वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 54, कुल 106 में से
संदर्भ में पढ़ें४०
सर्वैरैव वध्वा ऊह्यमानायै ॥ ६० ॥
तृणभूम्यग्न्युदकवाक्सूनृतानसूयाः सतां गृहे नोच्छिद्यन्ते कदा
च न कदा च नेति ॥ ६१ ॥
इति वासिष्ठधर्मशास्त्रे त्रयोदशोऽध्यायः ॥ १३ ॥
――――
अथातो भोज्याभोज्यं च वर्णयिष्यामः ॥ १ ॥
चिकित्सकमृगयुपुंश्चलीदण्डिकस्तेनाभिशस्तषण्ढपतितानामन्नमभो-
ज्यम् ॥ २॥
कदर्यदीक्षितबद्धादुरसोमविक्रायितक्षरजकशौण्डिकसूचकवार्धुषिक-
चर्मावकृन्तानाम् ॥ ३ ॥
शूद्रस्य च ॥ ४ ॥
अस्त्रभृतश्च ॥ ५ ॥
उपपतेर्यश्चोपपतिं मन्यते ॥ ६ ॥
यश्च गृहान्दहेत् ॥ ७ ॥
यश्च वधार्हाञ्चोपहन्यात् ॥ ८ ॥
को भोक्ष्यत इति वाचाभिघुष्टम् ॥ ९ ॥
गणान्नं गणिकान्नं चेति ॥ १० ॥
अथाप्युदाहरन्ति ।
नाश्नन्ति श्ववतो देवा नाश्नन्ति वृषलीपतेः ।
भार्याजितस्य नाश्नन्ति यस्य चोपपतिर्गृहे इति ॥ ११ ॥
――――
XIV. 2. शठ° instead of °षण्ढ° B. Ban. ed. °खण्ड° H. 3. °बद्धासु-
रसोम° H. °विक्रयितक्षक° Bh. E. H. विक्रयितस्कररजक° F. °सूचिक° B.
Ban. ed. E. F. H. 5. अस्त्रपूतस्य H. 6. °उपपत्तिं F. यश्चोपरि B. Ban. ed.