सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

४० श्रीतन्त्रालोकः ।
'नास्त्यस्ति नास्ति नास्तीति कोटयो न स्पृशन्ति हि ।
वाचामगोचरं यस्मात्तत्तत्त्वमिह कथ्यते ॥
यद्भावि न तद्भावि यद्भावि न तदन्यथा ।
एवं विचिन्त्य मतिमान्विकल्पं न समाश्रयेत् ॥
तच्च सर्वगतं सूक्ष्ममुपाधिपरिवर्जितम् ।'
इत्यादिपर्यन्तं बहूक्तवान् । श्रीमत्सोमानन्दादिदैशि-
कैः उक्तमिति - श्रीशिवदृष्ट्यादौ, यदुक्तं तत्र
'भावनाकरणाभ्यां किं शिवस्य सततोदितेः ।
इति ।
'सकृज्ज्ञाते सुवर्णे किं भावना करणं व्रजेत् ।
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ॥
ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्या दृढात्मना ।
करणेन नास्ति कृत्यं क्वापि भावनयापि वा ॥'
इति च ॥४८॥
तदेव सर्वत्रावधातव्यमित्याह
गुरोर्वाक्याद्युक्तिप्रचयरचनोन्मार्जनवशात्
समाश्वासाच्छास्त्रं प्रति समुदिताद्वापि कथितात् ।
विलीने शंकाभ्रे हृदयगगनोल्लासिमहसः
प्रभोः सूर्यस्येव स्पृशत चरणान्ध्वान्तजयिनः ॥४६॥
पं० १० क० पु० कारणमिति पाठः ।
पं० १३ क० पु० करणे नास्ति कृत्यं चेति पाठः ।
पं० १५ क० पु० तदेवमत्रापीति पाठः ।

श्लोक ४६] द्वितीयमाह्निकम्। ४१
गुरोरित्यादिवाक्यात्सकृदुपदेशाद्यात्मनः 'आत्मै-
वेश्वरः सर्वज्ञः सर्वकर्ता च' इत्यादिकानां युक्तीनां
प्रचयस्य या रचना-परपक्षबाधनस्वपक्षसाधनाधा-
यिका शास्त्रपरिपाटी, तया उन्मार्जनं - बौद्धाज्ञानोत्पुं-
सनं, तद्वशात् - बौद्धज्ञानोदयेन स्वपरामर्शदार्ढ्या-
दित्यर्थः । शास्त्रं - प्रभुसंमितमद्वैतागमं प्रति समा-
श्वासात्प्रत्ययादिति, व्यस्तात् - गुरुतः शास्त्रतः स्वतः
तीव्रतीव्रशक्तिभाजां, यद्वा समुदितात्-समस्तात्कथि-
तात् एतस्मात्त्रयादपि तीव्रमध्यादिशक्तिपातभाजां,
शंकाविकल्प एवावारकत्वादभ्रं, तस्मिन्विलीने सति,
हृदयं-विमर्श एव अनवच्छिन्नत्वाद्वगनं तत्रोच्चैर्भास-
नशीलं-ज्ञत्वकर्तृत्वलक्षणं महः तेजो यस्य, अत एव
ध्वान्तस्य स्वात्मप्रच्छादनेनोपाश्रितस्य द्वैतप्रथात्म-
कस्य अज्ञानस्य, जयिनः प्रभोः-विश्वात्मकत्वेन प्रभव-
नशीलस्य परमात्मनः, चरणान् - चरेर्गत्यर्थत्वाद आण-
वादीनि ज्ञानानि, यूयं-समनन्तरोद्दिष्टाः तीव्रतीव्रा-
दिशक्तिपातभाजः, स्पृशत - यथोत्तरं स्वात्ममयतयैव
पं० ७ ख० पु० शास्त्रात् स्वस्माद्यद्वा तीव्र इति पाठः।
६

४२ श्रीतन्त्रालोकः ।
भावयध्वमित्यर्थः, अत एव चास्य सूर्येणौपम्य-
मुक्तं, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन
अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥४६॥
इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति
इदमनुत्तरधामविवेचकं
विगलितौपयिकं कृतमाह्निकम् ॥५०॥
उपाय एवौपयिकमिति शिवम् ॥
तत्तद्ग्रन्थाधिगमो-
पायशतान्वेषणप्रसक्तेन ।
अनुपायाह्निकमेतद्-
व्याख्यातं जयरथेनाशु ॥
इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रका-
शाख्यव्याख्योपेते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्नि-
कम् ॥२॥
एतत्काश्मीरभूपालसंश्रितेन प्रकाशितम् ।
सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पितम् ॥
पं० ६ क० पु० स्वात्मतयेति पाठः ।
पं० ७ क० पु० जयरथेन चित्रम् इति, ग० पु० जयद्रथेन रचितमिदमिति
पाठः ।

(इस पृष्ठ पर कोई पाठ्य सामग्री नहीं है / This is a blank page)

(रिक्त पृष्ठ)

PLEASE DO NOT REMOVE
CARDS OR SLIPS FROM THIS POCKET
UNIVERSITY OF TORONTO LIBRARY
PK Abhinavagupta, Rājanaka
3931 The Tantraloka of
A52T3 Abhinava Gupta
v.1

This image is a blank book cover / endpaper and does not contain any text to transcribe.