर्णानां ब्राह्मणादीनां स्वस्वजातीयैर्वर्णैः सह संस-
र्गात् विवाहादिसम्बन्धात्, न तु वर्णान्तरेण संसर्गो येन
२७६ वीरमित्रोदयस्य राजनीतिप्रकाशे
सङ्करादिदोषः स्यात् । अन्यायेन करग्रहणे दोषमाह-
याज्ञवल्क्यः,
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति ।
कात्यायनोऽपि,
अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ इति ।
धर्म्यकरग्रहणे फलमुक्तम्—
महाभारते,
धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः ।
सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति ॥ इति ।
कात्यायनोऽप्याह,
एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते ॥ इति ।
इति कोशः ।
अथ दण्डः ।
दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्त्या दण्डशब्दो बलव-
चनः । तत्र-
महाभारते,
प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बलवत्तरः ॥
रथा नागा हयाश्चैव पादाताश्चैव भारत ।
विष्टिर्नाविचराश्चैव दैशिका इति चाष्टमः ॥
अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।
सप्ताङ्गेषु दण्डमित्रे । २७७
स्वल्पेनापि हि सैन्येन महीं जयति पार्थिवः ॥ इति ।
विष्टिः, बलात्कारेणाकृष्टः कर्मकरः । दैशिका, देशे भवाः
पुरुषाः ।
इति दण्डः ।
अथ मित्रम् ।
याज्ञवल्क्यः,
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ इति ।
मनुः,
हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिकषमम् ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।
अनुरक्तं स्थिरारम्भं लघु मित्रं प्रशस्यते ॥ इति ।
अस्य त्रैविध्यमुक्तम्-
मत्स्यपुराणे,
पितृपैतामहं मित्रं सामन्ताश्च तथा रिपोः ।
कृत्रिमं च महाभाग त्रिविधं मित्रमुच्यते ॥
तत्रापि च गुरुः पूर्वं भवेत्तत्रापि चाहृतः ।
सामन्तास्तु तस्य पीडया शत्रुत्वमापन्नाः । अत एव विष्णु-
धर्मोत्तरे-“अमित्रं च तथा रिपोः” इति पाठः । आहृतः, कृ-
त्रिमः । इममेव प्रशंसति-
व्यासः,
न कश्चित्कस्य चिन्मित्रं न कश्चित्कस्य चिद्रिपुः ।
सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ इति ।
महाभारते,
२७८ वीरमित्रोदयस्य राजनीतिप्रकाशे
वेदितव्यानि मित्राणि बोद्धव्याश्चापि शत्रवः ।
एतत्सुसूक्ष्मं लोकेऽस्मिन् दृश्यते प्राज्ञसम्मतम् ॥
यो यस्मिन् जीवितस्यार्थे पश्यन् पीडां न जीवति ।
स तस्य तावन्मित्रं स्याद्यावन्न स्याद्विपर्ययः ॥
नास्ति मैत्री स्थिरा नाम न च चक्रमसौहृदम् ।
अर्थयुक्त्याभिजायन्ते मित्राणि रिपवस्तथा ॥
मित्रं च शत्रुतामेति कस्मिंश्चित्कालपर्यये ।
शत्रुश्च मित्रतामेति स्वार्थस्तु बलवत्तरः ॥ इति ।
याज्ञवल्क्यः,
स्वाम्यमात्यजना दुर्गं कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयः सप्ताङ्गं राज्यमुच्यते ॥ इति ।
मनुः,
स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा ।
सप्त प्रकृतयो ह्येताः समस्ता राष्ट्रमुच्यते ॥
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं नृपः ॥
व्यसनं, व्यसनकारणम् । दोषवदिति शेषः ।
सप्ताङ्गस्यास्य राज्यस्य विष्टब्धस्य त्रिदण्डवत् ॥
अन्योन्यगुणवैशेष्यान्न किञ्चिदतिरिच्यते ।
तेषु तेषु हि कृत्येषु तत्तदङ्गं विशिष्यते ॥
येन यत्साध्यते कार्यं तत्तस्मिन् श्रेष्ठमुच्यते । इति ।
इति मित्रम् ।
अथोपायाः ।
तत्र याज्ञवल्क्यः,
उपायाः साम दानं च भेदो दण्डस्तथैव च ।
उपायेषु साम । २७९
सम्यक्प्रयुक्ताः सिद्ध्येयुर्दण्डस्त्वगतिका गतिः ॥ इति ।
तत्र द्वयोर्मुख्यत्वमाह-
मनुः,
सामादीनामुपायानां चतुर्णामपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राज्याभिवृद्धये ॥ इति ।
तत्र साम ।
तच्च शत्रोस्तदीयानाममात्यादीनां च गुणवर्णनम् उपकारा-
दिस्मरणं च विधाय स्वस्य कृतज्ञताख्यापनपुरःसरं स्वा-
पराधक्षमापणम् । तदुक्तम्-
मत्स्यपुराणे,
मनुरुवाच ।
उपायांस्त्वं समाचक्ष्व सामपूर्वान्महाद्युते ।
लक्षणं च तथा तेषां प्रयोगं च सुरोत्तम ॥
मत्स्य उवाच ।
साम भेदस्तथा दानं दण्डश्च मनुजेश्वर ।
उपेक्षा च तथा माया इन्द्रजालं च पार्थिव ॥
प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु ।
द्विविधं कथितं साम तथ्यं चातथ्यमेव च ॥
तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।
तत्र साधुः प्रयत्नेन सामसाध्यो मरोत्तम ॥
महाकुलीना ऋजवो धर्मनित्या जितेन्द्रियाः ।
सामसाध्या न चातथ्यं तेषु साम प्रयोजयेत् ॥
तथ्यं साम च कर्त्तव्यं कुलशीलादिवर्णनम् ।
तथा तदुपकाराणां कृतानां चैव वर्णनम् ॥
अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् ।
२८० वीरमित्रोदयस्य राजनीतिप्रकाशे
एवं सान्त्वेन कर्त्तव्या वशगा धर्मतत्पराः ॥
साम्ना यद्यपि रक्षांसि गृह्णन्तीति परा श्रुतिः ।
तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् ॥
गृह्णन्ति, वशीकुर्वन्ति ।
अतिशङ्कमित्येवं पुरुषं सामवादिनम् ।
असाधवोऽवजानन्ति तस्मान्नत्तेषु वर्जयेत् ॥
अतिशङ्कम्, अतिशयिता शङ्का यस्मिन् तादृशम् । सा-
मवादिनं, सामप्रयोक्तारम् ।
ये शुद्धवंशा ऋजवः प्रणीता धर्मे स्थिताः सत्यपरा विनीताः।
ते सामसाध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततं च राजन् ॥इति।
अग्निपुराणे,
चतुर्विधं स्मृतं साम उपकारानुकीर्त्तनम् ।
मिथःसम्बन्धकथनं मृदुपूर्वं च भाषणम् ॥
आयतेर्दर्शनं वाचा तत्राहमिति चार्पणम् । इति ।
इति साम ।
अथ भेदः ।
स च शत्रुवर्गे परस्परं वैमत्योत्पादनम् । तदुक्तम्—
मत्स्यपुराणे,
मत्स्य उवाच ।
परस्परं तु ये द्विष्टाः क्रुद्धा भीतावमानिताः ।
तेषां भेदं प्रयुञ्जीत भेदसाध्या हि ते मताः ॥
ये तु येनैव दोषेण परस्मात्नाम बिभ्यति ।
ते तु तद्दोषपातेन भेदनीया भृशं ततः ॥
आत्मीयां दर्शयेदाशां परस्माद्दर्शयेद्भयम् ।
१ आत्मीयं दर्शयेद्दोषम् इति मात्स्ये पाठः ।
उपायेषु भेदः । २८१
एवं हि भेदयेद्भिन्नान् यथावद्वशमानयेत् ॥
संहता हि विना भेदं शक्रेणापि सुदुःसहाः ।
भेदमेव प्रशंसन्ति तस्मान्नयविशारदाः ॥
स्वमुखेनाश्रयेद्भेदं भेदं परमुखेन च ।
परीक्ष्य साधुं मन्येत भेदं परमुखाच्छ्रुतम् ॥
सद्यः स्वकार्यमुद्दिश्य कुशलैर्ये हि भेदिताः ।
भेदितास्ते विनिर्दिष्टा नैव राजार्थवादिभिः ॥
अन्तःकोपोबहिःकोपौ यत्र स्यातां महीक्षिताम् ।
अन्तःकोपो महांस्तत्र नाशकः पृथिवीक्षिताम् ॥
सामन्तकोपो बाह्यस्तु कोपः प्रोक्तो महीभृतः ।
महिषीयुवराजाभ्यां तथा सेनापतेर्नृप ॥
अमात्यमन्त्रिणां चैव राजपुत्रे तथैव च ।
अन्तःकोपो विनिर्दिष्टो दारुणः पृथिवीक्षिताम् ॥
बाह्यकोपे समुत्पन्ने सुमहत्यपि पार्थिवः ।
शुद्धान्तस्तु महाभाग शीघ्रमेव जयी भवेत् ॥
शुद्धान्तः, अन्तःप्रकोपरहितः ।
अपि शक्रसमो राजा अन्तःकोपेन नश्यति ।
सोऽन्तःकोपः प्रयत्नेन तस्माद्रक्ष्यो महीक्षिता ॥
परान्तःकोपमुत्पाद्य भेदेन विजिगीषुणा ।
ज्ञातीनां भेदनं कार्यं परेषां विजिगीषुणा ॥
रक्ष्यश्चैव प्रयत्नेन ज्ञातिभेदस्तथाऽऽत्मनः ।
ज्ञातयः परितप्यन्ते सततं परितापिताः ॥
तथापि तेषां कर्त्तव्यं सुगम्भीरेण चेतसा ।
ग्रहणं दानमानाभ्यां भेदस्तेभ्यो भयङ्करः ॥
न ज्ञातिमनुगृह्णन्ति नाज्ञातिं विश्वसन्ति च ।
३६
२८२ वीरमित्रोदयस्य राजनीतिप्रकाशे
ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः ।
भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ।
सुसंहतैश्चापि ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः॥इति।
स्वपक्षभेदनिषेधस्तूक्तो—
ब्रह्मपुराणे,
स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन ।
दुर्गं कोशश्च दण्डश्च परराष्ट्रभयं विना ॥
स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः ।
स्वभेदेन, स्वपक्षभेदेन, परराष्ट्रभयं विनापि दुर्गादिकं
नश्यतीत्यर्थः ।
इति भेदः ।
अथ दानम् ।
तच्च स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनानुकूलो व्यापा-
रः। तस्य दानस्य पञ्चविधत्वमुक्तम्— .
अग्निपुराणे,
यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः ।
प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ॥
द्रव्यदानमपूर्वं च तथैवेष्टप्रवर्तनम् ।
देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ इति ।
तस्य प्रशंसा चोक्ता—
मत्स्यपुराणे,
मत्स्य उवाच ।
सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् ।
सुदृत्तेनेह भवति दानेनोभयलोकजित् ॥
न सोऽस्ति राजन् दानेन वशगो यो न जायते ।
उपायेषु दानम् । .. २८३
दानेन वशगा देवां भवन्तीह सदा, नृणाम् ॥
दानमेवोपजीवन्ति प्रजाः सर्वा नृपोत्तम ।
प्रियो हि दानवांल्लोके सर्वस्यैवोपजायते ॥
दानवानचिरेणैव तथा राजा परान् जयेत् ।
दानवानेव शक्नोति संहतान् भेदितुं परान् ॥
यद्यप्यलुब्धगम्भीराः पुरुषाः सागरोपमाः ।
न गृह्णन्ति तथाऽप्येते जायन्ते पक्षपातिनः ॥
अन्यत्रापि कृतं दानं करोत्यन्यान् यथा वशे ।
उपायेभ्यः प्रशंसन्ति दानं श्रेष्ठतमं जनाः ॥
दानं श्रेयस्करं पुंसां दानं श्रेष्ठतमं परम् ।
दानवानेव लोकेषु पुत्रत्वे ध्रियते सदा ॥
न केवलं दानपरा जयन्ति भूलोकमेकं पुरुषप्रवीराः ।
जयन्ति ते राजसुरेन्द्रलोकं सुदुर्जयो यो विबुधाधिवासः ॥ इति ।
तैत्तिरीयश्रुतिरपि,
दानं यज्ञानां वरूथं दक्षिणा, लोके दातारं सर्वभूतान्यु-
पजीवन्ति, दानेनारातीरपानुदन्त, दानेन द्विषन्तो मित्रा भव-
न्ति, दाने सर्वं प्रतिष्ठितं, तस्माद्दानं परमं वदन्तीति ।
इति दानम् ।
अथ दण्डः ।
स च वित्तस्य शरीरस्य वा पीडनम् । दमयतीति दण्ड
इति व्युत्पत्तेः । तत्र—
मनुः,
तदर्थं सर्वभूतां गोप्तारं धर्ममात्मजम् ।
ब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥
२८४ वीरमित्रोदयस्य राजनीतिप्रकाशे
तदर्थं, राज्ञः प्रयोजनसिद्धये । प्रजानां रक्षणं राजधर्मः
स च दण्डं विना कर्तुमशक्य इति दण्ड एव रक्षक इत्युच्यते ।
तस्य स्तुतिर्धर्ममिति ।
तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥
तस्य, दण्डस्य। ननु दण्डस्य भयहेतुत्वात् “भीत्रार्थानां भय-
हेतुः” इति पञ्चमी युक्ता? उच्यते । सम्बन्धमात्रविवक्षाया भय-
हेतुत्वं नास्तीति षष्ठी । तस्य चरमोपायत्वमुक्तम्—
मत्स्यपुराणे,
मत्स्य उवाच ।
न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु ।
दण्डेन तान् वशीकुर्याद्दण्डो हि वशकृन्नृणाम् ॥
सम्यक्प्रणयनं तस्य तथा कार्यं महीक्षिता ।
धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥
तस्यासम्यक्प्रणयनं त्रिदशानपि पीडयेत् । इति ।
तत्र विशेषमाह
मनुः,
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥
शक्तिं, सहनशक्तिम् ।
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ।
शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ इति ।
यथा शूले मत्स्यान् पक्त्वा भक्षयन्ति, तथा बलिनोऽल्प-