वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 45, कुल 106 में से
संदर्भ में पढ़ें३१
देवतायतने कृत्वा ततः श्राद्धं प्रवर्तयेत् ।
प्रास्येदग्नौ तदन्नं वा दद्याद्वा ब्रह्मचारिणे ॥ ३१ ॥
यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः ।
तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ ३२ ॥
हविर्गुणा न वक्तव्याः पितरो यावदतर्पिताः ।
पितृभिस्तर्पितैः पश्चाद्वक्तव्यं शोभनं हविः ॥ ३३ ॥
नियुक्तस्तु यतिः श्राद्धे दैवे वा मांसमुत्सृजेत् ।
यावन्ति पशूरोमाणि तावन्नरकमृच्छति ॥ ३४ ॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ ३५ ॥
दिवसस्याष्टमे भागे मन्दीभवति भास्करः ।
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम् ॥ ३६ ॥
श्राद्धं दत्त्वा भुक्त्वा च मैथुनं योधिगच्छति ।
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३७ ॥
यस्ततो जायते गर्भो दत्त्वा भुक्त्वा च पैतृकम् ।
न स विद्यां समाप्नोति क्षीणायुश्चैव जायते ॥ ३८ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
उपासते सुतं जातं शकुन्ता इव पिप्पलम् ॥ ३९ ॥
मधुमांसैश्च शाकैश्च पयसा पायसेन च ।
एष नो दास्यति श्राद्धं वर्षासु च मघासु च ॥ ४० ॥
सन्तानवर्द्धनं पुत्रमुद्यतं पितृकर्मणि ।
देवब्राह्मणसंपन्नमभिनन्दन्ति पूर्वजाः ॥ ४१ ॥
31. तदन्नं तु B. H. 33. अर्पिताः B. H. F. 36. नाम instead of ज्ञेय
Bh. E. H. 38. विद्यामवाप्नोति F. H. 41. पुत्र तृप्यन्तं B. Ban. ed. H
तृप्यन्तं F. पुत्रतृपन्तः Bh. E. तृप्यन्त Calc. ed.
वासिष्ठधर्म ५.