सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)

Vasishtha Dharmashastra with Commentary

महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा

DevanagariSanskritpublished106 पृष्ठ

श्राद्धे नोद्वासनीयानि उच्छिष्टान्या दिनक्षयात् ।
श्च्योतन्ते हि सुधाधारास्ताः पिबन्त्यकृतोदकाः ॥ २१ ॥
उच्छिष्टं न प्रमृज्यात्तु यावन्नास्तमितो रविः ।
क्षीरधारास्ततो यान्त्यक्षय्याः सञ्चरभागिनः ॥ २२ ॥
प्राक्संस्कारात्प्रमीतानां स्ववंश्यानामिति स्थितिः ।
भागधेयं मनुः प्राह उच्छिष्टोच्छेषणे उभे ॥ २३ ॥
उच्छेषणं भूमिगतं विकिरं लेपनोदकम् ।
अन्नं प्रेतेषु विसृजेदप्रजानामनायुषाम् ॥ २४ ॥
उभयोर्हस्तयोर्मुक्तं पितृभ्योन्नं निवेदितम् ।
तदन्तरं प्रतीक्षन्ते ह्यसुरा दुष्टचेतसः ॥ २५ ॥
तस्मादशून्यहस्तेन कुर्यादन्नमुपागतम् ।
भोजनं वा समालभ्य तिष्ठेतोच्छेषणे उभे ॥ २६ ॥
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा । — (मनौ ३।१२५॥)
भोजयेत्सुसमृद्धोपि न प्रसञ्जेत विस्तरे ॥ २७ ॥
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । (मनौ ३।१२६॥)
पञ्चैतान्विस्तरो हन्ति तस्मात्तं परिवर्जयेत् ॥ २८ ॥
अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।
श्रुतशीलोपसंपन्नं सर्वलक्षणवर्जितम् ॥ २९ ॥
यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य तु ॥ ३० ॥
21. श्च्योतन्ते वै. B. Ban. ed. श्च्योतन्ति हिंस्रधारास्ताः F. २२ पङ्क्तिभागिन.
F. 23. संप्रवेशनामिति श्रुतिः Bh. E. F. H. लेपमोदकं. B.Ban. ed. H. अनु-
प्रेतेषु B. Ban. ed. H. 25. उभयोः शाखयोः B. पार्श्वयोः F. H. 26. कुर्यादर्भ
मुप° F. 27. देवे read all Mss with exception of. F. K. प्रसज्येत B.
Ban. ed. F. H.

३१
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ।
प्रास्येदग्नौ तदन्नं वा दद्याद्वा ब्रह्मचारिणे ॥ ३१ ॥
यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः ।
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ३२ ॥
हविर्गुणा न वक्तव्याः पितरो यावदतर्पिताः ।
पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ ३३ ॥
नियुक्तस्तु यतिः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशूरोमाणि तावन्नरकमृच्छति ॥ ३४ ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ ३५ ॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करः ।
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥ ३६ ॥
श्राद्धं दत्त्वा भुक्त्वा च मैथुनं योधिगच्छति ।
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३७ ॥
यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम् ।
न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ॥ ३८ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ ३९ ॥
मधुमांसैश्च शाकैश्च पयसा पायसेन च ।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥ ४० ॥
सन्तानवर्द्धनं पुत्रमुद्यतं पितृकर्मणि ।
देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥ ४१ ॥
31. तदन्नं तु B. H. 33. अर्पिताः B. H. F. 36. नाम instead of ज्ञेय
Bh. E. H. 38. विद्यामवाप्नोति F. H. 41. पुत्र तृप्यन्तं B. Ban. ed. H
तृप्यन्तं F. पुत्रतृपन्तः Bh. E. तृप्यन्त Calc. ed.
वासिष्ठधर्म ५.

३२
नन्दन्ति पितरस्तस्य सुवृष्टैरिव कर्षकाः ।
यद्गयास्थो ददात्यन्नं पितरस्तेन पुत्रिण इति ॥ ४२ ॥
श्रावण्याग्रहायण्योश्चान्वष्टक्यां च पितृभ्यो दद्यात् ॥ ४३ ॥
द्रव्यदेशब्राह्मणसन्निधाने वाकालनियमः ॥ ४४ ॥
अवश्यं ब्राह्मणोऽग्नीनादधीत ॥ ४५ ॥
दर्शपूर्णमासाग्रयणेष्टिचातुर्मास्यपशुसोमैश्च यजेत ॥ ४६ ॥
नैयमिकं ह्येतदृणसंस्तुतं च ॥ ४७ ॥
विज्ञायते हि । त्रिभिर्ऋणैर्ऋणवान्ब्राह्मणो जायत इति । यज्ञेन
देवेभ्यः प्रजया पितृभ्यो ब्रह्मचर्येण ऋषिभ्य इत्येष वानृणो यज्वा
यः पुत्री ब्रह्मचर्यवानिति ॥ ४८ ॥
गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ ४९ ॥
गर्भादेकादशेषु राजन्यम् ॥ ५० ॥
गर्भाद्वादशेषु वैश्यम् ॥ ५१ ॥
पालाशो वा दण्डो ब्राह्मणस्य ॥ ५२ ॥
नैयग्रोधः क्षत्रियस्य वा ॥ ५३ ॥
औदुम्बरो वा वैश्यस्य ॥ ५४ ॥
केशसंमितो ब्राह्मणस्य ॥ ५५ ॥
ललाटसंमितः क्षत्रियस्य ॥ ५६ ॥
घ्राणसंमितो वैश्यस्य ॥ ५७ ॥
मौञ्जी रशना ब्राह्मणस्य ॥ ५८ ॥
धनुर्ज्या क्षत्रियस्य ॥ ५९ ॥
शणतान्तवी वैश्यस्य ॥ ६० ॥
42. तन्वन्ति B. Bh. 45. अवश्यं च B. H. 47. ऋण संस्तुतं Bh. F. H.
संस्कृतं B. Ban. ed. 48. येन instead of यज्ञेन H. 52. पालाशो बैल्वो वा F.
H. 55-60 wanted in F. H. 57. घ्राण° Āśvalāyanagṛihyas. 1,19,13.

३३

कृष्णाजिनमुत्तरीयं ब्राह्मणस्य ॥ ६१ ॥
रौरवं क्षत्रियस्य ॥ ६२ ॥
गव्यं बस्ताजिनं वा वैश्यस्य ॥ ६३ ॥
शुक्लमहतं वासो ब्राह्मणस्य ॥ ६४ ॥
माञ्जिष्ठं क्षत्रियस्य ॥ ६५ ॥
हारिद्रं कौशेयं वा वैश्यस्य ॥ ६६ ॥
सर्वेषां वा तान्तवमरक्तम् ॥ ६७ ॥
भवत्पूर्वां ब्राह्मणो भिक्षां याचेत ॥ ६८ ॥
भवन्मध्यां राजन्यः ॥६९ ॥
भवदन्त्यां वैश्यः ॥ ७० ॥
आ षोडशाद्ब्राह्मणस्य नातीतः कालः ॥ ७१ ॥
आ द्वाविंशात्क्षत्रियस्य ॥ ७२ ॥
आ चतुर्विंशाद्वैश्यस्य ॥ ७३ ॥
अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ७४ ॥
नैतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥ ७५ ॥
पतितसावित्रीक उद्दालकव्रतं चरेत् ॥ ७६ ॥
द्वौ मासौ यावकेन वर्तेयेन्मासं पयसार्धमासमाभिक्षयाष्टरात्रं घृतेन
षड्ररात्रमयाचितेन त्रिरात्रमब्भक्षोहोरात्रमुपवसेत् ॥ ७७ ॥
अश्वमेधावभृथं गच्छेत् ॥ ७८ ॥
व्रात्यस्तोमेन वा यजेद्वा यजेद्वेति ॥ ७९ ॥
इति वासिष्ठधर्मशास्त्र एकादशोध्यायः ॥ ११ ॥

  1. वस्त्राजिनं F. H. 68. भिक्षयीत H. 77. त्रिरात्रमम्बुभ° F. H. 79.
    यजेदिति read all Mss except K.

३४
अथातः स्नातकव्रतानि ॥ १ ॥
स न कंचिद्याचेतान्यत्र राजान्तेवासिभ्यः ॥ २ ॥
क्षुधापरीतस्तु किंचिदेव याचेत कृतमकृतं वा क्षेत्रं गामजाविक-
मन्ततो हिरण्यं धान्यमन्नं वा ॥ ३ ॥
न तु स्नातकः क्षुधावसीदेदित्युपदेशः ॥ ४ ॥
न मलिनवाससा सह संवसेत ॥ ५ ॥
न रजस्वलया ॥ ६ ॥
नायोग्यया ॥ ७ ॥
न कुलंकुलः स्यात् ॥ ८ ॥
वत्सतन्त्रीं विततां नातिक्रामेत् ॥ ९ ॥
नोद्यन्तमादित्यं पश्येन्नास्तं यन्तम् ॥ १० ॥
नाप्सु मूत्रपुरीषे कुर्यात् ॥ ११ ॥
न निष्ठीवेत् ॥ १२ ॥
परिवेष्टितशिरा भूमियमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यादु
दङ्मुखश्चाहनि नक्तं दक्षिणामुखः सन्ध्यामासीतोत्तरम् ॥ १३ ॥
अथाप्युदाहरन्ति
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम्
यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥ १४ ॥
अप्सु पाणौ च काष्ठे च कथितं पावके शुचिः
तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥ १५ ॥
पर्यग्निकरणं ह्येतन्मनुराह प्रजापतिः ॥ १६ ॥
कृत्वा चावश्यकर्माणि आचामेच्छौचवित्तम इति ॥ १७ ॥
XII. 6. Thus all MSS., but this Sūtra has to be read नारज-
स्खलया. 10. पश्येन्नादित्य यन्तं H. 13. °उत्तरा Bh. E. F. H. 17. चावे-
श्यकार्याणि Bh. E. F. H. °वित्तत इति B. Bh. E. F. H.

३५
प्राङ्मुखोन्नानि भुञ्जीत ॥ १८ ॥
तूष्णीं साङ्गुष्ठं कृत्स्नग्रासं ग्रसेत ॥ १९ ॥
न च शब्दं कुर्यात् ॥ २० ॥
ऋतुकालगामी स्यात्पर्ववर्जं स्वदारेषु ॥ २१ ॥
अतियंगुपेयात् ॥ २२ ॥
अथाप्युदाहरन्ति
यस्तु पाणिगृहीताया आस्ये कुर्वीत मैथुनम् ।
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः
या स्यादनित्यचारेण रतिः साधर्मसंश्रिता ॥ २३ ॥
अपि च काठके विज्ञायते । अपि नः श्वो विजनिष्यमाणाः
पतिभिः सह शयीरन्निति स्त्रीणामिन्द्रदत्तो वर इति ॥ २४ ॥
न वृक्षमDictated -> न वृक्षमारोहेत् ॥ २५ ॥
न कूपमवरोहेत् ॥ २६ ॥
नाग्निं मुखेनोपधमेत् ॥ २७ ॥
नाग्निं ब्राह्मणं चान्तरेण व्यपेयात् २८ ॥
नाग्न्योः ॥ २९ ॥
न ब्राह्मणयोरनुज्ञाप्य वा ॥ ३० ॥
भार्यया सह नाश्नीयादवीर्यवदपत्यं भवतीति वाजसनेयके
विज्ञायते ॥ ३१ ॥
नेन्द्रधनुर्नाम्ना निर्दिशेत् ॥ ३२ ॥
मणिधनुरिति ब्रूयात् ॥ ३३ ॥
20. मुखशब्दं B. F. H. 21. स्वादारैवं; स्त्रियमुपेयात् F. स्वदारेवं तीर्थमुपेयत
Bh. E. H. 24. अद्य श्वा वा विजनिष्यमानाभिः F. H. अपि च नश्वयो E.
अविनस्यो Bh. इन्द्रदत्तात् E. 25. तावन्न वृ° F. H. 28. च्यवेत?H.

३६
पालाशमासनं पादुके दन्तधावनमिति वर्जयेत् ॥ ३४ ॥
नोत्सङ्गे भक्षयेत् ॥ ३५ ॥
नासन्द्यां भुञ्जीत ॥ ३६ ॥
वैणवं दण्डं धारयेत् ॥ ३७ ॥
रुक्मकुण्डले च ॥ ३८ ॥
न बहिर्मालां धारयेदन्यत्र रुक्ममय्या ॥ ३९ ॥ ॰मय्याः इतिस्यात्
सभाः समवायांश्च वर्जयेत् ॥ ४० ॥
अथाप्युदाहरन्ति
अप्रामाण्यं च वेदानामार्षाणां चैव कुत्सनम्
अव्यवस्था च सर्वत्र एतन्नाशनमात्मन इति ॥ ४१ ॥
नावृतो यज्ञं गच्छेदयदि व्रजेत्प्रदक्षिणं पुनराव्रजेत् ॥ ४२ ॥
अधिवृक्षसूर्यमध्वानं न प्रतिपद्येत ॥ ४३ ॥
नावं च सांशयिकीं नाधिरोहेत् ॥ ४४ ॥
बाहुभ्यां न नदीं तरेत् ॥ ४५ ॥
उत्थायापररात्रमधीत्य न पुनः प्रतिसंविशेत् ॥ ४६ ॥
प्राजापत्ये मुहूर्ते ब्राह्मणः कांश्चिन्नियमाननुतिष्ठेदनुतिष्ठेदिति॥४७॥
इति वासिष्ठधर्मशास्त्रे द्वादशोऽध्यायः ॥ १२ ॥
――――
अथातः स्वाध्यायोपाकर्म श्रावण्यां पौर्णमास्यां प्रौष्ठपद्यां वा ॥ १ ॥
अग्निमुपसमाधायाक्षतधाना जुहोति ॥ २ ॥
――――
36. आसन्द्यां न भुञ्जीत Bh. E. H. 39. माल्यं Bh. E. 40. सभाः समवा-
यांश्च वर्क्षीयन्न F. H. जर्वीयन्न Bh. सभासमवायान्नाावजयेत् B. सभासमेधाया
त्रावर्भवेत् E. नावजयेत K. 41. एवं नाशनं F. 45. wanted in Ban. ed.
XIII. 2. उपसमाधाय कृतधानाः H.

३७
देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ ३ ॥
ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुर्वीरन् ॥ ४ ॥
अर्धपञ्चमान्मासानर्धषष्ठान्वा ॥ ५ ॥
अत ऊर्ध्वं शुक्लपक्षेष्वधीयीत ॥ ६ ॥
कामं तु वेदाङ्गानि ॥ ७ ॥
तस्यानध्यायाः ॥ ८ ॥
सन्ध्यास्तनिते ॥ ९ ॥
सन्ध्यासु ॥ १० ॥
अन्तःशवदिवाकीर्त्येषु नगरेषु ॥ ११ ॥
कामं गोमयपर्युषिते परिलिखिते वा ॥ १२ ॥
श्मशानान्ते ॥ १३ ॥
शयानस्य ॥ १४ ॥
श्राद्धिकस्य ॥ १५ ॥
मानवं चात्र श्लोकमुदाहरन्ति ।
फलान्यपस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता इति ॥ १६ ॥
धावतः पूतिगन्धप्रभृताविरिणे ॥ १७ ॥
वृक्षारूढस्य ॥ १८ ॥
नावि सेनायां च ॥ १९ ॥
भुक्त्वा चार्द्रपाणेः ॥ २० ॥
वाणशब्दे ॥ २१ ॥
चतुर्दश्यामामावास्यायामष्टम्यामष्टकासु ॥ २२ ॥
4. अर्धपञ्चमासान् Bh. E. 16. फलान्यापः E. Bh. K. °यथान्यत्° B. H.
17. गन्धिप्रभृतीरिणे B. H. गन्धप्रभृताव्रण E.

३९
प्रसारितपादोपस्थकृतोपाश्रितस्य च ॥ २३ ॥
गुरुसमीपे ॥ २४ ॥
मैथुनव्यपेतायाम् ॥ २५ ॥
वाससा मैथुनव्यपेतेनानिर्णिंक्तेन ॥ २६ ॥
ग्रामान्ते ॥ २७ ॥
छर्दितस्य ॥ २८ ॥
मूत्रितस्योच्चारितस्य ॥ २९ ॥
ऋग्यजुषां च सामशब्दे वा ॥ ३० ॥
अजीर्णे ॥ ३१ ॥
निर्घाते ॥ ३२ ॥
भूमिचलने ॥ ३३ ॥
चन्द्रसूर्योपरागे ॥ ३४ ॥
दिङ्नादपर्वतप्रपातेषूपलरुधिरपांसुवर्षेष्वाकालिकम् ॥ ३५ ॥
उल्काविद्युत्समासे त्रिरात्रम् ॥ ३६ ॥
उल्काविद्युत्सज्योतिषम् ॥ ३७ ॥
अपर्तावकालिकम् ॥ ३८ ॥
आचार्ये प्रेते त्रिरात्रम् ॥ ३९ ॥
आचार्यपुत्रशिष्यभार्यास्वहोरात्रम् ॥ ४० ॥
ऋत्विक्श्वशुरपितृव्यमातुलाननवश्वयसः प्रत्युत्थायाभिवदेत् ॥ ४१॥
ये चैव पादग्राह्यास्तेषां भार्या गुरोश्च ॥ ४२ ॥
34. ॰उपरागेषु H. 35. दिङ्नाद्॰ B. H. दिग्दाह॰ Ban. ed. 35. ॰पर्वता
नादार्वाकम्पप्र॰ B. Bh. E. H. 39. आचार्र्ये च B. F. H. 40. After this
Sūtra H. only reads : ऋत्विग्योनिसंबन्धेषु च गुरोः पादोपसंग्रहणं कार्यम् ।
41 ॰वन्देत् Bh. E. H.

मातापितरौ च ॥ ४३ ॥
यो विद्यादभिवादितुमहंमयं भो इति यात् ॥ ४४ ॥
यश्च न विद्यात् ॥ ४५ ॥
प्रत्यभिवादमामन्त्रिते स्वरोन्त्यः प्लूयते सन्ध्यक्षरमप्रगृह्यमायाद्-
भावं चापद्यते यथा भो भाविति ॥ ४६ ॥
पतितः पिता परित्याज्यो माता तु पुत्रे न पतति ॥ ४७ ॥
अथाप्युदाहरन्ति ।
उपाध्यायाद्दशाचार्या आचार्याणां शतं पिता ।
पितुर्दशशतं माता गौरवेणातिरिच्यते ॥ ४८ ॥
भार्या पुत्राश्च शिष्याश्च संसृष्टाः पापकर्मभिः ।
परिभाष्य परित्याज्याः पतितो योन्यथा त्यजेत् ॥ ४९ ॥
ऋत्विगाचार्यावयाजकानध्यापकौ हेयावन्यत्र हानात्पतति ॥५०॥
पतितेनोत्पन्नः पतितो भवतीत्याहुरन्यत्र स्त्रियाः ॥ ५१ ॥
सा हि परगामिनी ॥ ५२ ॥
तामरिक्थामुपेयात् ॥ ५३ ॥
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिरिष्यते ।
गुरुवद्गुरुपुत्रस्य वर्तितव्यमिति श्रुतिः ॥ ५४ ॥
शस्त्रं विषं सुरा चाप्रतिगृह्याणि ब्राह्मणस्य ॥ ५५ ॥
विद्यावित्तवयःसंबन्धाः कर्म च मान्यम् ॥ ५६ ॥
पूर्वः पूर्वो गरीयान् ॥ ५७ ॥
स्थविरबालातुरभारिकस्त्रीचक्रीवगतां पन्थाः समागमे परस्मै-
परस्मै देयः ॥ ५८ ॥
राजस्नातकयोः समागमे राज्ञा स्नातकाय देयः ॥ ५९ ॥
47. Compare Āpast. Dh. I, 28, 9 ; माता तु पुत्रं B. Bh. F.
वा. ध. ६.

४०
सर्वैरैव वध्वा ऊह्यमानायै ॥ ६० ॥
तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सतां गृहे नोच्छिद्यन्ते कदा
च न कदा च नेति ॥ ६१ ॥
इति वासिष्ठधर्मशास्त्रे त्रयोदशोऽध्यायः ॥ १३ ॥
――――
अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ १ ॥
चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ढपतितानामन्नमभो-
ज्यम् ॥ २॥
कदर्यदीक्षितबद्धादुरसोमविक्रायितक्षरजकशौण्डिकसूचकवार्धुषिक-
चर्मावकृन्तानाम् ॥ ३ ॥
शूद्रस्य च ॥ ४ ॥
अस्त्रभृतश्च ॥ ५ ॥
उपपतेर्यश्चोपपतिं मन्यते ॥ ६ ॥
यश्च गृहान्दहेत् ॥ ७ ॥
यश्च वधार्हाञ्चोपहन्यात् ॥ ८ ॥
को भोक्ष्यत इति वाचाभिघुष्टम् ॥ ९ ॥
गणान्नं गणिकान्नं चेति ॥ १० ॥
अथाप्युदाहरन्ति ।
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः ।
भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे इति ॥ ११ ॥
――――
XIV. 2. शठ° instead of °षण्ढ° B. Ban. ed. °खण्ड° H. 3. °बद्धासु-
रसोम° H. °विक्रयितक्षक° Bh. E. H. विक्रयितस्कररजक° F. °सूचिक° B.
Ban. ed. E. F. H. 5. अस्त्रपूतस्य H. 6. °उपपत्तिं F. यश्चोपरि B. Ban. ed.

[Page Header]
४१

एधोदकयवसकुशलाज(भ्युद्यतथानावसथशफरीप्रियङ्गुस्रग्गन्धम-
धुमांसानीत्येतेषां प्रतिगृह्णीयात् ॥ १२ ॥
अथाप्युदाहरन्ति ।
गुर्वर्थं दारमुज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं तत इति ॥ १३ ॥
न मृगयोरिषुचारिणः परिवर्ज्यमन्नम् ॥ १४ ॥
विज्ञायते हि । अगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चचार ।
तस्यांसंतरसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥ १५ ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् ।
भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ॥ १६ ॥
श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः ।
न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् ॥ १७ ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ १८ ॥
चिकित्सक्स्य मृगयोः शल्यहर्तुस्तु पापिनः ।
षण्ढस्य कुलटायाश्च उद्यतापि न गृह्यत इति ॥ १९ ॥
उच्छिष्टमगुरोर्भोज्यम् ॥ २० ॥
खमुच्छिष्टमुच्छिष्टोपहतं च ॥ २१ ॥
यद्श्वसनकेशकीटोपहतं च ॥ २२ ॥
कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनावकीर्य वाचा प्रशस्त-
मुपयुञ्जीत ॥ २३ ॥


  1. Ban. ed. F. H. connect विज्ञायते हि with the preceding Sūtra
  2. पाशिनः Bh. E. पाशिकः H. खण्डस्य E. H. 23. भोक्ष्य F. H.

४२
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ २४ ॥
देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।
काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विसर्जयेत् ॥ २५ ॥
तस्मादन्नमपोद्धृत्य शेषं संस्कारमर्हति ।
द्रवाणां प्लावनेनैव घनानां प्रोक्षणेन तु ॥ २६ ॥
मार्जारमुखसंस्पृष्टं शुचि एव हि तद्भवेत् ॥ २७ ॥
अन्नं पर्युषितं भावदुष्टं सहल्लेखं पुनःसिद्धमाममांसं पक्वं च ॥ २८ ॥
कामं तु दध्ना घृतेन वाभिघारितमुपयुञ्जीत ॥ २९ ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
घृतं वा यदि वा तैलं विप्रो नाद्यान्नखश्च्युतम् ।
यमस्तदशुचि प्राह तुल्यं गोमांसभक्षणैः ॥ ३० ॥
हस्तदत्तास्तु ये स्नेहा लवणव्यञ्जनानि च ।
दातारं नोपतिष्ठन्ति भोक्ता भुञ्जीत किल्विषम् ॥ ३१ ॥
प्रदद्यान्न तु हस्तेन नायसेन कदा च नेति ॥ ३२ ॥
लशुनपलाण्डुक्याकुगृञ्जनश्लेष्मान्तकवृक्षनिर्यासलोहितव्रश्चनश्व—
काकावलीढशूद्रोच्छेपणभोजनेष्वतिकृच्छ्रः ॥ ३३ ॥
सन्धिनीक्षीरमवत्साक्षीरम् ॥ ३४ ॥
गोमहिष्यजानामनिर्दशाहानाम् ॥ ३५ ॥
27. जाङ्गलमुख° H. शुचिरेव thus all MSS. 28. सुरूल्लेखं Bh. E. 31
उपतिष्ठन्ते H. भुङ्क्ते च F. H. 33. केचुकः instead of क्यांकुः H. कपालं F
क्यान्हु E. After this Sūtra F. and H. only read अन्यत्र मधुमांसफल-
विहतैश्चाम्यश्वविप्रयोः कृच्छ्र इतरेषु ॥

४३
अन्तर्नाव्युदकम् ॥ ३६ ॥
अपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि शुक्तानि
वर्जयेत् ॥ ३७ ॥
अन्यांश्च क्षीरयवपिष्टविकारान् ॥ ३८ ॥
श्वाविच्छल्यकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ॥ ३९ ॥
अनुष्ट्राः पशूनामन्यतोदन्ताश्च ॥ ४० ॥
मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीराः ॥ ४१ ॥
विकृतरूपाः सर्पशीर्षाश्च ॥ ४२ ॥
गौरगवयशरभाश्च ॥ ४३ ॥
अनुद्दिष्टास्तथा ॥ ४४ ॥
धेन्वनडुहावपन्नदन्ताश्च ॥ ४५ ॥
भक्ष्यौ तु धेन्वनडुहौ मेध्यौ वाजसनेयके विज्ञायते ॥ ४६ ॥
खड्गे तु विवदन्त्यग्राम्यशूकरे च ॥ ४७ ॥
शकुनानां च विषुविष्किरजालपादकलविङ्कप्लवहंसचक्रवाकभासवाय-
सपारावतकुररसारङ्गाण्डकपोतक्रौञ्चक्रकरकङ्कगृध्रश्येनबकबलाक-
मद्गुटिट्टिभमान्धालनक्तञ्चरदार्वाघाटचटकैलातकाहारीतखञ्जरीट-
ग्राम्यकुकुटशुकशारिकोकिलक्रव्यादो ग्रामचारिणश्च ग्रामचारि-
णश्चेति ॥ ४८ ॥
इति वासिष्ठधर्मशास्त्रे चतुर्दशोऽध्यायः ॥ १४ ॥
37. नाशुक्तानि H. नाशुष्कानि F. नाशुल्कानि B. Ban. ed. 39. °शल्क°
F. H. 48. °कुक्कुट° B. E. F. °कुक्कुर° H. °माघार° B, Ban. ed. E.
माधां नक्तं° Bh. F. H. °टिट्टिभान्धनक्तं° J. O. 913. क्रव्यातः H.

४४
शोणितशुक्रसंभवः पुरुषो भवति मातापितृनिमित्तकः ॥ १ ॥
तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥ २ ॥
न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ॥ ३ ॥
स हि सन्तानाय पूर्वेषाम् ॥ ४ ॥
न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः ॥ ५ ॥
पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि च निवेद्य निवेशनस्य मध्ये
व्याहृतिभिर्हुत्वादूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयात् ॥ ६ ॥
सन्देहे चोत्पन्ने दूरेबान्धवं शूद्रमिव स्थापयेत् ॥ ७ ॥
विज्ञायते ह्येकेन बहूंस्त्रायत इति ॥ ८ ॥
तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत चतुर्थभागभागी
स्याद्दत्तकः ॥ ९ ॥
यदि नाभ्युदयिकेषु युक्तः स्यात् ॥ १० ॥
वेदविप्लावकः शूद्रयाजक उत्तमवर्णवर्गपतितास्तेषां पात्रनि-
नयनम् ॥ ११ ॥
अपात्रसङ्करादकृत्स्नं पात्रमादाय दासोसवर्णपुत्रो वा बन्धुरसदृशो
वा गुणहीनः सव्येन पादेन प्रवृत्ताग्रान्दर्भाल्लोहितान्वोपस्तीर्य पूर्ण-
पात्रमस्मै निनयेत् ॥ १२ ॥
निनेतारं चास्य प्रकीर्णकेशा ज्ञातयोन्वालभेरन् ॥ १३ ॥
अपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन् ॥ १४ ॥
अत ऊर्ध्वं न तं धर्मयेयुः ॥ १५ ॥
XV. 1. भवति wanted B. F. H. 3 त्वेवैकं B. न चैकं H. 5. न तु B.:
6. चावेद्य B. F. H. 10. उपयुक्तः Bh. 11. विप्लावाकिनः F. H. विष्ठावहीनः
13. नेतारं F.

४५
तद्धर्माणस्तं धर्मयन्तः ॥ १६ ॥
पतितानां तु चरितव्रतानां प्रत्युद्धारः ॥ १७ ॥
अथाप्युदाहरन्ति ।
अग्रेभ्युद्धरतां गच्छेत्क्रीडन्निव हसन्निव ।
पश्चात्पातयतां गच्छेच्छोचन्निव रुदन्निवेति ॥ १८ ॥
आचार्यमातृपितृहन्तारस्तत्प्रसादादपयाप्याद्वा एषां तेषां प्रत्या-
पत्तिः ॥ १९ ॥
पुण्यह्रदात्प्रसृताद्वा काञ्चनं पात्रं माहेयं वा पूरयित्वापोहिष्ठाभि-
रैनमद्भिरभिषिञ्चन्ति ॥ २० ॥
सर्व एवाभिषिक्तस्य प्रत्युद्धारः पुत्रजन्मना व्याख्यातो व्याख्यात
इति ॥ २१ ॥
इति वासिष्ठधर्मशास्त्रे पञ्चदशोऽध्यायः ॥ १५ ॥
अथ व्यवहाराः ॥ १ ॥
राजा मन्त्री वा सद्यःकार्याणि कुर्यात् ॥ २ ॥
द्वयोर्विवदमानयोः पक्षान्तरं न गच्छेत् ॥ ३ ॥
यथासनमपराधोह्यन्तेनापराधः ॥ ४ ॥
समः सर्वेषु भूतेषु यथासनमपराधोह्याद्यवर्णयोर्विद्यान्ततः ॥ ५ ॥
संपन्नं च रक्षयेत् ॥ ६ ॥
राजबालधनानि ॥ ७ ॥
अप्राप्तव्यवहाराणाम् ॥ ८ ॥
16. ते न संघर्मयेयुः B. Bh. E. H. 19. एषां Bh. E. 20. पूर्णाद्वाद् thus
all MSS. except B. which reads पूर्णाद्वा दशाद्वब्दात्प्रवृत्ताद्वा.
XVI. 4. and 5. are evidently corrupt. 5. अद्यवर्णयोर्विधानतः J.O.
913. 6. सपत्नं च र° B. Ban. ed. संपन्नं च क्षरेत्तु H.

४६
प्राप्तकाले तु तद्यत् ॥ ९ ॥
लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधं स्मृतम् ।
धनस्वीकरणं पूर्वं धनी धनमवाप्नुयादिति ॥ १० ॥
मार्गक्षेत्रेभ्यो विसर्गस्तथा परिवर्त्तनम् ॥ ११ ॥
तरुणगृहेष्वर्थान्तरेषु त्रिपादमात्रम् ॥ १२ ॥
गृहक्षेत्रविरोधे सामन्तप्रत्ययः ॥ १३ ॥
सामन्तविरोधे लेख्यप्रत्ययः ॥ १४ ॥
प्रत्यभिलेख्यविरोधे ग्रामनगरवृद्धश्रेणीप्रत्ययः ॥ १५ ॥
अथाप्युदाहरन्ति ।
पैतृकं क्रीतमाधेयमन्वाधेयं प्रतिग्रहम् ।
यज्ञादुपगमो वेणिस्तथा धूमशिखाष्टमीति ॥ १६ ॥
तत्र भुक्तानुभुक्तदशवर्षम् ॥ १७ ॥
अन्यथाप्युदाहरन्ति ।
आधिः सीमा बालधनो निक्षेपोपनिधिस्त्रियः ।
राजस्वं श्रोत्रियद्रव्यं न संभोगेन हीयते ॥ १८ ॥
प्रहीणद्रव्याणि राजगामीनि भवन्ति ॥ १९ ॥
ततोन्यथा राजा मन्त्रिभिः सह नागरैश्च कार्याणि कुर्यात् ॥ २० ॥
वेधसो वा राजा श्रेयान्गृध्रपरिवारं स्यात् ॥ २१ ॥
गृध्रपरिवारं वा राजा श्रेयान् ॥ २२ ॥
गृध्रपरिवारं स्यान्न गृध्रो गृध्रपरिवारं स्यात् ॥ २३ ॥
परिवाराद्धि दोषाः प्रादुर्भवन्ति ॥ २४ ॥
11. मार्गे क्षेत्रे एज्यो बिसर्गे तथा Bh. E. H. मार्गेक्षेत्रयोर्विसर्गं तथा पारी-
वर्त्तने F. 12. त्रिपादपात्रं B. Ban. ed. 16. पन्त्रकं F. H. पैत्रकं B पत्रकां
E. Bh. प्रतिग्रहः K. 18. बालधनं निक्षेपोनिधी Manu Dh. 8, 149. तथा-
न्यथा B. Eh. 21-23. These three Sūtras are most probably
corrupt ;read वैतसः instead of वैधसः of all Mss.; अगृध्रपरिवारः K.
गृध्रपरिधारः K.

४७
स्तेयहारविनाशनं च ॥ २५ ॥
तस्मात्पूर्वमेव परिवारं पृच्छेत् ॥ २६ ॥
अथ साक्षिणः ॥ २७ ॥
श्रोत्रियो रूपवाञ्शीलवान्पुण्यवान्सत्यवान्साक्षिणः ॥ २८ ॥
सर्वेषु सर्व एव वा ॥ २९ ॥
स्त्रीणां साक्षिणः स्त्रियः कुर्याद्द्विजानां सदृशा द्विजाः शूद्राणां सन्तः
शूद्राश्चान्त्यानामन्त्ययोनयः ॥ ३० ॥
अथाप्युदाहरन्ति ।
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशिष्टं च न पुत्रो दातुमर्हति ॥ ३१ ॥
ब्रूहि साक्षिन्यथातत्त्वं लम्बन्ते पितरस्तव ।
तव वाक्यमुदीक्षाणा उत्पतन्ति पतन्ति च ॥ ३२ ॥
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुकुले गच्छेद्वः साक्ष्यमनृतं वदेत् ॥ ३३ ॥
पञ्च कन्यान्नृते हन्ति दश हन्तिगवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ३४ ॥
व्यवहारे मृते दारे प्रायश्चित्तं कुलस्त्रियाः ।
तेषां पूर्वपरिच्छेदाच्छिद्यन्तेत्रापवादिभिः ॥ ३५ ॥
उद्वाहकाले रतिसंप्रयोगे
प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेयुः
पञ्चानृतान्याहुरपातकानि ॥ ३६ ॥
26. पश्चात्पूर्वं B. F. H. 27. साक्षिकः F. H. 28. गुणवान् E. H. 30. स्त्रीणां
तु F. H. 31. सैरिकं B. Ban. ed. 35. व्यवहेन्नृते पारे B. Ban. ed. द्वारे
Bh. E. चापवादिभिः B. H.
वासिष्ठ धर्म ७.
भारते ऽयमर्थो न यानुपूर्व्योक्तिः —
न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन् विवाहकाले ।
प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥

स्वजनस्वार्थे यदि वार्थहेतोः
पक्षाश्रयेणैव वदन्ति कार्यम् ।
ते शब्दवंशस्य कुलस्य पूर्वान्
स्वर्गस्थितांस्तानपि पातयन्ति ॥
अपि पातयन्तीति ॥ ३७ ॥
इति वासिष्ठधर्मशास्त्रे षोडशोऽध्यायः ॥ १६ ॥
ऋणमस्मिन्सन्नयत्यमृतत्वं च गच्छति ।
पिता पुत्रस्य जातस्य पश्येच्चेज्जीवतो मुखम् ॥ १ ॥
अनन्ताः पुत्रिणां लोका नापुत्रस्य लोकोस्तीति श्रूयते ॥ २ ॥
अप्रजाः सन्तवत्रिण इत्यभिशापः ॥ ३ ॥
प्रजाभिरग्ने अमृतत्वमश्यामित्यपि निगमो भवति ॥ ४ ॥
पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपमिति ॥ ५ ॥
क्षेत्रिणः पुत्रो जनयितुः पुत्र इति विवदन्ते ॥ ६ ॥
तत्रोभयथाप्युदाहरन्ति ॥ ७ ॥
यद्यन्यगोष्ठु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा मोघं स्यन्दितमर्षभमिति ॥ ८ ॥ स्कन्दितमिति पाठः।
अप्रमत्ता रक्षत तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुः। जनयितुः
पुत्रो भवति संपराये मोघं तेत्ता कुरुते तन्तुमेतमिति ॥ ९ ॥


पादटिप्पणी (Footnotes):

  1. पक्षाश्रयेणाभिवदन्ति कार्याः B. Ban. ed. H. द्वे शब्द° B. Ban. ed.
    H. कुलस्य दग्ध्वा स्वर्गं Ban. ed. दृष्ट्वा B. °स्थितानसपि B. Ban. ed.
    XVII. 8. यद्यन्यां गोषु B. Bh.. गोपानामेव E. 9. न जनयितुं B. Bh.
    E. H,, compare however Āpast Bh. II, 6. 13. 7. संपरायः B. Ban
    ed, H.

४९
बहूनामेकजातानामेकश्चेत्पुत्रवान्नरः ।
सर्वे ते तेन पुत्रेण पुत्रवन्त इति श्रुतिः ॥ १० ॥
वह्वीनामेकपत्नीनामेका पुत्रवती यदि ।
सर्वास्तास्तेन पुत्रेण पुत्रवन्त्य इति श्रुतिः ॥ ११ ॥
द्वादश इत्येव पुत्राः पुराणदृष्टाः ॥ १२ ॥
स्वयमुत्पादितः स्वक्षेत्रे संस्कृतायां प्रथमः ॥ १३ ॥
तदलाभे नियुक्तायां क्षेत्रजो द्वितीयः ॥ १४ ॥
तृतीयः पुत्रिका ॥ १५ ॥
विज्ञायत अभ्रातृका पुंसः पितॄनभ्येति प्रतीचीनं गच्छति पुत्र-
त्वम् ॥ १६ ॥
तत्र श्लोकः ।
अभ्रातृकां प्रदास्यामि तुभ्यं कन्यामलंकृताम् ।
अस्यां यो जायते पुत्रः स मे पुत्रो भवेदिति ॥ १७ ॥
पौनर्भवश्चतुर्थः ॥ १८ ॥
या कौमारं भर्त्तारमुत्सृज्यान्यैः सह चरित्वा तस्यैव कुटुम्ब-
माश्रयति सा पुनर्भूर्भवति ॥ १९ ॥
या च क्लीबं पतितमुन्मत्तं वा भर्त्तारमुत्सृज्यान्यं पतिं विन्दते
मृते वा सा पुनर्भूर्भवति ॥ २० ॥
कानीनः पञ्चमः ॥ २१ ॥
यं पितृगृहेऽसंस्कृता कामादुत्पादयेन्मातामहस्य पुत्रो भवती-
त्याहुः ॥ २२ ॥
अथाप्युदाहरन्ति ।
अप्रत्ता दुहिता यस्य पुत्रं विन्देत तुल्यतः ।
पुत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनमिति ॥ २३ ॥
19. पुनर्भूया B. F. H. 20. या वा B. F. H. 22. या E. H,