वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 51, कुल 106 में से
संदर्भ में पढ़ें३७
देवेभ्य ऋषिभ्यश्छन्दोभ्यश्चेति ॥ ३ ॥
ब्राह्मणान्स्वस्तिवाच्य दधि प्राश्य ततोऽध्यायानुपाकुर्वीरन् ॥ ४ ॥
अर्धपञ्चमान्मासानर्धषष्ठान्वा ॥ ५ ॥
अत ऊर्ध्वं शुक्लपक्षेष्वधीयीत ॥ ६ ॥
कामं तु वेदाङ्गानि ॥ ७ ॥
तस्यानध्यायाः ॥ ८ ॥
सन्ध्यास्तनिते ॥ ९ ॥
सन्ध्यासु ॥ १० ॥
अन्तःशवदिवाकीर्त्येषु नगरेषु ॥ ११ ॥
कामं गोमयपर्युषिते परिलिखिते वा ॥ १२ ॥
श्मशानान्ते ॥ १३ ॥
शयानस्य ॥ १४ ॥
श्राद्धिकस्य ॥ १५ ॥
मानवं चात्र श्लोकमुदाहरन्ति ।
फलान्यपस्तिलान्भक्ष्यान्यच्चान्यच्छ्राद्धिकं भवेत् ।
प्रतिगृह्याप्यनध्यायः पाण्यास्या ब्राह्मणाः स्मृता इति ॥ १६ ॥
धावतः पूतिगन्धप्रभृताविरिणे ॥ १७ ॥
वृक्षारूढस्य ॥ १८ ॥
नावि सेनायां च ॥ १९ ॥
भुक्त्वा चार्द्रपाणेः ॥ २० ॥
वाणशब्दे ॥ २१ ॥
चतुर्दश्यामामावास्यायामष्टम्यामष्टकासु ॥ २२ ॥
4. अर्धपञ्चमासान् Bh. E. 16. फलान्यापः E. Bh. K. °यथान्यत्° B. H.
17. गन्धिप्रभृतीरिणे B. H. गन्धप्रभृताव्रण E.