वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 272, कुल 490 में से
संदर्भ में पढ़ें२७६ वीरमित्रोदयस्य राजनीतिप्रकाशे
सङ्करादिदोषः स्यात् । अन्यायेन करग्रहणे दोषमाह-
याज्ञवल्क्यः,
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्द्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्धवः ॥
प्रजापीडनसन्तापात्समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणान्नादग्ध्वा विनिवर्तते ॥ इति ।
कात्यायनोऽपि,
अन्यायेन हि यो राष्ट्रात्करं दण्डं च पार्थिवः ।
सस्यभागं च शुल्कं चाप्याददीत स पापभाक् ॥ इति ।
धर्म्यकरग्रहणे फलमुक्तम्—
महाभारते,
धर्मार्जितो महाकोशो यस्य स्यात्पृथिवीपतेः ।
सोऽत्यल्पप्रवरोऽप्यत्र पृथिवीमधितिष्ठति ॥ इति ।
कात्यायनोऽप्याह,
एवं प्रवर्तते यस्तु लोभं त्यक्त्वा नराधिपः ।
तस्य पुत्राः प्रजायन्ते राष्ट्रं कोशश्च वर्द्धते ॥ इति ।
इति कोशः ।
अथ दण्डः ।
दण्ड्यन्ते अशिष्टा अनेनेति व्युत्पत्त्या दण्डशब्दो बलव-
चनः । तत्र-
महाभारते,
प्रकाशश्चाप्रकाशश्च दण्डोऽत्र परिकल्पितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बलवत्तरः ॥
रथा नागा हयाश्चैव पादाताश्चैव भारत ।
विष्टिर्नाविचराश्चैव दैशिका इति चाष्टमः ॥
अनुरक्तेन हृष्टेन पुष्टेन च महीपते ।