वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 47, कुल 106 में से
संदर्भ में पढ़ें३३
कृष्णाजिनमुत्तरीयं ब्राह्मणस्य ॥ ६१ ॥
रौरवं क्षत्रियस्य ॥ ६२ ॥
गव्यं बस्ताजिनं वा वैश्यस्य ॥ ६३ ॥
शुक्लमहतं वासो ब्राह्मणस्य ॥ ६४ ॥
माञ्जिष्ठं क्षत्रियस्य ॥ ६५ ॥
हारिद्रं कौशेयं वा वैश्यस्य ॥ ६६ ॥
सर्वेषां वा तान्तवमरक्तम् ॥ ६७ ॥
भवत्पूर्वां ब्राह्मणो भिक्षां याचेत ॥ ६८ ॥
भवन्मध्यां राजन्यः ॥६९ ॥
भवदन्त्यां वैश्यः ॥ ७० ॥
आ षोडशाद्ब्राह्मणस्य नातीतः कालः ॥ ७१ ॥
आ द्वाविंशात्क्षत्रियस्य ॥ ७२ ॥
आ चतुर्विंशाद्वैश्यस्य ॥ ७३ ॥
अत ऊर्ध्वं पतितसावित्रीका भवन्ति ॥ ७४ ॥
नैतानुपनयेन्नाध्यापयेन्न याजयेन्नैभिर्विवाहयेयुः ॥ ७५ ॥
पतितसावित्रीक उद्दालकव्रतं चरेत् ॥ ७६ ॥
द्वौ मासौ यावकेन वर्तेयेन्मासं पयसार्धमासमाभिक्षयाष्टरात्रं घृतेन
षड्ररात्रमयाचितेन त्रिरात्रमब्भक्षोहोरात्रमुपवसेत् ॥ ७७ ॥
अश्वमेधावभृथं गच्छेत् ॥ ७८ ॥
व्रात्यस्तोमेन वा यजेद्वा यजेद्वेति ॥ ७९ ॥
इति वासिष्ठधर्मशास्त्र एकादशोध्यायः ॥ ११ ॥
- वस्त्राजिनं F. H. 68. भिक्षयीत H. 77. त्रिरात्रमम्बुभ° F. H. 79.
यजेदिति read all Mss except K.