तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
पृष्ठ 364, कुल 368 में से
संदर्भ में पढ़ें४२ श्रीतन्त्रालोकः ।
भावयध्वमित्यर्थः, अत एव चास्य सूर्येणौपम्य-
मुक्तं, तस्यापि हि अभ्रे गलिते गगनोद्भासित्वेन
अन्धकारं निराकुर्वतः पादस्पर्शः उचितः ॥४६॥
इदानीमाह्निकार्थं श्लोकस्य प्रथमार्धेनोपसंहरति
इदमनुत्तरधामविवेचकं
विगलितौपयिकं कृतमाह्निकम् ॥५०॥
उपाय एवौपयिकमिति शिवम् ॥
तत्तद्ग्रन्थाधिगमो-
पायशतान्वेषणप्रसक्तेन ।
अनुपायाह्निकमेतद्-
व्याख्यातं जयरथेनाशु ॥
इति श्रीमदाचार्याभिनवगुप्तपादविरचिते, श्रीजयरथाचार्यकृतप्रका-
शाख्यव्याख्योपेते श्रीतन्त्रालोके अनुपायप्रकाशनं नाम द्वितीयमाह्नि-
कम् ॥२॥
एतत्काश्मीरभूपालसंश्रितेन प्रकाशितम् ।
सता मुकुन्दरामेण सन्मुदेऽस्तु शिवेऽर्पितम् ॥
पं० ६ क० पु० स्वात्मतयेति पाठः ।
पं० ७ क० पु० जयरथेन चित्रम् इति, ग० पु० जयद्रथेन रचितमिदमिति
पाठः ।