सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

२८२ श्रीतन्त्रालोकः ।
'अदृष्टं निर्गुणं यच्च हेयोपादेयवर्जितम् ।
तत्तत्त्वं सर्वतत्त्वानां प्रधानं परिपठ्यते ॥
अदृष्टविग्रहश्चैव स शान्त इति गीयते ।
तस्येच्छा निर्गता शक्तिस्तद्धर्मगुणसंयुता ॥'
इत्यादिना पारमेश्वरी परा शक्तिरेव तत्तत्संबन्धात्मना
प्रसृता इति सर्वस्यैव महदादेः संबन्धस्य परकला-
त्मकत्वमुक्तम् । अत एव च एतदेव
'सृष्टिमार्गानुसारेण आयातश्चावनीतले ।
कथितो देवि षष्ठस्तु यथावेशस्वरूपतः ॥'
इत्यनेन उपसंहृतम् । मिश्रॊ - दिव्यादिव्यः । अन्यो-
ऽन्यः इति - दिव्यापेक्षया अन्यो मिश्रः, तस्मादन्यो-
ऽपि अदिव्यः इति । दिव्य-दिव्यादिव्य-अदिव्यात्मना
त्रिधैव हि संभवति विकल्पः । अत एवायमत्र इतरे-
तरशब्देन उक्तः । तदुक्तं
'महानवान्तरो दिव्यो दिव्यादिव्यश्चतुर्थकः ।
इतरेतरमार्गेण पञ्चधा भिन्नलक्षणः ॥'
इति । एतच्च संबन्धपञ्चकं शिवात् सदाशिवस्य,
पं० १ क० पु० आमृष्टमिति पाठः ।
पं० ६ क० पु० महदाद्यैः संबन्धस्य इति, पराकलात्मकत्वमिति च पाठः ।
पं० १० क० पु० इत्यत्रोपसंहतमिति पाठः ।

श्लोक २७४ ] प्रथमाह्निकम् । २८३
तस्मात् अनन्तनाथस्य, तस्मात् श्रीकण्ठनन्दिकुमा-
रादीनां, तेभ्योऽपि सनत्कुमारादीनामृषीणां, तेभ्यो-
ऽपि मनुष्यादीनां क्रमेण अवगन्तव्यम् । यदुक्तं तत्रैव
'शिवस्य परिपूर्णस्य परस्यामिततेजसः ।
तच्छक्तिश्चैव सादाख्या स्वेच्छाकर्तृत्वगोचरा ॥
सत्त्वं तेन च संप्राप्तं संबन्धं प्रथमं विदुः ।
अवान्तरश्च योगेन सादाख्यात्क्रमशः पुनः ॥
प्राप्तोऽनन्तेशदेवेन द्वितीयस्तेन कीर्तितः ।
तृतीयस्तु पुनर्देवि श्रीकण्ठो नन्दिना सह ॥
द्वाभ्यां देवात्तु मत्वैवं तेन दिव्यः प्रकीर्तितः ।
ऋषीणां च समासेन नन्दिना प्रतिपादितम् ॥
चतुर्थस्तु भगवता दिव्यादिव्यः प्रकीर्तितः ।
व्याख्यानक्रमयोगेन विद्यापीठप्रपूजने ॥
शिष्याचार्यस्वरूपेण पञ्चमस्त्वितरेतरः ।
इति पञ्चप्रकारोऽयं संबन्धः परिकीर्तितः ॥'
इति ॥२७४॥
परकलात्मत्वमेव व्याचष्टे
भिन्नयोः प्रष्टृतद्वक्त्रो-
श्चैकात्म्यं यत्स उच्यते ।
पं० ६ क० पु० सतत्त्वं तेनेति पाठः ।
पं० १० क० पु० देवात्तमप्येवमिति पाठः ।
पं० १२ क० पु० चतुर्थस्तद्भगवतेति पाठः ।

२८४ श्रीतन्त्रालोकः ।
प्रष्टा यथा सदाशिवो, वक्ता यथा शिवः, तच्छ-
ब्देन प्रश्नक्रियापरामर्शः, तयोर्भिन्नत्वेऽपि तावत्यर्थे
संविदाढ्यैकात्म्यात् संबन्धः - तस्य भेदाभेदरूप-
त्वात्, ऐकात्म्यभावे यदा भेदगन्धस्यापि विगल-
नात् सर्वात्मतालक्षणा पूर्णता स्यात् तदा परः
संबन्धः ॥
तदाह
संबन्धः परता चास्य
पूर्णैकात्म्यप्रथामयी ॥२७५॥
परता हि पूर्णैकात्म्यप्रथालक्षणा । पूर्णे हि
सर्वमस्ति, सर्वत्र च पूर्णमस्ति इत्येतत् पञ्चस्वपि
संबन्धेषु अस्ति इति युक्तमुक्तं 'सर्वः परकलात्मकः'
इति । तदुक्तं
'संबन्धः परमेशानि सर्वः परकलामयः ।
महानवान्तरो दिव्यो मिश्रोऽदिव्यश्च तत्परः ॥'
इति ॥२७५॥
संबन्धान्तरेष्वपि एतदेवातिदिशति
पं० ४ क० पु० ऐकात्म्यं च यदेति पाठः ।
पं० ५ क० पु० सर्वसर्वात्मतालक्षणा पूर्णापूर्णता स्यादिति पाठः ।

श्लोकः २७८ ] प्रथमाह्निकम् । २८५
अनेनैव नयेन स्या-
त्सम्बन्धान्तरमप्यलम् ।
शास्त्रवाच्यं फलादीनां
परिपूर्णत्वयोगतः ॥२७६॥
एतदेव संकलयति
इत्थं संविदियं देवी
स्वभावादेव सर्वदा ।
उद्देशादित्रयप्राणा
सर्वशास्त्रस्वरूपिणी ॥२७७॥
इत्थम्-उक्तेन प्रकारेण, सर्वदा संविदेव इयं भग-
वती स्वस्वातन्त्र्यात् उद्देशादित्रयप्राणेन सर्वात्मना
शास्त्रेण स्वरूपिणी-शास्त्रात्मना संविदेव अवभा-
सते इत्यर्थः ॥२७७॥
तत्र उद्देशस्वरूपमेव तावदाह
तत्रोच्यते पुरोद्देशः
पूर्वजानुजभेदवान् ।
पं० १ क० पु० अनेनैव त्रयेणेति पाठः ।
पं० ११ घ० पु० स्वातन्त्र्यात् आदेशादीति पाठः ।

२८६ श्रीतन्त्रालोकः ।
विज्ञानभिद्गतोपायः
परोपायस्तृतीयकः ॥२७८॥
शाक्तोपायो नरोपायः
कालोपायोऽथ सप्तमः ।
चक्रोदयोऽथ देशाध्वा
तत्त्वाध्वा तत्त्वभेदनम् ॥२७९॥
कलाद्यध्वाध्वोपयोगः
शक्तिपाततिरोहिती ।
दीक्षोपक्रमणां दीक्षा
सामयी पौत्रिके विधौ ॥२८०॥
प्रमेयप्रक्रिया सूक्ष्मा
दीक्षा सद्यःसमुत्क्रमः ।
तुलादीक्षाथ पारोक्षी
लिङ्गोद्धारोऽभिषेचनम् ॥२८१॥
अन्त्येष्टिः श्राद्धक्लृप्तिश्च
शेषवृत्तिनिरूपणम् ।
लिङ्गार्चा बहुभित्पर्व-
पवित्रादि निमित्तजम् ॥२८२॥
पं० ३ क० पु० शाक्तोपायोऽप्यणूपाय इति पाठः ।

श्लोक २८४ ] प्रथमाह्निकम् । २८७
रहस्यचर्या मन्त्रौघो
मण्डलं मुद्रिकाविधिः ।
एकीकारः स्वस्वरूपे
प्रवेशः शास्त्रमेलनम् ॥२८३॥
आयातिकथनं शास्त्रो-
पादेयत्वनिरूपणम् ।
सामान्यसंज्ञया कीर्तनं पूर्वज उद्देशः, विशेषसं-
ज्ञया कीर्तनम् अनुज उद्देशः, स एव च विभागः
इत्यन्यत्र उक्तः। तत्र पूर्वजमुद्देशमाह-विज्ञानभित्
इत्यादिना निरूपणम् इत्यन्तम्, विज्ञानानि शाम्भ-
वादीनि भिद्यन्ते यत्र इति । गतोपायः इत्यनुपायः ।
पौत्रिके विधौ इति पौत्रिकं विधिमाश्रित्य । दीक्षा
इति पूर्वेण संबन्धः । प्रमेयप्रक्रिया इत्यर्थात् पौत्रिके
विधौ इति योज्यम् । यद्वक्ष्यति
'तदाह्निकानुजोद्देशे कथितं पौत्रिके विधौ ।'
इति ॥२७८-२८३॥
पं० १ क० पु० रहस्यशौचमन्त्रौघ इति, ख० पु० रहस्यचर्चेति च पाठः ।
पं० ३ क० पु० एकीकारः स्वरूपेण प्रबोधः शास्त्रेति पाठः ।
पं० ६ क० पु० पादेयत्वे न्यरूपयत् इति पाठः ।
पं० ७ क० पु० आयातिकीर्तनमिति पाठः ।

आह्निकानां समभ्यस्येत्

२८८ श्रीतन्त्रालोकः ।
किमेवमियता ग्रन्थेन उपनिबद्धेन ? इत्याशङ्क्याह
इति सप्ताधिकामेनां
त्रिंशतं यः सदा बुधः ॥२८४॥
आह्निकानां समभ्यस्येत्
स साक्षाद्भैरवो भवेत् ।
सप्तत्रिंशत्सु संपूर्णा-
बोधो यद्भैरवो भवेत् ॥२८५॥
किं चित्रमणावोऽप्यस्य
दृशा भैरवतामियुः ।
इत्येष पूर्वजोद्देशः
कथ्यते त्वनुजोऽधुना ॥२८६॥
विज्ञानभित्प्रकरणे
सर्वस्योद्देशनं क्रमात् ।
द्वितीयस्मिन्प्रकरणे
गतोपायत्वभेदिता ॥२८७॥
विश्वचित्प्रतिबिम्बत्वं
परामर्शोदयक्रमः ।
मन्त्राद्यभिन्नरूपत्वं
परोपाये विविच्यते ॥२८८॥

श्लोक २६२ ] प्रथमाह्निकम् । २८६
विकल्पसंस्क्रिया तर्क-
तत्त्वं गुरुसतत्त्वकम् ।
योगाङ्गानुपयोगित्वं
कल्पितार्चाद्यनादरः ॥२८९॥
संविच्चक्रोदयो मन्त्र-
वीर्यं जप्यादि वास्तवम् ।
निषेधविधितुल्यत्वं
शाक्तोपायेऽत्र चर्च्यते ॥२६०॥
बुद्धिर्ध्यानं प्राणतत्त्व-
समुच्चारश्चिदात्मता ।
उच्चारः परतत्त्वान्तः-
प्रवेशपथलक्षणम् ॥२६१॥
करणं वर्णतत्त्वं चे-
त्याणवे तु निरूप्यते ।
चारमानमहोरात्र-
संक्रान्त्यादिविकल्पनम् ॥२६२॥
पं० १० घ० पु० समुच्चारस्तदात्मना इति पाठः ।
३७

२६० श्रीतन्त्रालोकः ।
संहारचित्रता वर्णा-
दयः कालाध्वकल्पने ।
चक्रभिन्मन्त्रविद्याभि-
देतच्चक्रोदये भवेत् ॥२६३॥
परिमाणं पुराणां च
संग्रहस्तत्त्वयोजनम् ।
एतद्देशाध्वनिर्देशे
द्वयं तत्त्वाध्वनिर्णये ॥२६४॥
कार्यकारणभावश्च
तत्त्वक्रमनिरूपणम् ।
वस्तुधर्मस्तत्त्वविधि-
र्जाग्रदादिनिरूपणम् ॥२६५॥
प्रमातृभेद इत्येतत्
तत्त्वभेदे विचार्यते ।
कलास्वरूपमेकत्रिं-
पञ्चाद्यैस्तत्त्वकल्पनम् ॥२६६॥
वर्णाभेदक्रमः सर्वा-
धारशक्तिनिरूपणम् ।
पं० १८ क० पु० शक्तिविकल्पनमिति पाठः ।

श्लोकः ३०० ] प्रथमाह्निकम् । २६१
कलाद्यध्वविचारान्त-
रेतावत्प्रविविच्यते ॥२६७॥
अभेदभावनाकम्प-
ह्रासौ त्वध्वोपयोजने ।
संख्याधिक्यं मलादीनां
तत्त्वं शक्तिविचित्रता ॥२६८॥
अनपेक्षितसिद्धिश्च
तिरोभावविचित्रता ।
शक्तिपातपरीक्षाया-
मेतावान्वाच्यसंग्रहः ॥२६९॥
तिरोभावव्यपगमो
ज्ञानेन परिपूर्णता ।
उत्क्रान्त्यनुपयोगित्वं
दीक्षोपक्रमगो स्थितम् ॥३००॥
शिष्यौचित्यपरीक्षादौ
स्थानभित्स्थानकल्पनम् ।
पं० ११ क० पु० तिरोभावाद्यपगमे इति पाठः ।

२८२ श्रीतन्त्रालोकः ।
सामान्यन्यासभेदोऽर्घ-
पात्रं चैतत्प्रयोजनम् ॥३०१॥
द्रव्ययोग्यत्वमर्चा च
बहिर्द्वारार्चनं क्रमात् ।
प्रवेशो दिक्स्वरूपं च
देहप्राणादिशोधनम् ॥३०२॥
विशेषन्यासवैचित्र्यं
सविशेषार्घभाजनम् ।
देहपूजा प्राणबुद्धि-
चित्स्वध्वन्यासपूजने ॥३०३॥
अन्यशास्त्रगणोत्कर्षः
पूजा चक्रस्य सर्वतः ।
क्षेत्रग्रहः पञ्चगव्यं
पूजनं भूगणेशयोः ॥३०४॥
अस्त्रार्चा वह्निकार्यं चा-
प्यधिवासनमग्रिमम् ।
पं० ५ क० घ० पु० प्रवेशोऽध्यञ्चरूपं चेति पाठः ।
पं० ९ क० पु० बुद्धिचेष्टाध्ववेति पाठः ।

श्लोकः ३०६ ] प्रथमाह्निकम् । २६३
तर्पणां चरुसंसिद्धि-
र्दन्तकाष्ठान्तसंस्क्रिया ॥३०५॥
शिवहस्तविधिश्चापि
शय्याक्लृप्तिविचारणाम् ।
स्वप्नस्य सामयं कर्म
समयाश्चेति संग्रहः ॥३०६॥
समयित्वविधावस्मि-
न्स्यात्पञ्चदश आह्निके ।
मण्डलात्मानुसन्धानं
निवेद्यपशुविस्तरः ॥३०७॥
अग्नितृप्तिः स्वस्वभाव-
दीपनं शिष्यदेहगः ।
अध्वन्यासविधिः शोध्य-
शोधकादिविचित्रता ॥३०८॥
दीक्षाभेदः परो न्यासो
मन्त्रसत्ताप्रयोजनम् ।
भेदो योजनिकादेश्च
षोडशे स्यादिहाह्निके ॥३०६॥

सूत्रक्लृप्तिस्तत्त्वशुद्धिः

२६४ श्रीतन्त्रालोकः ।
सूत्रक्लृप्तिस्तत्त्वशुद्धिः
पाशदाहोऽथ योजनम् ।
अध्वभेदस्तथेत्येवं
कथितं पौत्रिके विधौ ॥३१०॥
जननादिविहीनत्वं
मन्त्रभेदोऽथ सुस्फुटः ।
इति संक्षिप्तदीक्षाख्ये
स्यादष्टादश आह्निके ॥३११॥
कलावेत्ता कृपाणयादि-
न्यासश्चारः शरीरगः ।
ब्रह्मविद्याविधिश्चैव-
मुक्तं सद्यःसमुत्क्रमे ॥३१२॥
अधिकारपरीक्षान्तः-
संस्कारोऽथ तुलाविधिः ।
इत्येतद्वाच्यसर्वस्वं
स्याद्विंशतितमाह्निके ॥३१३॥
पं० ९ क० पु० कालाववेत्तेति पाठः ।
पं० १३ क० पु० अधिकारिपरीक्षातः संस्कार इति पाठः ।

श्लोकः ३१७ ] प्रथमाह्निकम् । २६५
मृतजीवद्विधिर्जालो-
पदेशः संस्क्रियागणः ।
बलाबलविचारश्चे-
त्येकविंशान्हिके विधिः ॥३१४॥
श्रवणं चाभ्यनुज्ञानं
शोधनं पातकच्युतिः ।
शङ्काच्छेद इति स्पष्टं
वाच्यं लिङ्गोद्धृतिक्रमे ॥३१५॥
परीक्ष्ताचार्यकरणं
तद्गतं हरणं मतेः ।
तद्विभागः साधकत्व-
मभिषेकविधौ त्वियत् ॥३१६॥
अधिकार्यथ संस्कार-
स्तत्प्रयोजनमित्यदः ।
चतुर्विंशेऽन्त्ययागाख्ये
वक्तव्यं परिचर्च्यते ॥३१७ ॥
पं० १५ क० पु० चतुर्विंशतियागाख्ये इति पाठः ।

प्रकाशे वस्तुसंग्रहः ॥३१८॥

२८६ श्रीतन्त्रालोकः ।
प्रयोजनं भोगमोक्ष-
दानेनात्र विधिः स्फुटः ।
पञ्चविंशाह्निके श्राद्ध-
प्रकाशे वस्तुसंग्रहः ॥३१८॥
प्रयोजनं शेषवृत्ते-
र्नित्यार्चा स्थण्डिले परा ।
लिङ्गस्वरूपं बहुधा
चाक्षसूत्रनिरूपणम् ॥३१९॥
पूजाभेद इति वाच्यं
लिङ्गार्चासंप्रकाशने ।
नैमित्तिकविभागस्त-
त्प्रयोजनविधिस्ततः ॥३२०॥
पर्वभेदास्तद्विशेष-
श्चक्रचर्चा तदर्चनम् ।
गुर्वाद्यन्तदिनाद्यर्चा-
प्रयोजननिरूपणम् ॥ ३२१ ॥
पं० ६ क० पु० इयद्वाच्यमिति पाठः ।

श्लोकः ३२५ ] प्रथमाह्निकम् । २६७
मृतेः परीक्षा योगीशी-
मेलकादिविधिस्तथा ।
व्याख्याविधिः श्रुतविधि-
र्गुरुपूजाविधिस्त्वियत् ॥३२२॥
नैमित्तिकप्रकाशाख्ये
ऽप्यष्टाविंशाह्निके स्थितम् ।
अधिकार्यात्मनो भेदः
सिद्धपत्नीकुलक्रमः ॥३२३॥
अर्चाविधिर्दौतविधी
रहस्योपनिषत्क्रमः ।
दीक्षाभिषेकौ बोधश्चे-
त्येकोनत्रिंश आह्निके ॥३२४॥
मन्त्रस्वरूपं तद्वीर्य-
मिति त्रिंशे निरूपितम् ।
शूलाब्जभेदो व्योमेश-
स्वस्तिकादिनिरूपणम् ॥३२५॥
पं० ६ ग० पु० विधिर्मौनिविधी रहस्येति पाठः ।
३८

२६८ श्रीतन्त्रालोकः ।
विस्तरेणाभिधातव्य-
मित्येकत्रिंश आह्निके ।
गुणप्रधानताभेदाः
स्वरूपं वीर्यचर्चनम् ॥ ३२६ ॥
कलाभेद इति प्रोक्तं
मुद्राणां संप्रकाशने ।
इत्यादि न केवलमेवं, यावत् अन्यदपि अस्य
माहात्म्यं स्यात् इत्याह 'इति सप्ताधिकां, संप्रका-
शने' इत्यन्तम् । इह ग्रन्थकृता तत्त्वतः समस्तव्य-
स्तत्वेन सप्तत्रिंशदाह्निकानि उपनिबद्धानि इति ।
यथा पृथ्वीतत्त्वे भेदस्य प्राधान्यात् स्थूलेन रूपेण
सर्वमस्ति, तथा इहापि वक्ष्यमाणम् इत्युक्तं 'सर्व-
स्योद्देशनं क्रमात्' इति। परोपाये इति - शाम्भवोपाये,
अस्य च अविकल्पकमेव रूपम् इत्युक्तप्रायं, तच्च
भेदाभावे सति भवेत्, स च वाच्यवाचकात्मनो
विश्वस्य संविदेकरूपत्वे सति स्यात्, तत्र वाच्यात्मनो
विश्वस्य चित्प्रतिबिम्बत्वेन सामान्यविशेषात्मतया
पं० १६ ख० पु० विश्वस्य विश्वचिदिति पाठः ।

श्लोकः ३२६ ] प्रथमाह्निकम् । २६६
द्विविधस्य, वाचकात्मनो विश्वस्य च परामर्शोदय-
क्रममन्त्रार्थभिन्नरूपत्वाभ्यां संविदनतिरेकात् तदेक-
रूपत्वमुच्यते इत्यत्र एतत्प्रमेयत्रयोपक्षेपः । शाक्तस्य
च विकल्पकमेव रूपम् इति प्रथमं विकल्पस्यैव
संस्कार उक्तः, स च हेयाद्यालोचनद्वारेण तर्केण
अभिधीयते इति तदनन्तरं तत्तत्त्वम् । अन्यच्च
शुद्धविद्यात्मनस्तर्कस्यैव विस्फूर्जितं यत् तद्वशादेव
सद्गुरुप्राप्तिर्भवेत् इति तत्सतत्त्वमुक्तम् । तर्क एव च
साक्षाद्योगस्याङ्गम् इति अन्येषां योगाङ्गानामनुप-
योगित्वम् — तर्कस्य च शुद्धविद्यात्मतया भेदभावक-
मायीयविकल्पप्रतिघातित्वात् कल्पितस्य अर्चादेर-
नादरः तत एवाविकल्पसंस्कारस्य दाढ्यात् संवि-
च्चक्रोदयः, तदुदय एव च मन्त्राणां परं वीर्यं,
तथामर्श एव च वास्तवं जप्य्यादि, अत एव च संविदि
भेदाभावात् निषेधविधितुल्यत्वम् इत्येतन्नवसंख्याकं
प्रमेयमुपक्षिप्तम् । एवमाणवादावपि बुद्धिध्यानादेः
साक्षात्तदौपायिकत्वम् इत्येतदस्माभिः — स्पष्टत्वात्
पं० ५ क० पु० स चाहन्ताद्यालोचनद्वारेणेति, ख० पु० स चोपायाद्यालो-
चनेति पाठः ।

आह्निकान्तरपरिगणनमेव कृतम् इत्याशङ्क्याह

३०० श्रीतन्त्रालोकः ।
ग्रन्थविस्तरभयात् अग्रे च निर्णयिष्यमाणत्वात् न
प्रातिपद्येन व्याख्यातम् इति स्वयमेव अवधार्यम्
॥ २८४-३२६ ॥
ननु एकीकाराह्निकादौ किमिति न अनुजोद्देशः
कृतः ? इत्याशङ्क्याह
द्वात्रिंशत्तत्वादीशाख्या-
त्प्रभृति प्रस्फुटो यतः ॥ ३२७॥
न भेदोऽस्ति ततो नोक्त-
मुद्देशान्तरमत्र तत् ।
द्वात्रिंशं तत्त्वं स्वरूपं यस्य तन्मुद्राह्निकं, तस्मात्
द्वात्रिंशसंख्यादनन्तरं यत् ईशाख्यं त्रयस्त्रिंशमेकीका-
राह्निकं तत आरभ्य भेदस्य प्राधान्याभावात् अनुज
उद्देशो न कृतः इत्यर्थः ॥३२७॥
ननु यद्यतः प्रभृति भेदो नास्ति तत्किमिति
आह्निकान्तरपरिगणनमेव कृतम् इत्याशङ्क्याह
मुख्यत्वेन च वेद्यत्वा-
दधिकारान्तरक्रमः ॥३२८॥

श्लोकः ३३० ] प्रथमाह्निकम् । ३०१
एतदुपसंहरन्नन्यदवतारयति
इत्युद्देशविधिः प्रोक्तः
सुखसंग्रहहेतवे ।
अथास्य लक्षणावेक्षे
निरूप्येते यथाक्रमम् ॥३२६॥
अस्य इति-उद्दिष्टस्य प्रमेयजातस्य ॥३२६॥
इदानीमाह्निकार्थमेव संचिनोति
आत्मा संवित्प्रकाशस्थितिरनवयवा
संविदित्यात्तशक्ति-
व्रातं तस्य स्वरूपं स च निज महस-
श्छादनाद्वद्धरूपः ।
आत्मज्योतिःस्वभावप्रकटनविधिना
तस्य मोक्षः स चायं
चित्राकारस्य चित्रः प्रकटित इह य-
त्संग्रहेणार्थ एषः ॥३३०॥
इह आत्मनस्तावत् धामत्रयीबाह्यप्रकाशविलक्षणः
पं० ४ क० पु० लक्षणापेक्ष्या तत्र इति पाठः ।
पं० १० ग० पु० निजमहिमाच्छादनाद्वन्द्वरूपः इति पाठः ।
पं० १३ क० पु० स चास्य इति पाठः ।