वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 55, कुल 106 में से
संदर्भ में पढ़ें[Page Header]
४१
एधोदकयवसकुशलाज(भ्युद्यतथानावसथशफरीप्रियङ्गुस्रग्गन्धम-
धुमांसानीत्येतेषां प्रतिगृह्णीयात् ॥ १२ ॥
अथाप्युदाहरन्ति ।
गुर्वर्थं दारमुज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं तत इति ॥ १३ ॥
न मृगयोरिषुचारिणः परिवर्ज्यमन्नम् ॥ १४ ॥
विज्ञायते हि । अगस्त्यो वर्षसाहस्रिके सत्रे मृगयां चचार ।
तस्यांसंतरसमयाः पुरोडाशा मृगपक्षिणां प्रशस्तानाम् ॥ १५ ॥
अपि ह्यत्र प्राजापत्याञ्श्लोकानुदाहरन्ति ।
उद्यतामाहृतां भिक्षां पुरस्तादप्रचोदिताम् ।
भोज्यां प्रजापतिर्मेने अपि दुष्कृतकारिणः ॥ १६ ॥
श्रद्दधानस्य भोक्तव्यं चोरस्यापि विशेषतः ।
न त्वेव बहुयाज्यस्य यश्चोपनयते बहून् ॥ १७ ॥
न तस्य पितरोऽश्नन्ति दश वर्षाणि पञ्च च ।
न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ १८ ॥
चिकित्सक्स्य मृगयोः शल्यहर्तुस्तु पापिनः ।
षण्ढस्य कुलटायाश्च उद्यतापि न गृह्यत इति ॥ १९ ॥
उच्छिष्टमगुरोर्भोज्यम् ॥ २० ॥
खमुच्छिष्टमुच्छिष्टोपहतं च ॥ २१ ॥
यद्श्वसनकेशकीटोपहतं च ॥ २२ ॥
कामं तु केशकीटानुद्धृत्याद्भिः प्रोक्ष्य भस्मनावकीर्य वाचा प्रशस्त-
मुपयुञ्जीत ॥ २३ ॥
- Ban. ed. F. H. connect विज्ञायते हि with the preceding Sūtra
- पाशिनः Bh. E. पाशिकः H. खण्डस्य E. H. 23. भोक्ष्य F. H.