वासिष्ठ धर्मशास्त्र (महर्षि वसिष्ठ - प्राचीन वैदिक स्मृति सटीक)
Vasishtha Dharmashastra with Commentary
महर्षि वसिष्ठ / डॉ. अलोइस फुहरर द्वारा
पृष्ठ 57, कुल 106 में से
संदर्भ में पढ़ें४३
अन्तर्नाव्युदकम् ॥ ३६ ॥
अपूपधानाकरम्भसक्तुवटकतैलपायसशाकानि शुक्तानि
वर्जयेत् ॥ ३७ ॥
अन्यांश्च क्षीरयवपिष्टविकारान् ॥ ३८ ॥
श्वाविच्छल्यकशशकच्छपगोधाः पञ्चनखानां भक्ष्याः ॥ ३९ ॥
अनुष्ट्राः पशूनामन्यतोदन्ताश्च ॥ ४० ॥
मत्स्यानां वा चेटगवयशिशुमारनक्रकुलीराः ॥ ४१ ॥
विकृतरूपाः सर्पशीर्षाश्च ॥ ४२ ॥
गौरगवयशरभाश्च ॥ ४३ ॥
अनुद्दिष्टास्तथा ॥ ४४ ॥
धेन्वनडुहावपन्नदन्ताश्च ॥ ४५ ॥
भक्ष्यौ तु धेन्वनडुहौ मेध्यौ वाजसनेयके विज्ञायते ॥ ४६ ॥
खड्गे तु विवदन्त्यग्राम्यशूकरे च ॥ ४७ ॥
शकुनानां च विषुविष्किरजालपादकलविङ्कप्लवहंसचक्रवाकभासवाय-
सपारावतकुररसारङ्गाण्डकपोतक्रौञ्चक्रकरकङ्कगृध्रश्येनबकबलाक-
मद्गुटिट्टिभमान्धालनक्तञ्चरदार्वाघाटचटकैलातकाहारीतखञ्जरीट-
ग्राम्यकुकुटशुकशारिकोकिलक्रव्यादो ग्रामचारिणश्च ग्रामचारि-
णश्चेति ॥ ४८ ॥
इति वासिष्ठधर्मशास्त्रे चतुर्दशोऽध्यायः ॥ १४ ॥
37. नाशुक्तानि H. नाशुष्कानि F. नाशुल्कानि B. Ban. ed. 39. °शल्क°
F. H. 48. °कुक्कुट° B. E. F. °कुक्कुर° H. °माघार° B, Ban. ed. E.
माधां नक्तं° Bh. F. H. °टिट्टिभान्धनक्तं° J. O. 913. क्रव्यातः H.