उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)
Uttararamacharitam of Bhavabhuti with Hindi Commentary
महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा
७-५ ] उत्तररामचरितं १४७
स्नेहेन । यद्वा सर्वसाधारणो ह्येष मानसो मोहग्रन्थिश्चेतनावतामुपप्लवः
संसारतन्तुः । देवि भूतधात्रि वत्से वैदेहि समाश्वसिहि समाश्वसिहि ।
पृथिवी-देवि सीतां प्रसूय कथमश्वसिमि ।
सोढश्चिरं राक्षसमध्यवास-
स्त्यागो द्वितीयो हि सुदुःसहोस्याः ।
भागी०-को नाम पाकाभिमुखस्य जन्तो-
द्वाराणि दैवस्य विधातुमीष्टे ॥ ४ ॥
पृथिवी-भगवति भागीरथि युक्तमेतत्सर्वं न वो रामभद्रस्य ।
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।
नाहं न जनको नाग्निर्नारानुवृत्तिर्न सन्ततिः ॥ ५ ॥
सीता-हा अज्जउत्त सुमराविदोम्हि । हा आर्यपुत्रं स्मारितास्मि ।
कल्पशतानि वा तदपि व्यथते । अत एव (अफल ?) स्नेहेन जितमिति
भावः ॥ मानसः मनस्सम्बन्धी । मोहग्रन्थिः ममतापाशः । 'ममता-
गृह्योर्मोहः' इति, 'ग्रन्थिर्नो पर्वपाशयो' इति वामनयादवौ । चेतना-
वतां प्राणिनाम् । 'उपप्लव उपद्रवे' इति ध्वनिमञ्जरी । गूढैतान्तर इति
च दिशरी प्रसिद्धा । भूतधात्रि इति भूवाचक सद्योपनम् ॥ सोढश्चि-
रमिति ॥ ४ ॥ सोढः क्षान्तः । लङ्कायामिति भावः । हि प्रसिद्वौ ।
अहिस्तर्पं इव सुदुस्सह इति एकपद च । पाको सुरादु सपरिणामंः
तामुद्दिश्य अभिमुखस्य । 'पोते च परिणामे च पाक' इति नानार्थमञ्जरी ।
जन्तोर्विषये । 'तस्य वा तस्य विषये' इति समवयदिति । दैवस्य सुरा-
दुरात्रापरविधेः । द्वाराणि प्रवेशमार्गान् । विधातुं आच्छादयितुम् ।
ईष्टे समर्थो भवति । तथा च-'अवश्यमनुगोक्तव्यं कृतं कर्म शुभाशुभम् ॥'
इति भावः । 'प्रवेशमार्गे च द्वारि छिद्रे च' इति धनञ्जयः ॥ ४ ॥ न
वो रामभद्रस्येति भिन्नं वाक्यम् । यः युष्माकम् । रामभद्रस्य नेति
युक्तमित्यनुषङ्गः । 'सीताऽर्धमभवान्बिष्णु' इति स्मारितयादिति भावः ।
तदेवाह-न प्रमाणीकृत इति ॥ ५ ॥ अनुवृत्तिः अनुवर्तनम् ।
सन्ततिः रघुणां वंशः । प्रमाणीकृत इति पदं सर्वत्र यथोचितमूह्यम्
१ 'मनसो मूढग्रन्थिरानन्द.' न, 'जननो मोहग्रन्थिरनश्वर.' क-च, 'गृह्य-
स्थिरनश्वर.' घ. २ 'अनुभूत.' क-घ-च. ३ 'स्वरचिरम्' घ. ४ 'द्वितीयस्तु'
न; 'द्वितीयश्च' क-घ-च. ५ 'जन्तुः' न-व. ६ 'सदृशमुक्तम् । युक्तमेतन्न
रामभद्रस्य' क-घ-च; 'सर्वं वो रामभद्रस्य' न. ७ 'न तु वृत्ति' न.
१४८ उत्तररामचरितं [७-६
पृथिवी—आः क्खवार्यपुत्र ।
सीता—(सलज्जास्रम्।) जहा वा अम्बा भणादि । यथा वाऽम्बा
भणति ।
रामः—अम्ब पृथिवि, ईदृशोऽस्मि ।
भागी०—भगवति वसुन्धरे शरीरमसि संसारस्य । तत्किमसंविदानेव
जामात्रे कुप्यसि ।
घोर लोके विततमयशो या च वह्नौ विशुद्धि-
र्लङ्काद्वीपे कथमिव जनस्तामिह श्रद्दधातु ।
इक्ष्वाकूणां कुलधनमिदं यत्समाराधनीयः
कृत्स्नो लोकस्तदिति विषमे किं स वत्सः करोतु ॥ ६ ॥
लक्ष्मणः—अव्याहतान्त प्रकाशा हि देवताः सर्व्वेषु ।
भागी०—तथाप्येष तेऽञ्जलिः ।
राम.—अम्ब अनुवृत्तरुदया भगीरथकुले प्रसीद ।
पृथिवी—देवि नित्यं प्रसन्नास्मि यः किं त्वापातदु सहस्नेहसंवेगेनैवं
ब्रवीमि । न पुनर्न जानामि सीतास्नेहं रामभद्रस्य ।
॥ ५ ॥ हा आर्यपुत्र स्मर्यसे । आः कोपे । यथाऽम्बा भणति । 'अम्बा
माता गुरुवधू श्वश्रूज्येष्ठप्रजापती' इति रत्नमाला । शरीरमसि शरीरमिव
रक्ष्यं प्रार्थनीयासीत्यर्थः । सर्वाधारत्वादिति भावः ॥ घोरं लोके विततमिति
॥ ६ ॥ विततं विस्तृतम् । श्रद्दधातु दृढप्रत्ययादिति भावः । समाराध-
नीय इति यत् इदं इक्ष्वाकूणां कुलधनमित्यर्थः । तद्वदावश्यकमिति
भावः । एतेन- 'लज्जा ( रुजा ? ) कुलधनं राजा लङ्का प्रायाद्विभीषण ।'
इत्यत्र यत् कैरपि यथेच्छं व्याहृतम्, तत्परास्तम् । तत् तस्मात् । इति
पूर्वोक्तप्रकारेण । विषमे सङ्कटे ॥ ६ ॥ सर्व्वेषु विषयेषु । अथ गङ्गा भूमिं
प्रत्याह-तथापीति । ते तुभ्यम् । अञ्जलिः मया दियत इति शेष ।
अनुवृत्त अनुगल रुत इत्यर्थः । तत्तादृशस्य अद्भूमिति सम्प्रदायार्थः । अत
एव अनावागतोऽस्मीति विक्रमचरिते डिण्डिमः । आपाते श्राकर्णनक्षण
एव दुस्सहं कौलीनं यस्मात्तादृशी चासौ मुग्धा तस्या स्नेहस्य आवेगः
शागमन्नावैग आवेगतस्तेनेत्यर्थ । 'दर्शनक्षण आपातमथवाकर्णनक्षण' ।
१ 'तदिह' न-क, 'तमपि विषमे' घ, 'तदतिगहनम्' य. २ 'भूतेषु विशेषेण
गङ्गा' घ-य. ३ एतल्लक्ष्मणवाक्य घ-यं-पुस्तक्रयो . ४ 'दु मह शोकावेगोत्प-
त्तस्य न पुनर्न' य; 'किं स्वभावापातु सह स्नेहसंवेग 'न.
७-८ ] उत्तररामचरितं १४९
दह्यमानेन मनसा दैवाद्वत्सां विहाय सः ।
लोकोत्तरेण सत्त्वेन प्रजापुण्यैश्च जीवति ॥ ७ ॥
रामः—सकरुणा हि गुरवो गर्भरूपेषु ।
सीता—( सदधी कृताञ्जलिः । ) णेटु मं भत्तगो अङ्गेसु विळअं अग्या ।
नयतु मामात्मनोऽङ्गेषु विलयमम्बा ।
रामः—किमप्यब्रवीत् ।
भागी०—शान्तम् । अविलीना संवत्सरसहस्राणि भूयाः ।
पृथिवी—वत्से भवेश्वर्यौ ते पुत्रकौ ।
सीता—अणाधम्हि । किं एदेहि । अनाथास्मि । किमेताभ्याम् ।
रामः—हृदय वज्रमसि ।
भागी०—कथं त्वं सनाथाप्यनाथा ।
सीता—कीरिसं मे अभग्गाए सणाहत्तणम् । कीदृशं मे अभाग्याया
सनाथत्वम् ।
देव्यौ—जगन्मङ्गलमात्मानं कथं त्वमवमन्यसे ।
आवयोरपि यत्सङ्गात्पवित्रत्वं प्रकृष्यते ॥ ८ ॥
लक्ष्मणः—आर्य श्रूयताम् ।
रामः—प्रयोक्तु लोकः ।
( नेपथ्ये कलकलः । )
रामः—अद्भुततर किमपि ।
सीता—किन्ति आदळूकलकल अन्तरिक्खं पवत्तदि । किमिलद्धकल-
कलमन्तरिक्षं प्रवर्त्तते ।
इति, 'दुर्ललितं लोके च' इति केदाराह्वनौ । अत एव 'अदत्तान्नधुरम्'
इति शार्ङ्गरवः । सीताया स्नेहम् । 'धैर्य्यं सत्त्व' इति जयः ॥ दह्यमानेन
मनसेति ॥ ७ ॥ प्रजानां पुण्यै ॥ ७ ॥ गर्भाणिव रूपं जास्येति
येषां तेम्भाविति शेषः ॥ नयतु मामात्मनोऽङ्गेषु विलयमम्बा । 'जन्मर्धाने
च विलय' इत्यमरः । अविलीना अनष्टा । किमेताभ्यामनाथभ्याम् ।
वज्रमिति- एवमप्येतत्प्रवदसीति भावः । कीदृशं मे अभाग्याया सना-
थत्वम् । नाथनातपतित्वानिदेवैश्वार्येख्याहि' इति मन्त्री ॥ जगन्मङ्गलमिति
॥ ८ ॥ यत् यस्मात् आवयोः । सङ्गात् सम्भवे । प्रकृष्यते अधि-
१ 'पैवेन' घ. २ 'वज्रमहम्' क-घ-य. ३ 'कथं वन्ध्यो सनाथाप्यनाथा'
न. ४ एदाम्हि क-घ-य-पुस्तकेषु.
१५० उत्तररामचरितं [ ७-१२
देव्यौ—ज्ञातम् ।
कृशाश्वः कौशिको राम इति येषां गुरुकमः ।
प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥
( नेपथ्ये । ) देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रकौ हि ते ।
आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥
सीता—दिट्ठिआ अत्थदेवदाओ एदाओ । हा अज्जउत्त अञ्जावि दे
पसादा पडिफुरन्ति । [ दिष्ट्या अस्त्रदेवता एताः । हा आर्यपुत्र अद्यापि ते
प्रसादा प्रतिस्फुरन्ति । ]
लक्ष्मणः—उक्तमासीदार्येण ममैवैदानीं स्वप्रसूतिमुपस्थास्यन्तीति ।
देव्यौ—नमो वः परमास्त्रेभ्यो धन्याः स्मो वः परिग्रहात् ।
काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥
राम —क्षुभिताः कामपि दशां कुर्वन्ति मम सांप्रतम् ।
विस्मयानन्दसन्दर्मजर्जराः करुणोर्मयः ॥ १२ ॥
देव्यौ—मोदस्व वत्से मोदस्व । रामभद्रतुल्यौ ते पुत्रकाविदानीं
संवृत्तौ ॥
सीता—भअवदीओ को एदाणं खत्तिओइदविहिं कारइस्सिदि । भगवत्यौ
क एतयो क्षत्रियोचितविधिं कारयिष्यति ।
दीयिते ॥ ८ ॥ श्रूयतामिति—चतुर्थचरणमिति भावः । लोक इति
गम्भीरोपवाद् गतादिति भावः ॥ तिमिरोपपद्दकत्ववलं ज्वलतीवान्तरिक्षम् ॥
कृशाश्वः कौशिकः इति ॥ ९ ॥ क्रमः परम्परा । 'शस्त्रमस्त्र'मित्यमरे ।
जृम्भकैः अस्त्रविशेषैः ॥ ९ ॥ देवि सीते इति ॥ १० ॥ ते तव चित्रे
आलेख्यम् । चित्रम् । ययोः पुत्रकयोः । 'कस्य ददानि' ( इति १ ) धाण-
क.वि० । याभ्यामिति पाठ ॥ १० ॥ दिष्ट्या अस्त्रदेवता । हा आर्यपुत्र
अद्यापि ते प्रसादा प्रस्फुरन्ति ॥ नमो व इति ॥ ११ ॥ वः युष्माकम् ।
परिग्रहात् आदानात् । पश्चाद्गमेन पारवश्यमाह—क्षुभिता कामपीति
॥ १२ ॥ क्षुभिताः क्षोभं प्राप्ताः । सन्दर्मेण सम्बन्धविशेषेण संपट्टे-
नेति यावत् । जर्जराः शक्लीभूता । करुणोर्मयः दयातरङ्गा ॥ १२ ॥
भगवति क इदानीमेताभ्यां क्षत्रियोचितं विधिं विद्या च कारयिष्यसि । विधिं
१ 'दर्शने देवो यदाह रघुनन्दनः' क-घ. २ एतद्रामवाक्यं घ-पुस्तके.
३ 'खत्तिओचिद् कम्मं करिस्सदि' ( क्षत्रियोचितं कर्म करिष्यति ) क-घ-घ.
७-१५] उत्तररामचरितं १५१
रामः—एषा वसिष्ठगुप्तानां रघूणां वंशनन्दिनी।
कथं सीतापि सुतयोः संस्कर्तारं न विन्दति ॥ १३ ॥
भागी०—पुत्रि किं तवानया चिन्तया। एतौ हि वत्सौ स्तन्यत्यागात्प-
रेण भगवतो वाल्मीकेर्पयिष्यामि। स एतयोः क्षत्रकृत्यं करिष्यति।
यथा वसिष्ठाङ्गिरसावृषीः प्राचेतसस्तथा।
जनकानां रघूणां च वंशयोरुभयोर्गुरुः ॥ १४ ॥
रामः—सुविचिन्तितं भगवत्या।
लक्ष्मणः—आर्य सत्यं विज्ञापयामि तैस्तैरुपायैरमी वत्सौ कुशलवा-
वुत्प्रेक्षे।
एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ।
आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दिकौ ॥ १५ ॥
रामः—वत्सोविलेवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि।
पृथिवी—एहि वत्से पवित्रीकुरु रसातलम्।
विधानम् ॥ एषा वसिष्ठेति ॥ १३ ॥ 'मन्वन्वाह्वाष्टदाचार्य' इत्यमरः ।
आत्मसुतयो कुशलवयोः । संस्कार जातकर्मादिकम् । ध्वनिध ॥ १३ ॥
वयमा उपलक्षिताविति शेषः । करे पाणी । 'ऋष्यङ्गे चाङ्गिरसो मुनिभेदे
बृहस्पतौ' इति वैजयन्ती ॥ १४ ॥ शोभनं च तत् चिन्तितम् । 'उपाय-
थिङ्गसामादिचेष्टितेक्षितयुक्तिषु' इति समासः । कुशलवौ वदित्येवार्थः ॥
अथ सप्तमाङ्कारम्भे लक्ष्मणामन्तर प्रविष्टेन रामेण, 'इमौ पुनर्येसौ कुशलवौ
कुमारचन्द्रकेतुमया प्रतिपत्ति रन्भवितव्या' इति आङ्क्षिपतो रूपक्योऽवे
...(२) पन्चतत्कालदृष्टकुलचयो रूपसौन्दर्यादिना । साम्प्रतमन्तर्नाटके स्तन्य-
वत्यादिहेतुक्माशेङ्कमानः संविधानागादित्य भ्रमेण राममेवावुदुदे--एतौ
हीति ॥ १५ ॥ घन विशेषणवत्तं मुधियामपि प्रमाणाधीति नन्दनम्
॥ १५ ॥ अय गाहिन्दक्स (१) रूपनेन तदिदं नाटकं परिणील्यते—
रजनाय सविधानरहस्यपरिपोड इतो अभिवेदकथने सम्भावितगात्रम
प्रकटीकृतो भवेत् । ततः रामधनत्कुनेनाह-अवीति । परिप्लवमानहृदयः
तरङ्गान्तराः । संप्रमुग्ध इति-संप्री व्यो॑पसर्गौ । अतिगान्ने मूढ इत्यर्थः ।
१ 'रिप्यापाम्' भ. २ 'वर्षिनी' घ-च. ३ अस्य वाक्यस्य स्थाने 'इतिऽ
-ध्व यात्वावौ रघुवंशस्य संप्रति । स एव चानयोर्ब्रह्मपुत्रकृत्यं करिष्यति ॥' इति
शेको न-पुस्तके. ५ 'भरत रूपेराहं' क-घ-च.
१५२ उत्तररामचरितं [ ७-१५
रामः—हा प्रिये लोकान्तरं गतासि !
सीता—णेदु मं अत्तणो अङ्गेसु णिलअं अम्मा। ण सहिस्सं ईरिसं
जीवलोअपरिभवं अणुभविदुं । नयतु मामात्मनोऽङ्गेषु विलयमम्बा । न सहिष्ये
ईदृशं जीवलोकपरिभवमनुभवितुम् ।
रामः—किमुत्तरं स्यात् ।
पृथिवी—मन्नियोगात् स्तन्यत्यागं यावत्पुत्रयोरपेक्षस्व । परेण तु यथा
रोचिष्यते तथा करिष्यामि ।
भागी०—एवं तावत् ।
( इति निष्क्रान्ते देव्यौ सीता च ।)
रामः—कथं विलय एव वैदेह्याः सम्पन्नः । हा देवि दण्डकारण्यवास-
प्रियसखि हा चारित्रदेवते लोकान्तरं पर्यवसितासि । ( मूर्च्छति )
लक्ष्मण —भगवन्वाल्मीके परित्रायस्व परित्रायस्व । एष ते
काव्यार्थः ।
( नेपथ्ये ।) अपनीयतामातोद्यम् । भो भो सतङ्गमस्थावराः प्राण-
भृतो मर्त्यामर्त्याः, पश्यतेदानीं महर्षिणा भगवता वाल्मीकिनाऽभ्यनुज्ञातं
पवित्रमाश्चर्यम् ।
तथा च न रसानल्लग्नेत्यादिरमतीतं चरितं गर्भनाट्यव्याजेन दर्शितम् ॥
एतो हीति पद्यस्यविद्येदपृथक प्रपञ्चितम् । वाल्मीकिसमाध्यवन्दवेकुतमरार-
भटीरामभद्रसलापगुणादिविशिष्टं कुशलवयोः कौमारप्रवर्रणं तदिदं नाटय-
गर्भनाट्यात्मना द्विकोटीरं रुचिरमदृष्टं सविधानरहस्यनारिवेदममुलमनिति-
तलस्फोतिनयानहम् । शिष्यशिथुरनसूयाप्रगुणगुणमणिप्रहव्यालुभिरनुप्राथ
इति दिक् ॥ लोकान्तरं ध्वनि ॥ नयत्वात्मनोङ्गेषु विलयमम्बा न सहिष्ये
रात्रिन्दिव जीवलोकपरिभवमनुभवितुम् । जीवयुक्तेलोकेषु भुवनेषु । 'जीव-
स्तुशस्त्रे' इति धणिउ । परिभवं तिरस्कारम् । नियोगातः शासनात् ।
परेण वयसेति शेष । प्रतिपद ज्ञातमेव अन्तर्नाटकमिति शेषः । 'तावच्च
साकलेऽर्था भागेऽवधारणे' इत्यमरः । चरित्रेण देवतेत्यर्थः । न
मानुषीति भावः । एष ते काव्यार्थः निष्टेरिति भारः । एतावत्पर्यन्तं
गर्भनाटकमिति सूक्ष्मदृग्भिर्बोध्यम् ॥ प्रकृतमनुसरति-नेपथ्ये इति ॥ आ-
तोद्यं चतुर्विधवाद्यम् । प्राणभृत इति-अनन्यगता सतसाङ्गप्रारम्भप्रयमप्र-
१ 'परिवृत्त' ( परिवतं ) क-घ-प. २ 'कथं प्रविपन्न एव तावत् । हा चारि-
त्रदेवते लोकान्तरे पर्यवसितासि' न. ३ 'एष किं ते काव्यार्थे ' घ.
७-१८] उत्तररामचरितं १५३
लक्ष्मणः-( विलोक्य ।) मन्थादिव क्षुभ्यति गाङ्गमम्भो
व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
आश्चर्यमार्या सह देवताभ्यां
गङ्गामहीभ्यां सलिलादुदेति ॥ १६ ॥
पुनरपथ्ये । अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ ।
अर्पितेयं तवाङ्केऽभ्यां सीता पुण्यव्रता वधूः ॥ १७ ॥
लक्ष्मणः-अहो आश्चर्यमाश्चर्यम् । आर्य पश्य पश्य । ( विलोक्य )
इष्टमद्यापि नोच्छ्वसितार्यम् ।
( ततः प्रविशत्यरुन्धती सीता च ।)
अरुन्धती-त्वरस्व वत्से वैदेहि मुञ्च शालीनशीलताम् ।
एहि जीवय मे वत्सं सौम्यस्पर्शेन पाणिना ॥ १८ ॥
सीता-( ससम्भ्रमं स्पृशन्ती ) समस्ससदु समस्ससदु अज्जउत्तो ।
समश्वसितु समाश्वसित्त्वार्यपुत्र ।
रामः-( समाश्वस्य सानन्दम् ) भो किमेतत् । ( दृष्ट्वा सहर्षाद्भुतम् ।)
कथं देवी । ( ससम्भ्रमम् । ) अये भगवा मे अरुन्धती सर्वे च महर्षयस्त
ऋष्यशृङ्गशान्तादयोऽस्मद्गुरवः ।
अरुन्धती-वत्स एषा भगवती भगीरथगृहदेवता सुप्रसन्ना गङ्गा ।
तथाऽये । जगत्पते रामचन्द्र स्मर्यतामालेख्यदर्शने मा प्रत्यात्मनो वचनं
यथा सा त्वमम्ब कृपायामरण्यनीव सीतायाः शिवातुष्याना भवेति तत्र'
नृणाक्षि जाता ।
विष्टदृशनप्टृत्वानुवादर्तेन च प्राप्तभृच्छन्द निर्यगुरवादिपाचर इति विव
क्षिः । प्राप्ता शब्दः प्राप्तपक्षिणां । 'शक्ति प्रने' इल्यमरः । पदय-
न्त्विति-भवन्तु इति शेषः ॥ मन्थादिव क्षुभ्यतीति ॥ १६ ॥ मन्थो
मन्थनम् । आर्या सीता ॥ १६ ॥ अरुन्धतीति ॥ १७ ॥ गङ्गापृ
थिव्यौ नो च द्वितीयाद्विवचनम् । उदिर्खेति शेषः । जुषस्व प्रिनस्व ।
तव हस्ते इति शेषः ॥ १७ ॥ स्वरस्व वत्से इति ॥ १८ ॥ शालीनं
अदृष्टम् । शीलं स्वभावः यस्याः । 'अदृष्टे तु शालीनः' इत्यमरः । सौम्य
सुन्दरः स्पर्शो यस्य । यमेति ध्वनिः ॥ १८ ॥ समाश्वसितु आर्यपुत्रः । गङ्ग
ग्राह जगत्पते इति । सा प्रसिद्धा त्वं अरुन्धतीव कृपायाः सीताया, शिव
अनुष्ठान अनुसरणपूर्वकं स (१) वात्सलामिनि दावद् । ध्यान चिन्तन यस्य ॥
१ 'उपेते' ग २ 'भजस्व' न. ३ 'तवाभ्यान्थे' दृ. ४ 'प्रिन' क-घ-व.
१५४ उत्तररामचरितं [७-१९
अरुन्धती—इयं ते श्वश्रूर्भगवती वसुन्धरा ।
पुनर्नेपथ्ये । उक्तमासीदायुष्मता वत्सायाः परित्यागे यथा भगवति वसु-
न्धरे श्लाघ्यां दुहितरमवेक्षस्व जानकीमिति । तदधुना कृतवचनासि प्रमो-
दस्वस्वेति ।
रामः—केष कृतमहापराधो भगवतीभ्यामनुकम्पितः । प्रणमामि यः ।
अरुन्धती—भो भो पौरजानपदाः, इयमधुना भगवतीभ्यां वसुन्ध-
राजाह्नवीभ्यामेव प्रशस्यमाना ममारन्धत्याः समर्पिता पूर्वं च भगवता
वैश्वानरेण निर्णीतपुण्यचारित्रा समहाकैश्च देवैः संस्तुता सावित्रकुलवधूद्देव-
यजनसम्भवा सीतादेवी परिगृह्यतामिति कथमिव भवन्तो मन्यन्ते ।
लक्ष्मणः—आर्ये एवमार्ययारन्धत्या निर्भर्त्सिता पौरजानपदाः दृष्ट्वाश्च
भूतग्राम आर्यां नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृष्टिभिरभिन-
न्दन्ते ।
अरुन्धती—जगत्पते रामचन्द्र
नियोजय यथाधर्मं प्रियां त्वं धर्मचारिणीम् ।
हिरण्मय्याः प्रतिकृतेः पुण्यंप्रकृतिमध्वरे ॥ १९ ॥
सीता—( स्वगतम् । ) जानादि भञ्जउत्तो सीदाए दुक्खं पडिमजिदुम्।
जानात्यार्यपुत्रः सीताया दुःखं परिमाष्टुम् ।
रामः—यथा भगवत्यादिशति ।
लक्ष्मणः—कृतार्थोऽस्मि ।
सीता—पच्चुज्जीविदम्हि । प्रत्युज्जीवितास्मि ।
वसुन्धरा प्राह-उक्तमिति वत्सायां सीताया विषये । प्रभोः तव । कृतं
वचनं यया सा ॥ इत्थ रामेण गङ्गावसुन्धरे प्रथमाङ्के सत्रार्थिते । तदेतद्
द्वय तीर्थदर्शिभिरवगन्तव्यम् । अरुन्धत्येने-स्वेन स्वनामग्रहणं माहात्म्यद्यो
तकम् । अत एव-'स्थितमिव नगरे राक्षसानी सहस्त्रम्' इति मुद्राराक्षसीये
'दुर्योधनस्सरान्द्रयहिएँ' इतिवेणीसंहारे च। वैश्वानरेण अग्निना। लोक-
पालाः इन्द्राद्या ॥ नियोजय यथेति ॥ १९॥ धर्ममनतिक्रम्य यथाधर्मम्।
प्रतिकृतेः प्रतिमायाः । पुण्या 'यासां प्रकृतिः तां प्रधानमित्यर्थः ।
'प्रधान प्रकृति स्त्रियाम्' इतरमर । 'प्रकृतिं पुरुषं चैव विद्धयनादी उभां'
इति स्मरणात् ॥ १९॥ जानाति आर्यपुत्र सीतादु खं प्रमाटुंम् । प्रत्युज्जीवि-
१ 'कृतापराधोऽयं भगवति स्वपानुबन्धिभ्यो रामः प्रणमति' न. २ 'पुण्दा-
प्रकृतिम्' क-न.
७-१९] उत्तररामचरितं १५५
लक्ष्मणः—आर्ये एष निर्लज्जो लक्ष्मणः प्रणमति ।
सीता—वच्छेसरीसो तुमं चिरं जीअ । वत्सस्नेनस्वं चिरं जीव ।
अरुन्धती—भगवन्वाल्मीके उपनीयतामिमौ सीतागर्भसम्भवौ राम-
भद्रस्य पुत्रकौ कुशलवौ । ( इति निष्क्रान्ता । )
रामलक्ष्मणौ—दिष्ट्या तथैवैतत् ।
सीता—( सवाष्पाकुला ) कहिं से पुत्तआ मे । कुत्र तौ पुत्रकौ मम ।
( ततः प्रविशति वाल्मीकिः कुशलवौ च । )
वाल्मीकिः—वत्सौ कुशलवौ एष वां रघुपतिः पिता । एष लक्ष्मणः
कनिष्ठतात । एषा सीता जननी । एष राजर्षिर्जनको मातामहः ।
सीता—( सहर्षकरुणाद्भुतं विलोक्य । ) कहं तादो । कथं तातः ।
कुशलवौ—हा तात हा अम्ब हा मातामह ।
रामलक्ष्मणौ—( सहर्षमालिङ्ग्य । ) ननु वत्सौ पुण्यैः प्राप्तौ स्थः ।
सीता—एहि जाइ कुस एहि जाइ लव चिरस्स परिस्सज्ज मं लोअ-
न्तरंगदं जगणिं । एहि जात कुश एहि जात लव चिरस्य परिष्वजेथां मां
लोकान्तरगतां जननीम् ।
कुशलवौ—( तथा कृत्वा ) धन्यौ स्वः ।
सीता—भगवं एसा हं पणमामि । भगवन्, एषाहं प्रणमामि ।
वाल्मीकिः—वत्से ईदृशयेव चिरं भूयाः ।
तान्ति । वत्ससदृशो मे चिरं जीव । वत्सयोः कुशलवयोः सदृशः समानः ।
'ज्येष्ठभ्राता पितृसमः' इति स्मृतेः । सदृशो मे इति ध्वनिः । रामभद्रस्य
सीतागर्भे संभूतौ कुशलवौ उपनय समीपमानय, नीञ् प्रापणे ।
व्यतिष । तथैव तत् उपनयेति.... । पुत्रकौ वत्सौ सनोपनम् । वां
युवयोः । आकृतं चाभिप्रायं । कथं तातः । 'हर्षविषादाद्भुतेषु हा' इति
रुदिरः । एहि जात कुश एहि जात लव चिरस्य परिष्वजस्व मां लोकान्तरगतां
जननीम् । भगवन् । प्रणमामि । इत्थंमति-पतिपुत्रसमेतेति यावत् । रावण-
विनाशहेतुखेत्यर्थं । 'सम्भवामि युगे युगे' इति भगवद्वचनात् ॥ अन्र हे तातः
१ 'वच्छ ईरिसो' ( वत्स ईदृशः ) क-घ-च-न. २ 'लोअदराओ गअदं'
( लोकान्तरराशताम् ) ग.
१५६ उत्तररामचरिते [ ७-२०
सीता-अम्महे तादो कुलगुरु अज्जाअणो सभत्तुआ अत्ता सन्तादेई
मलख्खणा सुप्पसन्ना अज्जउत्तचलणा समं कुसलवा वि दीसन्ति ता
णिब्भरम्हि आणन्देन । अहो तात कुलगुरुरार्याजन सभर्तृकार्या शान्तादेवी
सलक्षणा सुप्रसन्ना आर्यपुत्रचरणा समं कुशलवावपि दृश्यन्ते तन्निर्मरा-
स्म्यानन्देन ।
( नेपथ्ये कलकल )
वाल्मीकिः-(उत्थायावलोक्य च ।) उत्खातलवणो मधुरेश्वरः प्राप्त
लक्ष्मणः-सानुषङ्गाणि कल्याणानि ।
रामः-सर्वमिदमनुभवन्नपि न प्रत्येमि । यद्वा प्रकृतिरियंमभ्यु-
दयानाम् ।
वाल्मीकिः-रामभद्र उच्यतां किं ते भूय प्रियमुपकरोमि ।
रामः-अतः परमपि प्रियमस्ति । किं त्विदं भरतवाक्यमस्तु ।
पापेभ्यश्च पुनाति वर्धयति च श्रेयांसि सेयं कथा
मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च ।
कुलगुरुरार्याजन सभर्तृका भार्या शान्तादेवी मलक्षणा सुप्रसन्ना । सलक्ष
णेति-शान्त्यादिखलक्षणविशिष्टेत्यर्थ । आर्यपुत्रलालनेन रामे कुशलवावपि
दृश्येते । तस्मान्निर्मरास्मि बानन्देन । 'समं सह' इत्यमर । उत्खातः सम्मू
लित लवणः असुरभेद येन । मधुरेश्वरः शत्रुघ्न । माथुरस्य कुम्भीनसी-
पुनरक्षोन्मथनाय शत्रुघ्नं प्रेषयामीति प्रथमाङ्कपूर्ववत्सरे रामेणोक्तं सन्निधानरह-
स्यमत्र दूरदर्शिभिरनुसन्धेयम् । अनुषङ्गः अनुबन्ध । अनुभवन्नपि न
प्रत्येमि न विश्वसिमि । प्रकृति स्वभाव । अभ्युदयाना आरम्भे मति
अभ्युदय पुनरन्तरं नर्तयेति भाव । येन नान्दी कृता तस्य भरतस्य
वाक्यमिति सम्बन्ध ॥ अथ हरि पूर्वाधन रामव्यासन्नाह-पापेभ्यश्चेति
॥ २० ॥ या गङ्गेव पुनाति, जगतो मातेव लक्ष्मीरिव, 'इन्दिरा लोक
माता' इत्यमर । वर्धयति च, इयं कथा रामस्येति शेष । मङ्गले ऐहिक
फलम्पे साधु मङ्गल्या । मनोहरा च आमुष्मिकफलदाननेति भाव ।
'स याति ब्रह्मण स्थानम्' इति स्मरणात् । अत्र चद्वय पादपूरणे ॥ शेष
१ 'त्यादं दमस्तु' क-प-य. २ 'पुनातु वर्धतु' क-प-य.
७-२० ] उत्तररामचरितं १५७
तामेतां परिभावयन्त्यभिनयैर्विन्यस्तरूपां बुधाः
शब्दब्रह्मविदः कवेः परिणतां प्राज्ञस्य वाणीमिमाम् ॥ २० ॥
( इति निष्क्रान्ताः सर्वे । )
इति सम्मेलनं नाम सप्तमोऽङ्कः ।
इति महाकविश्रीभवभूतिविरचितं
उत्तररामचरितं नाम नाटकं समाप्तम् ।
उत्तरार्धेन स्ववाणीप्रयोजनमाह-तामिति । बुधाः ज्ञातारः । 'ज्ञातुर्बुधाः'
इत्यमरः । परिणतां प्रख्यातनां परिनिष्ठिताम् । विन्यस्तरूपां विशेषेण
व्यथेतिलोकेष्वप्रचुरेनेति यावत् । न्यस्तानि...इति वत् ( ? ) वस्तुचमत्का-
रानुगुण्येन निवेशितानिरूपाणि पात्राणि यस्याम् । अत एव एनां 'चित्रस्मिर्तिक-
स्थापकावस्थिताथ' इति 'चित्रितशबला.' इत्यमरद्विकमार्गी । तां रामकथा रूपा-
वाट्ताम्, प्रसिद्धा वा । इमां प्राज्ञस्य पदवाक्यप्रमाणपण्डित्येति । शब्दब्रह्म
वेत्ति विदः । 'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति स्मरणात् ।
कवेः भवभूतिनाम्नो मम । वाणीं नाटकमयीं वाचम् । अभिनयैः देशेन
पटनरटनप्रचारणामिनन्दनादिभिः । 'प्रचारणादौ भावात्दर्शनेऽभिनयो मतः'
इत्यमरः । परि परितः । 'परि साकल्ये दोर्मेऽपि' इति केदारः। भावयन्तु
एलादयन्तु । 'आदरे रटने च स्याद्भावना' इति जयः । अलमतिविस्तरेण ॥
इतिमहाराजपदनर्हणर्तुक्षजिराजगृह्यामात्येन मौनभार्गवकुलाङ्गारचन्द्र-
दीप्तोरोराव्यजीपुत्रेण कौण्डिन्यगोत्रपरावरानिस्टुलवीस्तुभतिम्माम्बिवाळाम्बिके-
हितेन काशीमहादेवतनुजेन शाण्डम्मरिपरमहंसचिदम्बरब्रह्मानुजेन नवरससुधा-
निशासितुरचतुरधिकदशद्विप्रवन्धिपदरामापामन्द्याटतदीपददवर्णलिसमदम्पूना-
सरमाटिकादलितनलकूबनधोरन्ध्रीपारीणेन गोतगायासहस्रचतुष्टयदिब्यदेवीना-
टवृत्तिपिकल्पकेन दुर्जनातिनिन्द्येन सजनाभिनन्द्येन सुन्दरीकनटाजानिना
कवयञ्च.सर्वेश्वरसरस्वतीनामत्रयमण्डितेन श्रीमत्तनयनीनिधीयवावरण एवार्थ-
परिपूरिते उत्तररामचरितसञ्जीवनाट्यटिप्पणौ सप्तमोऽङ्कः सम्पूर्णः ॥
॥ इति घनश्यामपण्डितविरचिते उत्तररामचरितसञ्जीवनख्याटिप्पने सप्तमोऽङ्कः॥
१ 'परिणतप्रज्ञस्य' क-घ-व
१४३०
NOTES.
——————*——————
Act I.
(THE PAGE IN THE NOTES REFER TO THE TEXT )
P 1 All Sanskrit writers generally introduce their works
with a salutation or benediction This (Mangala as it is called)
is supposed to be necessary for the removal of obstacles and the
safe completion of the work undertaken Bhavabhuti follows
this practice. As to the efficacy of Mangala, see Mahabhashya
'माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते मङ्गला-
दीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाकाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च
सिद्धार्था यथा स्युरिति' (Kielhorn, Vol I p 7) Construe—आत्मनः
कलाम् अमृताम् देवतां वाचम् विन्देम (-हि) इदं पूर्वेभ्यः कविभ्यः नमोवाकं प्रशास्महे
इदम् is the object of प्रशास्महे and has 'विन्देम—कलाम्' in apposition
with it कविभ्यः शङ्कन् having made an obeisance to former
poets The poets referred to are such as Valmiki Vyasa and
others Some explain that Valmiki alone is referred to and that
the plural is used only to show the great respect in which the
author holds Valmiki This, however is not a natural way of
explanation V and R read गुरुभ्यः for कविभ्यः, which makes very
little change in the meaning नमोवाकम्—is an adverb to
प्रशास्महे It may be explained in several ways It is a gerund in
अम् (णमुल्) from वच् नम इति वक्त्वा नमोवाकम् The affix णमुल् is
applied to roots, either standing alone or in conjunction with
other words, in various senses such as repetition, entirety &c,
e g स्मारं स्मारं नमति शिवम् (स्मृत्वा-स्मृत्वा), ब्राह्मणवेदं भोजयति (यः यः ब्राह्म-
णानभोजन) 'आभीक्ष्ण्ये णमुल् च' पा० ३ । ४ । २२ and the following
Sutras नमोवाकम् may also be explained as 'नमः (शब्दस्य) वाकः
उच्चारणं यस्मिन्कर्मणि तद्यथा तथा' In this latter case वाक is a noun
formed from वच् with the affix घञ् प्रशास्महे—we wish, we pray
The root शास् (2nd conj ) is परस्मैपदी but when preceded by आ in
the sense of 'wish,' it takes आत्मनेपद 'आङः शासु इच्छायाम्। आशास्ते,
आशासाते। मातृपूर्वकं प्रादिकम्। तेन 'नमोवाकं प्रशास्महे' इति सिद्धम्।' सि कौ
Here though प्र is the उपसर्ग used instead of आ, the sense being
the same, the root takes आत्मनेपद विन्देम (Pot. 1st person pl
of विद् 6th conj ) may we obtain. अमृताम्—immortal. Speech
being called देवता must be said to be immortal. Or we may ex-
plain that, as, according to the Purvamimansa, the relation of
2 NOTES ON [ I. 1-
word and meaning is eternal, the goddess of speech which is the
अधिष्ठात्री of words must be eternal also. आत्मनः कलाम् which is
an aspect (or phase or part) of the Supreme Soul. The Vishnu
purana says that poetical utterances, songs &c. are the body of
the Lord Vishnu 'काव्यालापाश्च ये केचिद्गीतकान्यखिलानि च । शब्दमूर्तिधरस्यै
तद्वपुर्विष्णोर्महात्मनः ॥' विष्णु० I. 22. 84. N and G read वन्देमहि च तां
वागीम्. This reading is not bad. With this reading however,
the first half of the verse would cause some difficulty, since we
shall have to construe as पूर्वेभ्यः कविभ्यः इदं नमोवाकं प्रशास्महे. प्रशास्महे
would simply mean ब्रूमहे. We shall have further to take इदं
(which is neuter) with नमोवाक (either an adverb or a masculine
noun in the accusative).
It will be noticed that G explains the first half as contain-
ing a salutation to Ganapati. ब्रह्मणस्पति is addressed in the ऋग्वेद as
'कवीनां कविः' and is identified by G (as many other orthodox wri-
ters do) with गणपति. G further says that the plural कविभ्यः is
used to show respect. This is not a natural explanation. There
is no reason why the plural should not be used with respect to
वागी also. वीरे० gives various far-fetched explanations of this
verse, for which see pp. 7-8 of N. The words आत्मनः कलाम् may
be taken as suggesting the principal characters of the drama,
राम and सीता.
P. 4. नान्द्यन्ते at the end of the नान्दी. नान्दी means a benediction,
consisting of one or more verses which constitutes a sort of pro-
logue to a drama. नन्दन्ति देवाः सत्यामिति नान्दी. It is defined by भरत
as 'आशीर्वचनसंयुक्ता नित्यं यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता'
(नाट्यशास्त्र ५. २४) or 'आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां
तस्मान्नान्दीति संज्ञिता ॥' साहित्यदर्पण (6th परिच्छेद, 24th verse). From
the stage-direction (नान्द्यन्ते), it is clear that the verse 'इदं कविभ्यः'
&c., is the नान्दी here. As the words नान्द्यन्ते सूत्रधारः occur after the
introductory verse a question arises as to who recited that verse
and why the words follow the verse and do not precede it. It
seems to us that the verse was recited by the सूत्रधार himself, but
as that verse was really no part of the drama itself being intend-
ed as a benediction the word सूत्रधार does not precede the first
verse. The real business of the drama commences after the intro-
ductory benediction. These words (नान्द्यन्ते सूत्रधारः) have puzzled
many writers and various explanations have been offered. The
साहित्यदर्पण says 'अत एव प्राक्तनपुस्तकेषु 'नान्द्यन्ते सूत्रधारः' इत्यनन्तरमेव
'वेदान्तेषु' इत्यादिश्लोकप्रदर्शनेन दृश्यते । यच्च पश्चात् 'नान्द्यन्ते सूत्रधारः' इति लिख्य-
— 1 1 ] UTTARARĀMACHARITA. 3
{ इत्ययमभिप्रायः - नान्द्यन्ते सूत्रधार इदं प्रयुक्तितवान्, इतःप्रभृति मया नाटकमु-
पादीयते इति कवेरभिप्रायं सूचित इति " Similarly वीरराघव says 'नान्द्या पूर्वो-
क्ताया समाप्तौ सूत्रधारः प्रविष्टाहेति शेषः' जगद्धर, in his comment on
मालतीमाधव, gives a long note on the words नान्द्यन्ते सूत्रधारः भरत
distinctly says that the नान्दी is to be recited by the सूत्रधार and
that it is to consist of eight or twelve पदs 'सूत्रधारः पठेत्तत्र मध्यमं
स्वरमाश्रितः । नान्दीं पदैर्द्वादशभिरष्टाभिर्वाप्यलंकृताम् ।' ( नाट्य० 5 98 )
What पद means here is a disputed question The ordinary
meaning is 'a word' ( सुप्तिङन्तं पदम् । पा० 1 4 14 ) This would
mean that नान्दी is not to exceed 8 or 12 words. But in many
dramas there are नान्दीs containing two or three verses Hence
some interpret पद to mean a quarter of a verse There are
dramas, however, where none of these meanings will do, e. g. the
first verse of the विक्रमोर्वशीय, of the शाकुन्तल &c. It seems probable
that N and G read 'वन्देमहि च तां वाणीं' to satisfy the definition of
नान्दी. The verse in the text contains only eleven words, while
as read by N and G it contains twelve. अल- रेण enough of
prolixity अलम् in the sense of 'enough of' 'away with,' governs
the instrumental. शार- यात्रायाम् in the fair held in honour of
Śiva. Most editions read कालप्रियानाथस्य काल means शिव and कालप्रिया
would mean पार्वती कालप्रियानाथ would thus be शिव वीर० com-
menting on महावीर० says "कालप्रियानाथस्य कालप्रियानाम्निकाम्बिकापतेः ।
कालप्रियनाथस्येति स्थानविशेषानुवृत्त पाठः प्रचुरो दृश्यते । तत्राप्ययं पूर्ववद्-
'उमापतेः सङ्कन्दमोर्मोदकम्' इति नेष्टा रहस्यम्वदवृत्ते " राजशेखर in his काव्य-
मीमांसा (p. 94) says that कालप्रिय is a city to the north of which
is गाधिपुर (i. e. Kanoj). So कालप्रिय is probably उज्जयिनी, where
there is a famous shrine of Śiva. In ancient India it was
usual to exhibit dramatic performances at the time of fairs
and other festival The मालतीमाधव also was introduced to the
audience for the first time at the fair of Śiva. R comments
'कालप्रियनाथो नाम दिग्वेशु पद्मन्गरे प्रतिष्ठितो दस्यमूर्तिविशेषः । तस्य यात्रायामुत्सवे
नाटकभिःभगवतः कालप्रियनाथस्य पुरतः प्रथममभिनीतमासीद्' आर्यमिश्रान्—vide
note, जगद्धर quotes from भरत 'कुलं शीलं दया दानं धर्मः सत्यं कृतज्ञता। अद्रोद्द
इति चैतेनज्ञानायांसू समुच्यते ।' मिश्र is an honorific title affixed to the
names of famous scholars e. g. मण्डनमिश्र, वाचस्पतिमिश्र, पार्थसारथिमिश्र
अत्रभवन्त—The words अत्रभवन् and तत्रभवन् are epithets of honour,
the former applied to a person who is present, the latter to one
who is not present. 'पूज्ये तत्रभवानत्रभवांश्च भगवन्मदिः' G seems to
have separated अत्रभवन्त into अत्र भवन्त. वीर० also says 'अत्रभवन्तः
पूज्या इत्यर्थः । देवा अत्र अन्तिकारे भवन्त पूज्यनित्यर्थे ' ऽदेवत्वादस्यान्दन्त-
4 NOTES ON [I 1-
who had the title श्रीकण्ठ by way of distinction. श्रीकण्ठ इति पदं
लाञ्छनं यस्य. G explains in another way 'who was devoted to
the feet of Siva. It seems that the poet's original name was
भवभूति and that later on he was given the title of श्रीकण्ठ. वीर०
reverses this order and says that श्रीकण्ठ was his real name and
that he was called भवभूति by a king who was pleased with a
verse of the poet. Vide com. R. says 'शेषाशिफणिफणाकिरीटनाङ्गारेवी
निलशालस्य कण्ठे भवतीति मत्वा तदानीन्तनेन भवभूतेः श्रीकण्ठ इति विशेषणं
परिकल्पितम्.' पद ज्ञः who knows the sciences of Grammar,
Logic and Mīmānsā. पद means 'an inflected word' and stands
for Grammar which deals with words. वाक्य a sentence. Logic
deals with sentences and the fallacies that lurk in them.
प्रमाण means 'authoritative means of knowledge.' The मीमांसा
(both पूर्व and उत्तर) deals with शब्द and other प्रमाणs. वीर०
on महावीरचरित says 'पदवाक्यप्रमाणज्ञो व्याकरणतर्कमीमांसावित्.' Accord-
ing to others वाक्य stands for मीमांसा (because मीमांसा helps
one to understand Vedic passages which often appear con-
tradictory) and प्रमाण for तर्क (logic). Compare 'पदावगतिहेतु-
त्वात्पदं व्याकरणम्। वाक्यसमन्वयावभावहेतु वाक्यस्य मीमांसा। प्रमाणप्रवृत्तिविकारि-
त्वात्प्रमाणं तर्कः।' मुकुल in अभिधावृत्तिमातृका (verse 13). जातूकर्णीपुत्र son
of a woman who was sprung from जातूकर्ण्यगोत्र.
भरत says that the poet's name should be mentioned 'प्रख्यातं
रङ्ग विनिविष्टदेनांम च कीर्तयेत्। प्रस्तावनां ततः कुर्यात्काव्यप्रख्यापनाह्वयाम्॥'
(नाट्य० 5. 151). Similarly the साहित्यदर्पण says 'रङ्गे प्रसाद्य मधुरैः
श्लोकैः काव्यार्थसूचकैः। कृतस्य कवेराख्या गोत्राद्यपि स कीर्तयेत्॥'
Verse 2-ब्रह्मणे=ब्राह्मणम्. 'वेदस्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः'
इत्यमरः. The propriety of the word is twofold. भवभूति wants to
place emphasis on the fact that he scrupulously performed the
six duties of a ब्राह्मण viz. यजन, याजन, अध्ययन, अध्यापन, दान and प्रति-
ग्रह. The word ब्रह्मन् also suggests प्रजापति, whose wife सरस्वती is
represented to be. इयम्-This may mean 'well known to all'
वश्ये वशंवदे follows like an obedient wife or like a woman enamour-
ed. N reads मा व्यवर्तत (Imperfect of वृत् with अनु) which is bad, as
the word अस्ति has been already used. N reads वशंवदः. We may
then construe इव with यम्, यमेव (नान्यं कमपि कविं) इव देवी वाक् वेश्या
(मती) अनुवर्त्तते. But this is not quite happy and there is दुरात्वय.
उत्तर चरित्र-The latter part of the life or history of Rāma.
This drama is a complement of the महावीरचरित which deals with
the events of Rāma's life up to his installation on the throne
of Ayodhyā. प्रणीतं-तेन ब्रह्मणा प्रणीतं-composed by that (ब्राह्मण
—I 2] UTTARARAMACHARITA 5
( भवभूतिः) Full comment of G which disapproves of the reading
in the text and prefers यद्गताम्. The idea of G is that भवभूति,
the antecedent, being mentioned in the words 'अस्ति &c the
verse should contain only relative clauses. The reading in the
text may be defended as follows :—भवभूति is no doubt already
mentioned. But there is no harm if we take the first half of
the verse by itself and understand तत्प्रणीतं &c as a separate co-
ordinate sentence to अस्ति खलु &c. प्रयोक्ष्यते Will be represented
(by us). The reading प्रयुज्यते is not bad. The present is also
used when an act which is to happen immediately in the future
is intended to be expressed. With the words वाग्वश्यैवानुवर्त्तते,
compare महावीरचरित I. 4 'वश्यवाक् कश्चिदन्यः सा च रामाश्रया कथा।'
P. 5 कार्यवशात् ... सङ्गतः here have I become a sojourner in
Ayodhya for some purpose as well as one living at the time
(when Rama was crowned). The Sutradhara throws off his
real character as a person belonging to the place where the
drama was acted and says that he is now an inhabitant of
Ayodhya, where he has accidentally come for some business.
This would explain his words on p. 6 'वैदेशिकोऽस्मीति' &c. T
explains 'कार्यवशाद् नाट्यप्रयोगानुरोधात्'. This would not properly
account for the words 'वैदेशिकोऽस्मीति' on p. 6 below. N
reads कविवशाद् (at the poet's bidding) which would come to
the same thing as the explanation of T. There are various ways
in which the business of the drama can be introduced on the
stage. Here the dialogue between the Sutradhara and Nata
refers to Rama and Sita in the 7th verse and paves the way
for their appearance. आयोधकः—from अयोध्या by the sūtra वुञ्
according to 'द्व्यचः कोपधाद्बुञ्' पा० ४ । २ । २१ (धन्यविशेषवाचिनो वृद्धाद्बुञ्
स्यात्। सि. कौ.) and 'शृङ्गारिभि बहुवचनविषयात्' पा० ४ । २ । २७ आयोधिका
(अयोध्यासम्वन्धी) may be explained on the analogy of माध्यामिक.
तदानीन्तन =रामपट्टाभिषेककालीन. भगवन् goes with रामस्य. पौलस्त्य-
केतोः (रामस्य) who is the fire (destroyer) of the family of रावण.
रावण was the son of विश्रवस्, who was the son of पुलस्त्य, one of
the प्रजापतिs. 'प्रजापतेः सुता ह्यासन् षट् तु चक्षुषोऽन्तरेऽभवन्। मानसो ब्रह्मणः पुत्रः
पुलस्त्य इति विश्रुतः ॥ पुलस्त्यस्य तु तेजस्त्री महर्षिर्मानसः सुतः। नाम्ना स विश्रवा
नाम प्रजापतिसमप्रभः ॥ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः।' रामायण सुन्दर०
23. 6-8. धूमकेतुः fire (धूमो हेतुश्चिह्नं यस्य वा सः) 'आशुपाती धूमकेतुः'
इत्यमरः. धूमकेतु means also 'comet', the appearance of which was
supposed to be a precursor of calamities. Rama may be also
called a comet to the family of पौलस्त्य (indicating the destruc-
tion of that family) रात्रिंदिवम् (रात्रौ च दिवा च रात्रिंदिवम् irregu-
lar द्वन्द्व according to the Sutra 'अचतुर' &c पा० ५ । ४ । ७७, which
is a very long one) by day and night, constantly अस नांदीक*
(an adj of समय) in which the joyful music was not to be dis-
continued अमृष्टा आनन्दनांदी (आनन्दसूचिका नांदी मङ्गल) यस्मिन् (बहु-
व्रीहि) The affix क is added to बहुव्रीहि compounds when the last
member is a feminine noun ending in ई or ऊ or a noun ending
in ऋ 'नद्यृतश्च' पा० ५ । ४ । १५३ रुद्रराम cited by Gh explains नांदी as
the 'symphony of 12 drums beaten at the same time' (एकदा द्वाद-
शमृदङ्गघोषो नान्दी) तत् therefore किमिति स्थानानि why is it that the
squares (public streets) are now without the singing of bards ?
विश्रान्ता चारणा येषु चारण a wandering singer, actor (चारयन्ति
कीर्त्तिम्) 'भरता इत्यपि नटाश्चारणास्तु कुशीलवाः' इत्यमर चत्वर (मराठी
च व्हाटा) a place where four roads meet, also royal court yard
'अङ्गनं चत्वराजिरे' अमर 'चत्वरं स्वास्थ्यां क्षेत्रे अङ्घ्रीङ्गाङ्गनयोरपि' हैम G
seems to have read ०चरणानि, the meaning, then, would be 'in
which there are no people moving about भाव-is a term of
address used in dramas showing respect 'भावो विद्वान्' इत्यमर
मान्यो भावेति वक्तव्य विविध्यूनस्तु मारिष ' quoted by जगद्धर प्रेषिता
were sent (this goes with ०शाखामृगा, ब्रह्मर्षय, राजर्षय) Separate हि इत
(from this place i e from अयोध्या) ०स्वगृहान् (accu plu mas of
स्वगृह) is the object of प्रेषिता गृह is ordinarily neuter, but may
be masculine when the plural is used महाराजेन - रामेण सह।
सुहृद friends in the war in Lanka (against रावण) सुग्रीव &c
monkey सभाजनाय or सभाजने उपतिष्ठन्ति ते सभा भाविन who wait-
ed upon him for greeting or congratulating him (राम) This
qualifies ब्रह्मर्षय and राजर्षय The reading समानोपभादिन would
mean who waited upon him in groups or 'who waited upon
him in the assembly This is not a happy reading सभाजनम् is
derived from the root सभाज् 10th conj 'अथ दे आनन्दनसभाजने ।
आपृच्छनम्' अमर नाना गता that had come from various quarters
(नानादिग् भेभ्य आगता) The reading नाना पावना (purifiers of
various quarters) is not appropriate here महर्षय वसिष्ठगौतमादय,
राजर्षय जनकादय There were various grades of sages कवि, महर्षि,
देवर्षि (like नारद) &c य समारोधनाय for pleasing whom (येषां समा-
राधनाय) इयतो दिवसान् (accusative of time) for so many days
P 6 आ is an interjection implying 'recollection' here
'आ स्मरणेऽनुकम्पाया मोरसन्तापयोरपि' मेदिनी निमित्तम् reason (why
there was no music in the squares) As all the guests had
gone away the festivities came to an end न खलु and there is
—I 3] UTTARARÂMACHARITA 7
another (reason). Verse 3 वसिष्ठेन अधिष्ठिता headed by वसिष्ठ.
He was the family priest of the solar race. G takes वसिष्ठाधि-
ष्ठिता as बहुव्रीहि, but we expect in that case अधिष्ठितवसिष्ठा. देव्यः
queens. The word देवी is applied to a crowned queen. राघव-
मातरः mothers of Râma e. i. कौसल्या, सुमित्रा and कैकेयी. राघवः रैवः,
a descendant of रघु here राम. अरुन्धतीं पुरस्कृत्य having placed in
their front अरुन्धती (the wife of वसिष्ठ). The word जामातुः may
be connected both with यज्ञ and आश्रमम्. Or we may supply सति
after यज्ञे, the meaning being there being a sacrifice. आश्रम is
to be connected with गता.
वैदेशिको ऽस्म्यतः I am a foreigner therefore I a. L.
Some Mss. change the order of speakers here. After the
third verse the सूत्रधार is made to say एवमेतत् and the words
वैदेशिकोऽस्मि &c are put in the mouth of the नट and the passage
from कन्यां दशरथो राजा to उत्स्रिष्टवान् is assigned to the सूत्रधार.
This does not seem to us to be proper. The नट does not
appear to be वैदेशिक. When the सूत्रधार inquires why the
squares are silent it is the नट that gives him the information
that राम's mothers are gone to the आश्रम of the son-in-law.
Having given that information himself it does not seem
proper that he should himself ask who the जामाता was.
Verse 4 न्यवीविशत्—Aorist of the causal of विश् with नि. अपत्य-
कृतिकाम्—who was treated as a child. अपत्यस्य कृतिकार्या यस्याः
or अपत्याव कृतं प्रज्ञा दत्त्वा. The affix क is optionally added to all
बहुव्रीहि compounds. रोमपाद was king of अङ्गदेश. The रामायण seems
to say that शान्ता was the daughter of रोमपाद himself and not
of दशरथ. 'वयस्यस्ताविहागत्य गणिकाभिर्ऋष्य शृङ्गं । आनीतोऽश्वसदन् शान्ता
चास्मै प्रदायते ॥ ऋष्यशृङ्गस्तु जामाता पुत्रांस्त्व विधास्यति ।' बालकाण्ड 9. 18-19.
See also बालकाण्ड 11. 2-3. It is the विष्णुपुराण that distinctly
says that दशरथ gave his daughter to रोमपाद 'अम्पादात्पुत्रो दशरथः
शान्ता नाम कन्यामनपत्याय दुहितृत्वे सुप्रीतः।' विष्णु० IV. 1-. ऋष्यशृङ्गः—
According to रामायण बालकाण्ड (chapter 9 ff.) he was brought
up by his father in the forest and he saw no other human-being
till he reached manhood. When a great drought devastated the
country of अङ्ग the king रोमपाद caused ऋष्यशृङ्ग to be brought to
him through the seductive charms of damsels and gave शान्ता to
him in marriage. ऋष्यशृङ्ग being pleased caused copious rain in
अङ्ग. It was this sage who performed the sacrifice for दशरथ
which caused the birth of राम and his three brothers. उपयेमे
married. यम् is Parasmaipadi, but when preceded by उप in the
tive base however, is चित्तविकार 'मान्-वध्-दान्-शान् भ्यो दीर्घश्चाभ्यासस्य'
पा० 3 1 6, a वार्तिक on which says 'वधेर्चित्तविकारे' The ablative
येभ्य is used in connection with बीभत्समाना according to the वार्त्तिक
'जुगुप्सा विराम प्रमादार्थानामुपसंख्यानम्' (on पा० II 3 25.) (verbs having
the sense of disgust, 'cessation, 'error govern the ablative)
विश्राम्यन्ति take rest repose मनीषिण wise men. 'धीरो मनीषी ज्ञ प्राज्ञ '
इत्यमर मनीषिन्-मनीषा अस्य अस्ति इनि (मनीषा + affix इन्) In the
जाबालोपनिषद् we read 'अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको वा
उत्सन्नाग्निरो वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्' रामभद्र-The word भद्र is
used by elderly persons when addressing young persons It in-
dicates some superiority in the persons using it When दशरथ
ruled the कञ्चुकिन् was in the habit of addressing prince राम in
this way The same familiar mode of address occurs to him now
but he recollects that राम is no longer a mere prince but king
कञ्चुकिन् is generally an old and trusted ब्राह्मण attendant on the
womens apartments. भरत uses the form कञ्चुकीय 'ये विप्रा सत्य-
सम्पन्ना कामदोषविवर्जिताः । ज्ञानविज्ञानकुशलाः कञ्चुकीयास्तु ते स्मृताः ॥'
नाट्यशास्त्र 24 59 उपचार mode of address मां प्रति towards me
तत्-therefore यथाभ्यस्तम् (अभ्यासमतिऋम्य-अव्ययीभाव )-as you are
accustomed to do अभिधीयताम् Imperative third per sing pass of
धा with अभि ( to speak or address ) This sentence shows the
kindness and courtesy of राम to his servants अष्टावक name of a
sage (अष्टौ वक्राणि यस्य) We have अष्टावक in accordance with 'अष्टन
मज्ञायाम्' पा० 6 3 125 (उत्तरपदे दीर्घ । अष्टापद ) आर्य गम्यते--This
is addressed to कञ्चुकी-Sir, why then do you delay ? सन्ति
governs the dative 'नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्च' पा 2 3 16
इत आस्ताम्-This is a polite way of saying sit here सजामातुकस्य-
The son in law referred to is ऋष्यशृङ्ग अपि कुशल-Is it all right ?
अपि Introduces a question निर्विघ्न गृह Is it all right with
revered ऋष्यशृङ्ग, my brother in law and habitual drinker of
सोम ? निर्विघ्न निर्गान्ता विज्ञा यस्मात् सोमपीथी-सोमस्य पीथः पानं अस्य अस्ति
इनि सोमपीथिन् Some editions read सोमपीति (सोमस्य पीतं पानं अस्य अस्ति
इनि सोमपीतिन् ) which means the same thing क्षीरस्वामी comment-
ing upon अमरसिंह reads सोमपीथी and n t ०पीती and remarks
'सोमपीथी तु प्राच्या पाठः । सर्वदायम्, दीक्षितस्तु तच्छीलम्' It explains
'कृतसोमलता रसपान यथाऽनुष्ठितसोमयाग' इत्यर्थ ' आवुत्त-sisters hus-
band. N reads भावुक , which means 'auspicious' 'भावुकं भवितृ
कुशलं क्षेममस्त्रियाम्' इत्यमर अप्यानू स्मरति Or does she remember
us ? G, N and Ch read अस्मानपि स्मरति (does she remember
us also) अथ किम् (हन्त what else ) yes just so कुलगुरु precep-
tor of the race (of solar kings)
Page 9 Verse 9 विश्वम्भरा—विश्वं बिभर्ति इति—the earth
(which supports all) The word is formed according to the
Sûtra 'संज्ञायां भृ-वृ-जि-धारि-सहितपिदम' पा० 3. 2 46 (विश्वम्भर । विश्वं
म्भरा । रदन्तर साम । पतिंवरा कन्या । सि को ) असूस्त—Imperfect 3rd
per sing of सू 2nd con A. This line alludes to the story of
the birth of सीता from the furrowed earth, for which see p
10 above प्रजापतिना ब्रह्मणा समं तुल्यं or प्रजापतिभिः सम प्रजापति
may mean either Brahma' or one of the ten (or nine) मानस
पुत्रs of the creator 'अथान्यान्मानसान्पुत्रान् सदृशानात्मनोऽसृजत् ॥ 4
भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसं तथा । मरीचिं दक्षमत्रिं च वसिष्ठं चैव तान्दशान् ॥ 5
नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । विष्णुपुराण 1 7 and मार्कण्डेयपुरा०
50 4-6 जनक is spoken of in the उपनिषदs as a ब्रह्मविद् and as
one who had attained मोक्ष 'अभयं वै जनक प्राप्तोऽसि' Construe
(हे) नन्दिनि, तथा पार्थिवानां त्वं वधूः असि येषां कुलेषु सविता गुरुः वयं च
(गुरवः) नन्दिनी making happy daughter वसिष्ठ may, of course,
address सीता as नन्दिनी वधू daughter in law गुरु—one
deserving to be honoured, a preceptor The kings referred to
are those like दशरथ who were scions of the solar race The
plural वय is used by वसिष्ठ either because he is a great sage or
because he includes विश्वामित्र, वामदेव along with himself among the
preceptors of the solar race तत्-- श्यामहै therefore, what else
shall we wish for you? As सीता was born of such a noble mother
as the earth and such a magnanimous and wise king like जनक,
and as she was a daughter in law of the high born and prosperous
solar kings, she was wanting in no good quality, and therefore it
would have been superfluous to desire that she should be good or
wise or prosperous. So वसिष्ठ says केवलं भूया (I only wish that
you may give birth to a hero) आशास्महे—for the आत्मनेपद, see
notes on प्रशासाहे above. वीर प्रसवः यस्याः भूया benedictive of
भू अनु स we are favoured or obliged The plural is
used because राम is a king Verse 10 लौकिकानां धावति for, the
speech of ordinary righteous men follows (is in keeping with)
the facts, but the facts follow (arrange or accommodate them
selves to) the words of the primeval sages. Here the words
लौकिकानां साधूनाम् are put in contrast with आद्यानामृषीणाम् The
word लौकिक is usually opposed to वैदिक Ordinary righteous
men have to ponder over what they have to say and after
settling what to express, they adjust their speech to what is to
be said, if they do not follow this procedure, their words would
be like the ravings of mad men and will not come to be true.
2