वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 58, कुल 106 में से
संदर्भ में पढ़ें४४
शोणितशुक्रसंभवः पुरुषो भवति मातापितृनिमित्तकः ॥ १ ॥
तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥ २ ॥
न त्वेकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा ॥ ३ ॥
स हि सन्तानाय पूर्वेषाम् ॥ ४ ॥
न स्त्री पुत्रं दद्यात्प्रतिगृह्णीयाद्वान्यत्रानुज्ञानाद्भर्तुः ॥ ५ ॥
पुत्रं प्रतिग्रहीष्यन्बन्धूनाहूय राजनि च निवेद्य निवेशनस्य मध्ये
व्याहृतिभिर्हुत्वादूरबान्धवं बन्धुसन्निकृष्टमेव प्रतिगृह्णीयात् ॥ ६ ॥
सन्देहे चोत्पन्ने दूरेबान्धवं शूद्रमिव स्थापयेत् ॥ ७ ॥
विज्ञायते ह्येकेन बहूंस्त्रायत इति ॥ ८ ॥
तस्मिंश्चेत्प्रतिगृहीत औरसः पुत्र उत्पद्येत चतुर्थभागभागी
स्याद्दत्तकः ॥ ९ ॥
यदि नाभ्युदयिकेषु युक्तः स्यात् ॥ १० ॥
वेदविप्लावकः शूद्रयाजक उत्तमवर्णवर्गपतितास्तेषां पात्रनि-
नयनम् ॥ ११ ॥
अपात्रसङ्करादकृत्स्नं पात्रमादाय दासोसवर्णपुत्रो वा बन्धुरसदृशो
वा गुणहीनः सव्येन पादेन प्रवृत्ताग्रान्दर्भाल्लोहितान्वोपस्तीर्य पूर्ण-
पात्रमस्मै निनयेत् ॥ १२ ॥
निनेतारं चास्य प्रकीर्णकेशा ज्ञातयोन्वालभेरन् ॥ १३ ॥
अपसव्यं कृत्वा गृहेषु स्वैरमापद्येरन् ॥ १४ ॥
अत ऊर्ध्वं न तं धर्मयेयुः ॥ १५ ॥
XV. 1. भवति wanted B. F. H. 3 त्वेवैकं B. न चैकं H. 5. न तु B.:
6. चावेद्य B. F. H. 10. उपयुक्तः Bh. 11. विप्लावाकिनः F. H. विष्ठावहीनः
13. नेतारं F.