सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.५.२) २२९
पुरा कदाचिद्युयुत्सवो देवाः परस्परमिदमब्रुवन्नेषामसुराणां युद्धार्थं
वयमनुकूलया सामग्र्याऽरात्स्म समृद्धा अभूमेति। यस्मिन्नक्षत्रे तदिदं वचन
मब्रुवंस्तस्य नक्षत्रस्यानूराधा इति नाम संपन्नम्। तदनुकूलया सामग्र्या
राद्धिः। समृद्धिरेत्रेति व्युत्पत्तेः। एषामसुराणां मध्ये ज्येष्ठं पुरुषं
मुख्यमवधिष्मेति यस्मिन्नक्षत्रेऽब्रुवंस्तस्य नक्षत्रस्य ज्येष्ठघ्नीति नाम। तत्र
नामैकदेशेन ज्येष्ठेति लौकिको व्यवहारः। भीमसेन भीम इतिवत्।
एवमसुराणां मूलं निवासस्थानमवृक्षमव विच्छिन्नं कृतवन्तो वयमिति
यस्मिन्नक्षत्रेऽब्रुवंस्तस्य नक्षत्रस्य मूलबर्हणीति नाम। मूलस्य
बर्हणमुद्यमनमुच्छेदनमत्रेति व्युत्पत्तेः। अत्राप्येकदेशेन लौकिको
व्यवहारः। ययोर्नक्षत्रयोर्देवकृतमुपद्रवं सोढुमशक्ता असुरास्तस्य
नक्षत्रद्वयस्याषाढा इति नाम। न सहन्तेऽत्रेति व्युत्पत्तेः। श्रोणेति
संघवाची। यस्मिन्नक्षत्रे प्रहारसंघोऽसुरेष्वभूत्तस्य श्रोणेति नाम।
श्रवणमिति लौकिकव्यवहारः। यस्मिन्नक्षत्रे देवैरुक्तमधिक्षेपमसुर-
संघोऽशृणोत्त्तस्यश्रविष्ठा इति नाम। धनिष्ठेति लौकिकव्यवहारः।
यस्मिन्नक्षत्रेऽसुकृतं प्रहाराणां शतं देवा अभिष्यन्ननायासेन
चिकित्सितवन्तस्तस्य शतभिषगिति नाम। प्रोष्ठपदारख्ये नक्षत्रद्वये देवाः
स्वकीयान्यायुधान्यसुरयोधनायोद्यतवन्तस्तस्मान्नक्षत्रद्वयस्य प्रोष्ठपद-
नामत्वम्। यस्मिन्नक्षत्रे देवा अरवन्तासुरभीतिकरं शब्दमकुर्वंस्तस्य
रेवतीति नाम। यस्मिन्नक्षत्रे देवा रथेऽश्वानयोजित-वन्तस्याश्वयुगिति
नाम। यस्मिन्नक्षत्रे प्राणानामपहारामसुरा अवहंस्तस्यापभरणीति नाम।
प्राणभरणादपगतत्वात्। तान्येतान्यनूराधादीनि यमवदसुराणां
मरणहेतुत्वाद्यमनक्षत्राणि।
तत्र नामनिर्वचनादेव तेषामधमत्वेन वर्जनत्वप्रतीतेरितरनक्षत्रेषु
कृत्तिकादिषूत्तमत्वप्राप्त्या तेषु लौकिकवैदिककाम्यानुष्ठानं विधत्ते-
यान्ये॒व दै॑वनक्ष॒त्राणि॑। तेषु॑ कुर्वीत॒ यत्का॒री स्यात्॑। पुण्या॒ह
ए॒व कु॑रुते (९), इति।
व॒कारै॒वं व॒दोभ॒यो॑रे॒नं लो॒कयो॑र्विदुरजयन्न॒रेव॑तीमुपा॑तिष्ठन्त
नक्ष॑त्र॒त्वम॒न्यानि॒ यानि॑ यमनक्ष॒त्राण्यश्रो॑लो॒द्यमनक्ष॒त्राणि॒ त्रीणि॑ च।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये
द्वितीयोऽनुवाकः ॥२॥
यत्काम्यं कर्म करोतीति यत्कारी स पुरुषस्तत्कर्म देवनक्षत्रेषु
कुर्वन्नितरेषां कालदोषाणामुपशान्त्या पुण्याह एव कृतवान्भवति।

२३० (१.५.३) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके द्वितीयोऽनुवाकः ॥ २ ॥
अथ पञ्चमप्रपाठके तृतीयोऽनुवाकः ।
द्वितीयानुवाके नक्षत्रोपजीवनेन शुभकालो निरूपितः। तृतीये
दिवसभागोपजीवनेन शुभकालो निरूप्यते । अह्न पञ्च विभागाः । प्रातः
संगवमध्याह्नापराह्णसायाह्नशब्दाभिधेयाः। तत्राऽऽद्यन्तयोः स्वभावविशेषं
दर्शयति-
दे॒वस्य॑ सवि॒तुः प्रा॒तः प्र॑स॒वः प्रा॒णः । वरु॑णस्य
सा॒यमा॑स॒वोऽपा॒नः॑ ; इति ।
योऽयमुदयान्तरभावी मुहूर्तत्रयात्मकः कालः प्रातः शब्दवाच्यः स
च सवितुः प्रेरकस्य देवस्य प्रसवः प्रेरणयुक्तः । सूर्योदये सत्यनुष्ठातारः
कर्षकाः सेवका वणिजश्च स्वस्वव्यापारेषु सूर्यप्रकाशेन प्रेर्यन्ते । तस्मात्
प्रकर्षणानिति चेष्टते सर्वो लोकोऽत्रेत्ययं कालः प्राणरूपः । अह्रोऽन्तिमो
मुहूर्तत्रयात्मकः कालः सायं शब्दाभिधेयः । स च वरुणसंबन्धी । तत
ऊर्ध्वं तारकेन तमसा जगदावरणात् । स च प्राणिप्रेरणस्या-
ऽऽसमन्ताच्छेदकत्वादासव इत्युच्यत । अस्तमयकाले हि सर्वे प्राणिनः
स्वस्वव्यापारेभ्य उपरन्मते । अतोऽपगतचेष्टत्वादपान इत्युच्यत ।
अथ प्रातः संगवयोः प्रथमद्वितीययोर्भागयोः संधिरूपं कालं हेयतया
निरूपयति-
यत्प्र॑ती॒चीनं॑ प्रा॒तस्तना॑त् । प्रा॒चीनं॒ "संग॒वात् । ततो॑ दे॒वा
अ॒ग्निष्टो॒मं निर॑मिमत। तत्तदार्त्तवीर्यं॒ निर्मार्गः॑, इति ।
प्रातःकालं योऽयमन्तिमो मुहूर्तस्तं पृथक्कृत्य तत्स्वरूपं
प्रातस्तनात्कालात्प्रतीचीनमित्युच्यते । मुहूर्तत्रयात्मकस्य संगवाख्यस्य
द्वितीयभागस्य यः प्रथमो मुहूर्तस्तं पृथक्कृत्य तत्स्वरूपं संगवात्प्राचीनमिति
व्यपदिश्यते । प्रातःकालात्प्रतीचीनं संगवात्प्राचीनं च मुहूर्तद्वयात्मकं
संधिरूपं यत्कालरूपं भवति ततः संधिरूपात्कालादग्निष्टोमसंस्थारूपं
सोमयागं देवा निर्मितवन्तः । यस्मात्कारणात्संधिरूपप्रत्तंवीर्यं
देवैर्गृहीतसारत्वान्निःसारं तस्मादयं निर्मार्गः कालः मार्गो मार्जनं शुद्धिः
ततो निर्गतो निर्मार्गः ।
प्रातः कालवत्संगवकालं प्रशंसति-

ब्राह्मणश्च तथा तपेदिति । “मध्यंदिने प्रबलमधीयीत” इति श्रुतेः ।

तैत्तिरीयब्राह्मणम् (१.५.३) २३१
मि॒त्रस्य॑ संग॒वः । तत्पु॒ण्यं तेज॑स्व्यहः॑ । तस्मा॒त्तर्हि॑ प॒शवः॑
समा॒र्यन्ति॑, इति ।
योऽयं संगवो द्वितीयो भागस्तस्य मित्रः स्वामी । मित्रस्य च
सर्वानुग्राहकत्वात् । तदीयमह्नः स्वरूपं पुण्यमध्ययनादिपुण्यकर्मोपेतम् ।
अत एव तेजस्वित्वेन भासते । तस्मात्तेजस्वित्वादेव तस्मिन्काले
पशवोऽरण्येषु सम्यगाचरन्ति ।
अथ द्वितीयतृतीयभागयोः संधिं पूर्वसंधिवन्निन्दति-
यत्प्र॑ती॒चीनं॑ ᳵ संग॒वात् (१)। प्रा॒चीनं॑ म॒ध्यंदि॑नात् । ततो॑
दे॒वा उ॒क्थ्यं॑ निरमिमत । तत्तदार्तवीर्यं॒ निर्मार्गः॑, इति ।।
तृतीयभागं प्रशंसति-
बृ॒हस्पते॑र्म॒ध्यंदि॑नः । तत्पु॒ण्यं तेज॑स्व्यहः॑। तस्मा॒त्तर्हि॑
तेऽक्षि॑ष्ठं॒ तपति॑, इति ।
मध्यंदिनभागस्य बृहस्पतिःस्वामी । तस्यातिशयेन
ब्रह्मवर्चसित्वात्तदीयमह्नः स्वरूपं पुण्यमतस्तस्मिंस्ते पशवोऽक्षिष्ठं
नाशरहितमुद्वेगरहित्येनावस्थानरूपं तपः कुर्वन्ति । पशूनां
तथाऽवस्थानमेव तपः । “गावो वा एतत्सत्रमासत” इत्यत्र तथा
तत्तपःप्रतिपादनात् । वस्तुतस्तु तेक्षिष्ठमित्येकमेव पदम् । तथा च
तेक्षिष्ठमतिशयेन तीक्ष्ण ᳵयथा स्यात्तथा तस्मिन्काले सूर्यस्तपति ।
ब्राह्मणश्च तथा तपेदिति । “मध्यंदिने प्रबलमधीयीत” इति श्रुतेः ।
तृतीयचतुर्थभागयोः संधिं निन्दति-
यत्प्र॑ती॒चीनं॑ म॒ध्यंदि॑नात् । प्रा॒चीन॑मपरा॒ह्णात् । ततो॑ दे॒वाः
षो॒ड॒शिनं॒ निर॑मिमत । तत्तदार्तवीर्यं॒ निर्मार्गः॑ (२), इति ।
चतुर्थभागं प्रशंसति-
भग॑स्यापरा॒ह्नः । तत्पु॒ण्यं तेज॑स्व्यहः॑ । तस्मा॑दपरा॒ह्ने
कु॒मा॒र्यो भग॑मि॒च्छमा॑नाश्चरन्ति, इति ।
भगं सौभाग्यं शृङ्गारं गृहवर्तिनां सर्वेषा भोजनादिव्यापारेषु
निष्पन्नेष्वपराह्नकाले मातरः पुत्रीणां कुमारीणामङ्गप्रक्षा-

ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं

२३२ (१.५.३) तैत्तिरीयब्राह्मणम्
लनधम्मिल्लबन्धननयनाञ्जनादिभिः शृङ्गारं कुर्वन्ति ।
सौभाग्यदेवतायास्तत्कालस्वामित्वेन तदेतदुचितम् ।
अथ चतुर्थपञ्चमभागयोः संधिं निन्दति-
यत्प्र॑ती॒चीन॑मपरा॒ह्णात् । प्रा॒चीन॑'५ सा॒यात् । ततो॑ दे॒वा
अति॑रा॒त्रं निर॑मिमत । तत्तदार्तवीर्यं॒ निर्माग॑ः, इति ।
पञ्चमभागं प्रशंसति-
वरु॑णस्य सा॒यम् । तत्पुण्य॑न् तेज॒स्यह॑ः । तस्मा॑त्त॒र्हि नानृ॑तं
वदेत् (३), इति ॥
वरुणस्योग्रदेवतात्वात्तस्मिन्पुण्यकालेऽनृतवादिनं वरुणो बाधते ।
अत एवान्यत्र श्रूयते--"अनृते खलु वै क्रियमाणे वरुणो गृह्णाति" इति ।
तस्मात्तस्मिन्कालेऽतिप्रयत्नादनृतं वर्जयेत् ।
उत्तमाधमकालविभागज्ञानं प्रशंसति-
ब्रा॒ह्म॒णो वा अ॑ष्टाविं॒शो नक्ष॑त्राणाम् । समा॒नस्या॒ह्नः पञ्च॑
पुण्या॑नि॒ नक्ष॑त्राणि । च॒त्वार्य॑श्ली॒लानि॑ । तानि॒ नव॑ ।
यच्च॑ प॒रस्ता॒न्नक्ष॑त्राणां॒ यच्चा॒वस्ता॑त् । ता॒न्येका॑दश ।
ब्रा॒ह्म॒णो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं व्र॒तं चर॑ति ।
सं॒व॒त्स॒रेणै॒वास्य॑ व्र॒तं गुप्तं भ॑वति, इति ।
कृत्तिकादीनि भरण्यान्तानि सप्तविंशतिर्नक्षत्राणि तदपेक्षया
ब्राह्मणोऽष्टाविंशो नक्षत्रम् । यथा नक्षत्रयोगात्कालस्य कर्मयोग्यतैवं
ब्राह्मणवचनादपि कालः कर्मयोग्यो भवति । अत एव शिष्टाः कर्मारम्भेषु
पुण्याहं वाचयन्ति । संवत्सरसंपादनेन प्रशंसति । एकस्याह्नः प्राप्ताः
प्रातः संगवादयः पञ्च भागा नक्षत्रांशोपेतत्वात्पञ्च नक्षत्राणि । तानि च
पूर्वोक्तरीत्या प्रशस्तत्वात्पुण्यानि । यानि च संधिरूपाणि
तान्यग्निष्टोमाद्युत्पादनेन निःसारत्वादश्लीलानि निन्दितानि । एवं
पुण्यान्यश्लीलानि च मिलित्वा नवसंख्याकानि । यच्च नक्षत्रांशयुक्तेन
नक्षत्राणामेतेषां नवसंख्याकानां परस्तादुपरि प्रदोषकालरूपं
यच्चाधस्तादुषःकालरूपं ताभ्यां द्वाभ्यां सह तान्येकादश संपद्यन्ते
तदपेक्षया वचनेन पुण्याहत्वसंपादको ब्राह्मणो द्वादशः ।

तैत्तिरीयब्राह्मणम् (१.५.४) २३३
एवमेते कालविशेषा द्वादशमासत्वेन भाविताः
संवत्सरतामापद्यन्ते । एवमनेन प्रकारेण यो विद्वान्
संवत्सरत्वसंपादनेनैकस्मिन्दिने व्रतं कर्मविशेषमाचरति तस्य तद् व्रतं
प्रसिद्धेनेव संवत्सरेण गुप्तं भवति । संवत्सरानुष्ठानेन यावत्फलं
तावदाप्नोतीत्यर्थः ।
अथ प्रकारान्तरेण तदभिधत्ते-
स॒मा॒नस्याह्नः॑ प॒ञ्च पु॒ण्या॑नि॒ नक्ष॑त्राणि । च॒त्वा-
र्य॑श्ली॒लानि॑ । ता॒नि॒ नव॑ । आ॒ग्ने॒यी रात्रिः॑ । ऐ॒न्द्रमहः॑ ।
तान्येका॑दश । आ॒दि॒त्यो द्वाद॑शः । य एवं वि॒द्वान्सं॑वत्स॒रं
व्र॒तं चर॑ति । सं॒व॒त्स॒रेणै॑वास्य व्र॒तं गुप्तं भव॑ति । (४),
इति ।
सृङ्ग्वां१॑षोडशिन॒ निर॑मिमीत॒ तत्तदार्त्तवीर्यं॑ मिर्मागाँ॑ वदे॒न्द्रवति
स॒मा॒नस्याह्नः॑ प॒ञ्च पु॒ण्या॑नि॒ नक्ष॑त्राण्य॒ष्टौ च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये तृतीयोऽनुवाकः ॥ ३ ॥
पूर्वं प्रदोषकालोषः काल ब्राह्मणेद्वादशसंख्या पूरिता । इदानीं
तत्तत्रयं परित्यज्याग्निदेवताकां रात्रिमिन्द्रदेवताकमहरान्दियं च
तत्तत्रयस्थाने निवेश्यानुसंधानमुच्यत इति विशेषः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके तृतीयोऽनुवाकः ॥ ३ ॥
अथ पञ्चमप्रपाठके चतुर्थोऽनुवाकः ।
तृतीये हेयोपादेयकालविभागो निरूपितः । स च
ऋतुविशेषसंबन्धाभावात्पुरुषार्थः । अतः सामान्येन सर्वकर्मसु संबध्यत ।
चतुर्थे सोमविषये विशेषोऽभिधीयते । यदुक्तं पूर्वप्रपाठके-"यद्दारुमयाणि
पात्राणि भवन्ति" इति । तदेतत्प्रशंसति-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कति॒ पात्रा॑णि य॒ज्ञं वह॑न्तीति॑ ।
त्रयो॑द॒शेति॑ ब्रूयात् ॥ स यद्ब्रू॒यात् । कस्तानि॒
निर॑मिमीतेति॑ । प्र॒जाप॑ति॒रिति॑ ब्रूयात् । स यद् ब्रू॒यात् ।

कु॒त॒स्तानि॒ निर॑मिमीतेति॑ । आ॒त्मन॒ इति॑ ।
प्रा॒णा॒पा॒नाभ्या॑मे॒वोपाँ॒श्वन्तर्या॒मौ निर॑मिमीत (१) ।
व्या॒नादु॑पाँशुसव॑नम् । वाच॒ ऐन्द्र॑वाय॒वम् । द॒क्ष॑क्रतुभ्यां
मैत्रावरुणम् । श्रोत्रा॑दाश्वि॒नम् । चक्षु॑षः शुक्रा॒म॒न्थिनौ॑ ।
आ॒त्मन॑ आग्रय॒णम् ।। अङ्गे᳚भ्य उ॒क्थ्य॑म् । आयु॑षो ध्रु॒वम् ।
प्र॒ति॒ष्ठायां॑ ऋतुपा॒त्रे, इति॑ ।
सोमग्रहणसाधनत्वेन यज्ञनिर्वाहकाणां पात्राणां संख्याविशेषों
निर्मातृविशेषो निर्माणसाधनं चेति त्रयं ब्रह्मवादिनां प्रश्नेनाभिज्ञपुरुषोत्तरेण
च निर्णीतम् । प्रजापतिः स्वशरीरान्निरमिमीतेति । सामान्येनोक्तस्य
प्राणापानाभ्यामित्यादिना विशेषः कथितः । तत्र प्राणवायोरुपांशुपात्रं
निर्मितम् । अपानवायोरन्तर्यामपात्रम् । व्यानवायोरुपांशुसवनाख्यः
पाषाणः वागिन्द्रियादैन्द्रवायवपात्रम् । दक्ष उत्साहः । क्रतुः संकल्पः
ताभ्यां मैत्रावरुणपात्रम् । श्रोत्रादाश्विनपात्रम् ।
चक्षुरिन्द्रियाच्छुक्रामन्थिपात्रद्वयम् । आत्मनो मध्यशरीरादाग्रयणपात्रम् ।
अङ्गेभ्यो हस्तपादादिभ्य उक्थपात्रम् । स्वकीयादायुष्याद्दार्ढ्यध्रुवपात्रम् ।
प्रतिष्ठाहेतुभ्यां पादाभ्यामृतुपात्रद्वयम् । प्रजापतेः सत्यं संकल्पत्वा
दिंदमेतस्माज्जायतामिति संकल्पमात्रेण तथैव जायते । यस्मादत्र
प्राणादिभ्य एतानि निष्पन्नानि तस्मात्तत्तन्मन्त्रेष्वनेनैव क्रमेण प्राणादय एव
दृश्यन्ते । तथा च ग्रहाभिवीक्षणमन्त्रा एवमाम्नायन्ते-"प्राणाय मे वर्चोदा
वर्चसे पवस्वापानाय व्यानाय वाचे दक्षक्रतुभ्याम्" इत्याद्याः।
सवनीयपुरोडाशान्प्रशंसति-
य॒ज्ञं वाव तं प्र॒जाप॑ति॒र्निर॑मिमीत । स निर्मि॑तो नाध्रियत॒
सम॑व्लीयत । स ए॒तान्प्र॒जाप॑तिर्पिवा॒पान॑पश्यत् ।
तान्निर्व॑पत् तैर्वे स य॒ज्ञमप्य॑वपत् । यद॑पिवा॒पा भव॑न्ति ।
य॒ज्ञस्य॒ धृत्यै॒ असं॑व्लयाय (२), इति॑ ।
उपाँ॒श्वन्त॑र्या॒मौ निर॑मिमीतामिमीत॒ षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
यथोक्तग्रहपात्रसाध्यः प्रजापतिनिर्मितः स सोमयज्ञो दृढो नाभवत्,
किंतु विशीर्णोऽभूत् । अतस्तद्दार्यहेतूनपिवापान्सवनीयपुरोडाशान्दृष्ट्वा
तन्निर्वापेण तं यज्ञमप्यवपद् दृढीचकार । अतोऽन्यस्यापि तन्निर्वापो

चतुर्थोऽनुवाकः ॥ ४ ॥

तैत्तिरीयब्राह्मणम् (१.५.५) २३५
यज्ञस्य दाढर्याय विशरणाभावाय भवति । सोमप्रकरणे षष्ठकाण्डे
“प्राण्यानि पात्राणि युज्यन्ते” इत्यनुवाके पात्रस्तुतिस्तस्मादनुसवनं
पुरोडाशा निरुप्यन्त इति निर्वापविधिश्चाऽऽम्नातः । अतस्तच्छेषोऽ
यमनुवाको द्रष्टव्यः ।
इति श्रीमत्सायणाचार्यवरचित माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे पञ्चमप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमप्रपाठके पञ्चमोऽनुवाकः ।
ऋ॒तमे॒व प॑रमे॒ष्ठि । ऋ॒तं नात्ये॑ति॒ किंच॑न । ऋ॒ते स॒मुद्र
अ॒भिहि॑तः। ऋ॒ते भूमि॑रि॒यँ श्रि॒ता । अ॒ग्निस्ति॒ग्मेन॑
शो॒चिषा॑ । तप॒ आक्रा॑न्तमु॒ष्णिहा॑ । शिर॑स्तप॒स्याहि॑तम् ।
वै॒श्वान॒रस्य॑ ते॒जसा॑ । ऋ॒तेना॑स्य॒ निर्व॑र्तये । स॒त्येन॑
प॒रिव॑र्तये (१) तप॑सा॒ऽस्यानु॑वर्तये । शि॒वेना॒स्योप॑वर्तये
श॒ग्मना॑स्या॒भिव॑र्तये । तदृ॒तं तत्स॒त्यम् । तद्व्र॒तं
तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यास॒म्, इति॑ ।
चतुर्थे सोमगणभूता पात्रस्तुतिरुक्ता । पञ्चमे चातुर्मास्यशेषा
वपनमन्त्रा उच्यन्ते । तत्र वैश्वदेवस्यानुष्ठानान्ते यद्वपनं तत्राऽऽ
द्यान्मन्त्रान्सूत्रकारो विनियुङ्क्ते-“त्रेण्या शलल्येक्षुकाण्डेनेक्षुशलाकया
लौहेन च क्षुरेणौदुम्बरेण च कशान्निर्वर्तयते वापयते श्मश्रूणि “ऋतमेव
परमेष्ठि, ऋतं नात्येति किंचन, ऋते समुद्र आहितः, ऋते भूमिरियँ श्रिता,
अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं
वैश्वानरस्य तेजसा ऋतेनास्य निर्वर्तये सत्येन परिवर्तये
तपसाऽस्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तये' इति निर्वर्तयत
इति, 'तदृतं तत्सत्यं तद् व्रतं तच्छकेयं तेन शकेयं तेन राध्यासम्' इति
यजमानो जपति” इति । सूत्रगतत्रेण्यादिशब्दार्थ उपरितनानुवाके
व्याख्यास्यते । ऋतमेवेत्यादिशग्मेनास्याभिवर्तये इत्यन्ता मन्त्राः
केशनिवर्तने विनियुक्ताः । तद् व्रतमित्यादि यजमानजपे । ऋतं सत्यवदनं
तदेव परमेष्टि जगत्स्रष्टुः प्रजापतेःस्वरूपम् । तस्माल्लोके किंचन
वस्तुजातमतिक्रमितुं न भवति । तत्कथमिति तदेवोच्यते । योऽयं समुद्रो
जलराशिरत्युन्नतः सोऽप्यृते समाहितः । प्रजापतिर्वेलां कृत्वा तामिमां
नातिक्राम त्वमिति समुद्रमुवाच । स तस्मिन्नेव सत्यवाक्ये तथैव
व्यवस्थितः । समुन्नतोऽपि जलराशिर्वेलामुल्लङ्घ्यभूमिं न प्लावयति ॥

तथा खदमन्तरेण सर्वान्प्राणिनो धारयेति प्रजापतिनोक्ते सत्यवाक्ये
भूमिरियमाश्रिता वर्तते । तथा प्रजापतेः सत्यवाक्येनैवायमग्निस्तिग्मेन
शोचिषा तीक्ष्णेन रश्मिना युक्तो वर्तते । तथा प्रजापतिवाक्येन सत्येन
महर्षिभिस्तप्यमानं तप उष्णहादिच्छन्दोविशेषयुक्तेन मन्त्रेणाऽऽक्रान्तम् ।
तपस्यमाना हि च्छन्दोयुक्तान्मन्त्रान्नपन्ति । तथा प्रजापतिसत्यवाक्यादेव
यजमानाः शिरोमुण्डनादिलक्षणे तपसि व्यवस्थिताः । तस्माद्वैश्वानरस्य
स्वामिनः प्रजापतेस्तेजसर्तॆनास्य यजमानस्य कशान्निवर्तये निवृत्तान्क-
रोमि । सत्येन तदीयेन परिवर्तये परितः परित्यक्तान्करोमि । मानसमृतं
वाचिकं सत्यमिति तद्द्भिदः। तथाऽस्य यजमानस्य तपसा
निमित्तभूतेनानुवर्तये केशाननुकूलान्करोमि । शिवेन शान्तेन
प्रजापतिसत्यवाक्येनास्य केशानुपवर्तते समीपे केशमूले क्षुरस्य वर्तनं
कुर्वे । शग्मेन सुखप्रापकेण प्रजापतेः सत्यवाक्येनास्य
केशानभिवर्तयेऽभितः क्षुरं व्यापारयामि । सोऽयमध्वर्योर्वपनमन्त्रः । अथ
यजमानस्य जपमन्त्रः । तत्प्रजापतेर्ऋतं मानसं तच्च वाचिकं सत्यं
तदनेनानुष्ठेयं तद् व्रतं कर्मलक्षणं तत्सर्वं संपादयितुं शकेयं शक्तो
भूयासम् । तेन प्रजापतिसत्येनैव शकेयं भूयासं व्रतेन कर्मणा-राध्यासं
समृद्धो भूयासम् ।
· अथ वरुणप्रघासपर्वानन्तरभाविवपनमन्त्रौ-
यद्धर्मः॒ पर्य॑वर्तयत् । अन्ता॑न्पृथि॒व्यादि॒वः । अ॒ग्निरी॑शा॒न
ओज॑सा । वरु॑णो धी॒तिभिः॒ सह॑ (२), । इन्द्रो॑ म॒रुद्भिः॑ ।
सखि॑भिः॒, स॒ह, इति ।
कल्पः-‘‘अत्र पौर्णमास्येष्टोन्दनादिपूर्ववन्निवर्तनं सर्वं वा वापयेत् ।
मन्त्रादिर्विक्रियते-यद्धर्मः पर्यवर्तयदन्तान्पृथिव्या दिवः, अग्नीरीशान
ओजसा, वरुणो धीतिभिः, सह, इन्द्रो मरुद्भिः, सखिभिः सहन्यग्निस्तिग्मे ,
नेत्यादि समानमिति । घर्मो दीप्यमानों य आदित्यॊऽस्ति सोऽयं पृथिव्यां
दिवश्चान्त-प्रजापतिसत्यवाक्येनैव पर्यवर्तयत्परितः प्रकाशितवान् ।
अग्निश्चौजसा तेजोबलेनेशानः सर्वं दग्धुं प्रभुर्भवति । वरुणश्च
धीतिभिर्बुद्धिविशेषैः सह स्वव्यापार प्रभवति । इन्द्रश्च मरुद्भिः । वरुणश्च
धीतिभिर्बुद्धिविशेषैः सह स्वव्यापारं प्रभवति । मरुद्भिः स्वकीयैः
सखिभिः सह प्रजापतिसत्यवाक्येन स्वव्यापारं प्रभुर्भवति ।
एतावन्पूर्वस्मान्मन्त्राद्विशेषः । अवशिष्टस्तु समानः ।
तस्यावशिष्टस्य पाठस्तु-
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॑ आक्रां॒तमु॒ष्णिहा॑ ।
शिर॑स्तप॒स्याहि॑तम् । वै॒श्वा॒न॒रस्य॑ तेर्ज॑सा । ऋ॒तेना॑स्य॒

तैत्तिरीयब्राह्मणम् (१.५.५) २३७

नि॒वर्त॑ये । स॒त्येन॑ परि॑वर्तये । तप॑साऽस्या॒नु॑वर्तये ।
शि॒वेना॑स्योप॑वर्तये । श॒ग्मेना॑स्या॒भिव॑र्तये (३)। तदृ॒तं
तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑
राध्यासम्, इति ।
पूर्ववद्व्याख्येयम् । पूर्ववद्वैश्वदेवान्ते श्मश्रूणामेव वपनं केशानां
तु कर्तनम् । इह तु केशानां वपनकर्तने विकल्पिते ।
अथ साकमेधपर्वानन्तरभाविवपनमन्त्रौ-
यो अ॑स्याः पृ॑थि॒व्यास्त्व॒चि । नि॒वर्त॑यत्योष॑धीः ।
अ॒ग्निरीशा॑न॒ ओज॑सा । वरु॑णो धी॒तिभिः॑ स॒ह । इन्द्रो॑
म॒रुद्भिः॒ सखि॑भिः स॒ह ।
कल्प-“पौर्णमास्येष्टोन्दनादिपूर्ववन्निवर्तनं सर्वं वा वापयेत् ।
मन्त्रादिर्विक्रियते-यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीरग्निरीशान
ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेनेति
समानम्” इति । य आदित्योऽस्ति सोऽयं प्रजापतिसत्यवाक्येनास्याः
पृथिव्यास्त्वच्युपरिभाग ओषधीर्निवर्तयति परिवापयति । अग्निरीशान
इत्यादि पूर्ववद्व्याख्येयम् ।
मन्त्रस्तु-
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॑ आक्रांन्तमुष्णिहा॑ (४)
शिर॒स्तप॑स्याहि॑तम् । वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒
नि॒वर्त॑ये । स॒त्येन॑ परि॑वर्तये । तप॑साऽस्या॒नु॑वर्तये ।
शि॒वेना॑स्योप॑वर्तये । श॒ग्मेना॑स्या॒भिव॑र्तये तदृ॒तं तत्स॒त्यम् ।
तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम् (५),
इति ।
पूर्ववद्व्याख्येयम् ।
अथ शुनासीरीयपर्वान्तरं क्षौरमन्त्रौ-
एकं॒ मास॒मुद॑सृजत् । प॒र॒मे॒ष्ठी प्र॒जाभ्यः॑ । तेना॑ऽऽभ्यो॒ मह॒

२३८ (१.५.५) तैत्तिरीयब्राह्मणम्
आवह॑त् । अ॒मृतं॒ मर्त्ये॑भ्यः । प्र॒जामनु॑ प्र॒जाय॑से । तदु॑ ते
मर्त्या॒मृतम्॑ । येन॒ मासा॑ अर्धमा॒साः ऋ॒तवः॑ परिवत्स॒राः ।
येन॒ तेतें प्रजापते । ई॒जा॒नस्य॒ न्यव॑र्तयन् (६)। तेना॒हम॒स्य॒
ब्रह्म॑णा । निर्व॑र्तयामि जी॒वसै॑ ।
कल्पः-“अत्र पौर्णमास्येष्टोन्दनादि पूर्ववन्निवर्तनं सर्वं वा वापयेत्
मन्त्रादिर्विक्रियतएकंमासमुदसृजतपरमेष्ठी प्रजाभ्यस्तेनाऽऽभ्यो मह
आवहदमृतं मर्त्याभ्यः प्रजामनुप्रजायसे तदु ते मर्त्यामृतं येन मासा
अर्धमासा ऋतवः परिवत्सरा येन ते ते प्रजापत ईजानस्य न्यवर्तयन् ।
तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसे, इत्यग्निस्तिग्मेन शोचिषेति
समानम्” इति । परमेष्ठी प्रजापतिरेकं मासं मासोपलक्षितं
चातुर्मास्यानुष्ठानयोग्यकालमुदसृजदुत्कर्षेण सृष्टवान् । मर्त्याभ्यो
मनुष्यरूपाभ्य आभ्यो जगति दृश्यमानाभ्यः प्रजाभ्यस्तेन
चातुर्मास्यानुष्ठानयोग्यकालेन महो महदमृतमविना
शिफलमावहत्सम्पादितवान् । तच्च फलं पूर्वप्रपाठके चातुर्मास्यस्याजिनो
मरणाविचारं निर्णीतम् । सूत्रकारेणाप्येतदेवाभिप्रेत्योक्तम्--“अक्षय्यं ह
वै चातुर्मास्ययाजिनः सुकृतं भवति” इति । हे मर्त्य मनुष्यरूप यजमान
प्रजां पुत्रपौत्रादिरूपामनुप्रजायसेऽनुक्रमेणोत्पादयसि । तदु तदेव
पुत्रपौत्रादिरूपेणावस्थानं ते तव चामृतमविनाशिफलं मर्त्यत्वादेतस्य
शरीरस्य नाशेऽपि पुत्रपौत्रादिसंततेरविच्छेदनाद्येन मन्त्रसामर्थ्येन
मासार्धमासर्तुसंवत्सरविशेषाः । स्वोचितकार्यकारिणः प्रवर्तन्ते ।
प्रजापतेः पुत्रपौत्रादिस्वरूपाणां प्रजानां पालक यजमान, ईजानस्य यागं
कृतवतस्ते तव मासादिकास्ते कालविशेषा येनं मन्त्रेण न्यवर्तयन्निरन्तरं
संपादितास्तेन ब्रह्मणा मन्त्रेणाहमध्वर्युंरस्य यजमानस्य जीवसे जीवनाय
निवर्तयामि कृन्तनेन केशान्निवृत्तान्करोमि । एतावानत्र मन्त्रविशेषः ।
अवशिष्टस्तु समानः । तत्पाठस्तु-
अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॑ । तप॒ आक्रा॑न्तमुष्णि॒हा ।
शिर॒स्तपु॑स्याहि॑तम् वै॒श्वा॒न॒रस्य॒ तेज॑सा । ऋ॒तेना॑स्य॒
निर्व॑र्तये । स॒त्येन॒ परि॑वर्तये । तप॑सा॒ऽस्यानु॑वर्तये ।
शि॒वेना॒स्योप॑वर्तये । शु॒ग्मेना॒स्याभि॑वर्तये । तदृ॒तं
तत्स॒त्यम् । तद् व्र॒तं तच्छ॑केयम् । तेन॑ शकेयं॒ तेन॑ राध्यासम्
(७), इति ।

तैत्तिरीयब्राह्मणम् (१.५.६) २३९
परि॑वर्तये॒ सहा॒भिर्व॑र्तय उ॒ष्णिहा॑ राध्यासं॒ न्यर्व॑र्तयन्नुप॑वर्तये चत्वारि॑
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये पञ्चमोऽनुवाकः ॥ ४ ॥
पूर्ववद्व्याख्येयम् । अथवा क्षुरपरत्वेन योजनीयम् ।
अग्निसमानोऽयं क्षुरः । स तीक्ष्णेन दीप्तिममानेन धाराग्रेण सह वर्तते ।
उष्णिहा छन्दः समानसामर्थ्ययुक्तेन क्षुरेण वपनरूपं तप आक्रान्तं प्रारब्धं
यजमानस्य शिरस्तस्मिन्वपनरूपे तपस्याहितं समर्पितम् ।
वैश्वानरसमानस्य क्षुरस्य तेज परिमाणेन ऋतेनावश्यंभाविव्यापारेणास्य
यजमानस्य केशान्निवर्तये निवृत्तान्करोमि । निवृत्तिप्रकारविशेषा एव
परिवर्तनानुवर्तनोपवर्तनाभिवर्तनशब्दैरूच्यन्ते । तृतीयान्तैः क्षुर एव
विशिष्यते । यजमानमन्त्रस्त्वेवं व्याख्येयः । यदेतत्केश कृन्तनं तदेव
वाचिकमानससत्यरूपमनुष्ठीयमानवपनरूपं तत्कृन्तनं संपादयितुं
शक्नोमि । तेन च कृन्तनेन कर्म साङ्गं कर्तुं शक्नोमि । फलेन च समृद्धो
भूयासमिति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अथ पञ्चमप्रपाठके षष्ठोऽनुवाकः ।
पञ्चमे चातुर्मास्ययाजिनां वपनमन्त्रा उक्ताः । षष्ठे तद्विधिरुच्यते ।
तत्राऽऽदावन्वयव्यतिरेकाभ्यां वपनक्रमं विधत्ते-
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत । तत्सु॑रा अकुर्वत । तेऽ सू॑रा ऊ॒र्ध्वं
पृ॒ष्ठेभ्यो॒ नार्प॑श्यन् । ते केशा॒नग्रै॑ऽवपन्त । अथ॒ श्मश्रू॑णि ।
अथोप॑प॒क्षौ । तत्स्तेऽवा॑ञ्च आयन । परा॑भव॒न् यस्यै॒वं
वप॑न्ति । अवा॑ङेति (१) । अथो॒ परै॑व भ॑वति । अथ॑ दे॒वा
ऊ॒र्ध्वं पृ॒ष्ठेभ्यो॑ऽपश्यन् । त उ॑पप॒क्षावग्रै॑ऽवपन्त । अथ॑
श्मश्रू॑णि । अथ॒ केशा॑न् । तत्स्तेऽभवन् । सु॒वर्गं॑
लो॒कमा॑यन् । यस्यै॒वं वप॑न्ति । भव॑त्यात्मना॑ । अथो॑ सु॒वर्गं॑
लो॒कमे॑ति (२), इति ।
देवैर्यद्यदङ्गं यज्ञेऽनुष्ठितं तत्तदङ्गमसुरास्तथैवान्वतिष्ठन् । वपने तु

२४० (१.५.६) तैत्तिरीयब्राह्मणम्
स्वबुद्ध्यैव प्रवृत्ताः । पृष्ठशब्देन तत्समीपवर्तिनौ कक्षावुपलक्ष्येते । ते
सर्वेऽप्यसुराः स्वकीयान्कक्षानारभ्योर्ध्वं वपनं कर्तव्यमिति शास्त्रार्थं
नापश्यन्नाज्ञासिषुः । अज्ञात्वा च केशश्मश्रूपपक्षक्रमेणाधोमुखप्रवृत्तं वपनं
कृत्वा स्वयमवाञ्चो नीचा भूत्वा लोके समागत्य पराभूताः। एवमन्योऽपि
नीचो भूत्वा लोके समागत्य पराभवति । देवास्तु कक्षेभ्य ऊर्ध्वक्रमं ज्ञात्वा
कक्षश्मश्रुकेशक्रमेण वपनं कृत्वा लोकेऽस्मिन्नैश्वर्यं प्राप्ता ऊर्ध्वक्रमेण
स्वर्गं च प्राप्नुवन् । अन्योऽप्येवं कृत्वाऽत्र स्वयमेव प्रभुर्भवति स्वर्गं च
प्राप्नोति ।
ऊर्ध्वक्रमेण सह विकल्पार्थं क्रमान्तरं विधत्ते-
अ॒थैतन्मनु॑र्वृ॒त्रे मि॑थु॒नम॑पश्यत् । स श्मश्रूण्यग्रे॑ऽवपत ।
अथोपप॒क्षौ । अथ॒ केशान्॑ । ततो॒ वै स प्राजा॑यत प्र॒जया॑
प॒शुभि॑:। यस्यै॒वं वप॑न्ति । प्र प्र॒जया॑
प॒शुभि॑र्मिथु॒नैर्जा॑यते, इति ।
वप्त्रे यो वप्ताऽध्वर्युस्तदर्थं तस्यानुष्ठानाथं तन्मिथुनमूर्ध्वमवाञ्चं
चेति द्विविधं वनप्रकारं मनुरपश्यत् । दृष्ट्वा च मध्यवर्तीति
श्मश्रूण्यादावुप्त्वा ततोऽधोवर्तिनोः कक्षयोर्वपनंकृत्वा पश्चात्तदूर्ध्ववर्तिनां
केशानां वपनं चकार । ततस्तादृशाद्वपनात्स मनुः प्रजया पशुभिश्च
प्रभूतोऽप्येवं कृत्वा मनुष्यमिथुनैः पशुमिथुनैश्च प्रभूतो भवति ।
तदेतद्वपनं प्रशंसति-
दे॒वा॒सु॒राः संय॑त्ता आसन् । ते सं॑वत्स॒रे व्या॑र्यच्छन्त !
तान्दे॒वाश्चा॑तुर्मा॒स्यैरैवा॒भिप्रा॑युञ्जत (३) । वै॒श्व॒दे॒वेन॑ च॒तुर॑
मा॒सोऽवृ॑ञ्जतेन्द्र॑रा॒जानः॑। ताञ्छी॒र्षन्नि चार्व॑र्तयन्त॒ परि॑ च ।
व॒रु॒ण॒प्र॒घा॒सैश्च॒तुरो॑ मा॒सोऽवृ॑ञ्जत॒ वरु॑णराजानः। ताञ्छी॒र्ष
न्नि चार्व॑र्तयन्त॒ परि॑ च । सा॒क॒मे॒धैश्च॒तुरो॑ मा॒सोऽवृ॑ञ्जत॒
सोम॑राजानः । ताञ्छी॒र्षन्नि चार्व॑र्तयन्त॒ परि॑ च । या
सं॑वत्स॒र उ॑पजी॒वाऽऽसी॑त् । तामे॑षामवृञ्जत । ततो॑ दे॒वा
अभ॑वन् । पराऽसु॑राः(४) । य ए॒वं वि॒द्वांश्चा॑तुर्मा॒स्यैर्यज॑ते ।
भ्रातृ॑व्यस्यै॒व मा॒सोऽवृ॑ङ्क्त । शी॒र्षन्नि च॑ वर्तय॑ते॒ परि॑ च ।

तैत्तिरीयब्राह्मणम् (१.५.६) २४१
यैषा सं॑वं॒त्स॒र उप॑जी॒वा । वृ॒ङ्क्ते तां भ्रातृ॑व्यस्य। क्षुधा॑ऽस्य॒
भ्रातृ॑व्यः॒ परा॑भवति, इति ।
देवाश्चासुराश्च युद्धोद्युक्ताः सन्तः संवत्सरानुष्ठानसाध्ये फले
व्यायच्छन्त विरोधमारभन्त । अस्माकमेवेदं फलं भवत्विति परस्परं कलहं
कृतवन्तः। तदानीं तानसुरानभिलक्ष्य फलं वारयितुं चातुर्मास्यैरेवानुष्ठानं
कृतवन्तः । तेषु च देवेषु त्रयो व्यूहाः । इन्द्रस्वामिक एकोव्यूहः ।
वरुणस्वामिको द्वितीयः । सोमस्वामिकस्तृतीयः । तत्रेन्द्रस्वामिका देवा
वैश्वदेवेन पर्वणा चतुरो मासानसुरसंबन्धिना विनाशितवन्तः ।
विनाशितानैव तन्मासानभिलक्ष्य ताञ्चशीर्षस्वकीये शिरसि निवर्तनं च
परिवर्तनं च कृतवन्तः । वपनीयानां केशानां
स्थापनीयेभ्यःशिखागतकेशेभ्यः पृथक्करणं निवर्तनम् । पृथक्कृतानां वपनं
परिवर्तनम् । एवमुत्तरव्यूहद्वयेऽपि योजनीयम् । एवं
त्रिविधमासचतुष्टयानुष्ठानेनैकस्मिन्संवत्सरे तैरसुरैरुपजीवनाय या धनादि
संपत्संपादिता तेषामसुराणां तां संपदं विनाशितवन्तः । ततो देवाः संपन्ना
अभवन् । असुराश्च पराभूताः । एवं ज्ञात्वा चातुर्मास्यानुष्ठानेन
भ्रातृव्यसंबन्धिनो मासान्विनाश्य तद्विनाशनार्थं स्वशिरसि
निवर्तनपरिवर्तनं कृत्वा वैरिणः संवत्सरोपजीव्यां संपदं
सम्यग्विनाशयति । स च शत्रुरन्नाभावेन क्षुत्पीडितो भवति ।
अथ वपनसाधनं विधत्ते-
लो॒हि॒ता॒य॒सेन॑ नि॒वर्त॑यते । यद्वा इ॒माम॒ग्निरृ॑तावाग॒ते
नि॒वर्त॑यति । ए॒तद्दे॒वैनाँ॑ रू॒पं कृ॒त्वा नि॒वर्त॑यति । सा त॒तः॑
श्वः॒ श्वो॒ भूय॑सी॒ भव॑न्त्येति (५) । प्र॒जा॑यते । य ए॒वं
वि॒द्वाँल्लो॑हि॒ताय॑सेन नि॒वर्त॑यते । ए॒तद्दे॒व रू॒पं कृ॒त्वा
नि॒वर्त॑यते । स त॒तः॑ श्वः॒ श्वो॒ भूया॑न्भव॒न्नेति॑ । प्रैव जा॑यते,
इति ।
अयसा निर्मितः क्षुर आयसः । स च लोहितस्ताम्रमिश्रेणायसा
निर्मितत्वात् । तादृशेन क्षुरेण केशान्निवर्तयेद्वपनं कुर्यादित्यर्थः । लोके
संचरन्दावाग्निरृतौ धर्मकालरूपे समागते सति यदेवोग्ररूपं धृत्वेमां भूमिं
निवर्तयति शुष्कजलाशयां शातितपलाशपादपां लूनधान्यां मुण्डितामिव
करोति तदानीमग्निरेतदेव लोहितक्षुरसमानरूपं कृत्वेमां
निवृत्तजलादियुक्तां करोति । सा च भूमिर्दग्धतृणा सती तत ऊर्ध्वं-

२४२ (१.५.६) तैत्तिरीयब्राह्मणम्
मुत्तरोत्तरदिवसं भूयसी भवन्ती प्रजायते वर्धमाना सती
तृणादिकमुत्पादयति । एवमन्योऽपि लोहितायसेनक्षुरेण वपनं
प्राप्नुवन्नग्निसमानरूपं तस्य कृत्वा वपनं प्राप्नोति । स च तत ऊर्ध्वं
धनादिभिः समृद्धो भवँल्लोकं संचरति प्रजाश्चोत्पादयति ।
वपनीयानामितरेषां च केशानां विभागकरणे साधनं विधत्ते-
त्रे॒ण्या श॑ल॒ल्या नि॑वर्तयते । त्रीणि॒ त्रीणि॒ वै
दे॒वाना॒मृद्धा॑नि । त्रीणि॒ च्छन्दाँ॑सि॒ त्रीणि॒ सव॑नानि । त्रय॑
इ॒मे लो॒काः (६) । ऋ॒द्ध्यामे॒व तद्वीर्य॑ ए॒षु लो॒केषु॑
प्रति॑तिष्ठति, इति ।
तिस्र एण्यः श्वेतराजयो यस्याः शलल्याः सा त्रेणी । शललीशब्देन
शललाख्यस्य क्षुद्रमृगस्य पुच्छभागवर्ती तीक्ष्णाग्रलोहशलाकादृशो
रोमविशेष उच्यते । तया श्वेतराजित्रययुक्तया शलल्या
वपनीयान्केशानितरेभ्यः पृथक्कुर्यात् । यच्च श्वेतराजित्रयं प्रशस्तम् । यतो
देवानां संबन्धीनि समृद्धवस्तूनि प्रत्येकं त्रिसंख्यायुक्तानि दृश्यन्ते ।
गायत्री त्रिष्टुब्जगतीत्येतानि च्छन्दांसि त्रिसंख्याकानि ।
प्रातर्माध्यन्दिनतृतीयाख्यानि सवनानि च त्रिसंख्याकानि । लोकाश्च
त्रिसंख्याकाः । अतो राजित्रययोगे सति देवसंबन्धिन्यां समृद्धौ वीर्ये
लोकत्रये च प्रतितिष्ठति ।
वपनक्रमं साधनं च विधाय वपनं विधत्ते-
यच्चातु॑र्मास्यया॒ज्यात्मनो॒ नाव॑द्ये॒त् ।। दे॒वेभ्य॒ आवृ॑श्च्येत॒ ।
च॒तृषुँ॑र्चतृषु मासे॑षु॒ निर्व॑र्तयेत । प॒रोक्ष॑मे॒व तद्दे॒वेभ्य॑
आ॒त्मनो॒ऽव॑द्यत्यनार्त्रस्काय, इति ।
चातुर्मास्ययाजी स्वशरीराशं यदि देवेभ्यो नावद्येत्तदा देवेभ्यो
विच्छिद्येत । अतो विच्छेदाभावाय तदा तदा मासचतुष्टये वपनं कुर्यात् ।
तथा सति वपनव्यवधानेन स्वशरीरावदानमेव देवार्थं करोति ।
तच्चाविच्छेदाय भवति ।
तदेतद्व्रतं प्रशंसति-
दे॒वानां॒ वा ए॒ष आनी॑तः । यश्चातु॑र्मास्यया॒जी । य ए॒वं

तैत्तिरीयब्राह्मणम् (१.५.७) २४३
वि॒द्वान्नि च॑ वर्त॒यते॒ परि॑ च । दे॒वता॑ ए॒वाप्ये॑ति । नास्य॑ ·
रु॒द्रः प्र॒जां प॒शून॒भिर्म॑न्यते (७), इति
ए॒त्येत्य॒युञ्ज॒तासु॑र॒ एति॑ लो॒का मं॑न्यते ।
इति कृष्णयजुर्वेदीयैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
योऽयं चातुर्मास्ययाजी स एष देवानां स्वभूतः सँल्लंके समानीतः ।
तस्मा देवं विद्वान्पुरुषः शलल्या केशान्पृथक्कुर्यात् । लोहितायसेन
वपेच्च । स देवता एव प्राप्नोति । अस्य प्रजां पशून् रुद्रो न हिनस्ति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके षष्ठोऽनुवाकः ॥ ६ ॥
अथ पञ्चमप्रपाठके सप्तमोऽनुवाकः ।
षष्ठे चातुर्मास्यशेषो वपनविधिरुक्तः । सप्तमे त्वग्निचयनशेषा
इष्टकोपधान मन्त्रा उच्यन्ते । “प्राची दिशाम्” इत्यादिभिर्मन्त्रैर्या अपानभृत
इष्टका उक्तास्तदुपधानादूर्ध्वं “आयुषः” इत्यादिभिर्मन्त्रैर्द्वादशसंतत्याख्या
इष्टका उपधेयाः । तन्मन्त्रपाठस्तु-
आयु॑षः प्रा॒णं संत॑नु । प्रा॒णाद॑पा॒नं संत॑नु । अ॒पा॒नाद्व्या॒नं ँ
संत॑नु । व्या॒नाच्चक्षु॑: संत॑नु । चक्षु॑षः॒ श्रोत्रं॑ ँ संत॑नु ।
श्रोत्रा॒न्मन॑: संत॑नु । मन॑सो॒ वाचँ॑ संत॑नु । वाच॑ आ॒त्मानं॒ ँ
संत॑नु । आ॒त्मन॑: पृथि॒वी ँ संत॑नु । पृथि॒व्या अ॒न्तरि॑क्षं ँ
संत॑नु । अ॒न्तरि॑क्षाद्दि॒वं ँ संत॑नु । दि॒वः सुव॑: संत॑नु (१),
· इति ।
पृथि॒व्या अ॒न्तरि॑क्षं॒ संत॑नु॒ द्वे च॑ ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये सप्तमोऽनुवाकः ।। ७ ।।
: हे इष्टक आयुष्यप्राणयोः परस्परं संततमविच्छेदं कुरु । आयुष इति
तृतीयार्थे पञ्चमी । आयुषा सह प्राणं संयोजयेत्यर्थः । एवमुत्तरत्रापि
योज्यम् । आत्मा परो जीवो वा । द्यौर्द्युलोकः । सुवःशब्देन तत्रत्यो
भोगस्थानविशेष उच्यते ।

२४४ (१.५.८) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके सप्तमोऽनुवाकः ॥ ७ ॥
अथ पञ्चमप्रपाठकेऽष्टमोऽनुवाकः ।
सप्तमे संतत्याख्येष्टकामन्त्रा उक्ताः । अष्टमेऽथर्वशिरोभिधाना
नामिष्टकानां दशानां मन्त्रा उच्यन्ते । ताश्चेष्टकाः “प्राच्या त्वा दिशा
सादयामि” इत्येतैर्मन्त्रैरुपधेयाभ्य इष्टकाभ्य ऊर्ध्वं पञ्चम्यां
चितावुपधेयाः । तत्र प्रथमामृचमाह-
इन्द्रो॑ द॒धीचो॒ अस्थ॑भिः । वृ॒त्राण्यप्र॑तिष्कुतः । ज॒घान॑
नव॒तीर्नव॑, इति ।
अथर्वणः पुत्रः कश्चिदर्षिर्दध्यङ्नामा । तस्य यान्यस्थीनि
वज्रसमानि तैरस्थिभिर्वृत्राणि निवारकाणि परबलानि जघान । कीदृश
इन्द्रः । अप्रतिष्कुतः प्रतिकूलो भूत्वा कुतोऽ यमित्येवं निराकर्ता वैरी
यस्यासौ प्रतिष्कुस्तथाविधशत्रुरहित्यादयमप्रतिष्कुतः । कियन्ति वृत्राणि
नवसंख्याका नवतीर्दशाधिकान्यष्टशतानीत्यर्थः । हे इष्टके
तथाविधेन्द्ररूपा त्वमसि तादृशमिन्द्रस्त्वामुपदधात्विति
वाऽध्याहर्तव्यम् ।
अथ द्वितीयामाह-
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॑ । पर्व॑ते॒ष्वप॑श्रितम् .
तद्वि॑दच्छर्य॒णाव॑ति, इति ।
अग्नि कदाचिदश्वो भूत्वा देवेभ्योऽपक्रम्य पर्वतेषु निलीनः ।
तदानीमयमिन्द्रस्तस्याश्वस्य यच्छिरो द्रष्टुमिच्छन्पर्वतेषु चचार तदानीं
पर्वतेष्वाश्रितं तदश्वस्य शिरः शर्यणावन्नामके कस्मिंश्चित्पर्वते
विदल्लब्धवान् । हे इष्टके त्वं तथाविधाश्वशिरोरूपाऽसि ।
अथ तृतीयामाह-
अत्राह॑ गो॒रम॑न्वत । नाम॒ त्वष्टु॑रपी॒च्य॑म् । इ॒त्था च॒न्द्रम॑सो
गृ॒हे, इति ।
त्वष्टुः सूर्यस्य गोशब्दाभिधेयो रश्मिर्योऽस्ति तस्य नामात्राहास्मिन्ने
वाग्नौ विद्यत इत्येवं यजमाना अमन्वत अग्निं दीप्तं दृष्ट्वा सूर्यरश्मिरित्येव
भावितवन्त इत्यर्थः । कीदृशं रश्मिनाम । अपीच्यमप्यञ्चति पुनः

तैत्तिरीयब्राह्मणम् (१.५.८) २४५
पुनर्गाच्छतीत्यपीच्यम् । यदा वह्निज्वाला तदा तदा सूर्यरश्मिरित्येवं तेषां
निश्चयः । एतच्च युक्तम् । एतस्यैव तेजसो रात्रावग्निप्रवेशस्य दिवसे
सूर्यप्रवेशस्य चाग्निहोत्रब्राह्मणे प्रपञ्चयिष्यमाणत्वात् । इत्था चन्द्रमसो
गृहे । एवमेव चन्द्रमण्डले यो रश्मिस्तन्नामाप्यस्मिन्नेवाग्नौ मन्यन्ते ।
सूर्यरश्मिरेव चन्द्रगतत्वात् । “सुषुम्नः सूर्यरश्मिश्चन्द्रमाः” इति
श्रुत्यन्तरात् । यः सूर्यरश्मिर्यश्च चन्द्ररश्मिस्तदुभयरूपेयमग्निजवालेति
तात्पर्यार्थः । इष्टके तथा विधाग्निरूपा त्वमसि ।
अथ चतुर्थीमाह-
इन्द्र॑मिद्गा॒थिनो॑ बृ॒हत् (१) । इन्द्र॑म॒र्केभि॑र॒र्किणः॑ । इन्द्रं॑
वा॒णी॑रनूषत, इति ।
गाथिनः सामगा इन्द्रमिदिन्द्रमेव बृहद्यथा महद्भवति तथा
गायन्तीति शेषः । अर्किणः शस्त्रिणो होतारः । अर्कैभिरर्चनीयैः
शस्त्रैरिन्द्रं शंसन्तीति शेषः । वाणीर्ध्वन्योर्वाच इन्द्रमनूषत स्तुवन्ति । ह
इष्टके तथाविधेन्द्ररूपा त्वमसि ।
अथ पञ्चमीमाह-
इन्द्र॒ इद्धर्योः॒ सचा॑ । संमि॑श्ल॒ आं वचो॒युजा॑ । इन्द्रो॑ वज्री॑
हिर॑ण्ययः॑, इति ।
हर्योरश्वयोरिन्द्र इदिन्द्र एव सचा सक्तः । संबद्धो हरिद्वययुक्ते
रथेऽवस्थित इत्यर्थः । तथा वचोयुजा नानाविधवाक्यसंदर्भयुक्तेन
स्तोत्रेण, आ समन्तात्संमिश्लः संयुक्तः । स एवेन्द्रो वज्री वज्रहस्त ।
हिरण्ययः सुवर्णाभरणयुक्तः ।
अथ षष्ठीमाह-
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑से । आ सूर्य॑ऽरोह यदि॒वि । वि
गोभि॒रद्रि॑मैरयत्, इति ।
अथेन्द्रो दीर्घाय चक्षसे दूरवर्तिनो दर्शनाय दिवि द्युलोके
सूर्यमारोहयदारोहं कृतवान् । स च सूर्यो गोभी रश्मिभिरद्रिं पर्वतादियुक्तां
भूमिं विशेषणैरयतप्रेरितवान्प्रकाशितवानित्यर्थः ।
अथ सप्तमीमाह-

२४६ (१.५.८) तैत्तिरीयब्राह्मणम्
इन्द्र॒ वाजे॑षु नो अव । स॒हस्रं॑प्रधनेषु च (२) । उ॒ग्र
उ॒ग्राभि॑रू॒तिभि॑ः, इति ।
ह इन्द्र त्वमुग्रः प्रतिकूलनिवारणे तीव्रः । सन्वाजेष्वन्नेषु
सहस्रप्रधनेषु सहस्रसंख्याकेषु प्रकृष्टधनेषु च निमित्तभूतेषूग्राभीरूतिभिः
प्रतिबन्धनिवारणाय तीव्रै रक्षणैर्नोऽस्मानव रक्ष ।
अथाष्टमीमाह-
तमिन्द्रं॑ वाजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑
वृष॒भोऽभु॑वत्, इति ।
तथाविधगुणयुक्तमिन्द्रं वयं वाजयामसि गमयामो भक्त्या प्रेरयाम
इत्यर्थः । किमर्थम् । महे वृत्राय हन्तवे महान्तं पापरूपं वैरिणं हन्तुम् ।
स चेन्द्रो वृषाऽ स्माकं कामानां वर्षयिता सन्वृषभोऽभुवच्छ्रेष्ठो भवतु ।
अथ नवमीमाह-
इन्द्र॑ः स दाम॑ने कृ॒तः । ओजि॑ष्ठः स बले॑ हि॒तः । द्यु॒मनी
श्लो॒की स सौ॒म्यः, इति ।
स तादृश इन्द्रो दामने दामकृत्ये बन्धने कृतः पाशैर्वशीकृत
इत्यर्थः । स चेन्द्र ओजिष्ठोऽतिबलवान् । अत.एव बले हितो बलकृत्ये
वैरि॑विनाशनेऽस्माभिर्भक्त्या प्रेरितः । स चेन्द्रो द्युम्नी धनवान् । श्लोकी
कीर्तिमान् सौम्यो रमणीयः ।
अथ दशमीमाह-
गि॒रा वज्रो॒ न संभृ॑तः । सब॑लो॒ अन॑पच्युतः । व॒व॒क्षुरु॒ग्रो
अस्तृ॑तः (३), इति ।
बृह॒च्चास्तृ॑तः ।
इतिकृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणेप्रथमाष्टके
पञ्चमाध्यायेऽष्टमोऽनुवाकः ॥ ८ ॥
सोऽयमिन्द्रो गिरऽस्मदीयया स्तुतिरूपया वाचा वज्रो न वज्र इव
संभृतः सम्यगस्माभिर्वशीकृतः । सबलो बलेन सैन्येन युक्तः । अनपच्युतः
कदाचिदप्यपलायितः । ववक्षुर्युद्धभारं वोढुमिच्छुः । उग्रः शत्रूणां

तैत्तिरीयब्राह्मणम् (१.५.९) २४७
भयंकरः । अस्तृतः कनाप्यहिंसितः । ह इष्टक ईदृगिन्द्ररूपा त्वमसि ।
ईदृगिन्द्रस्त्वामुपदधात्विति सर्वत्र शेषोऽध्याहर्तव्यः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके- ऽष्टमोऽनुवाकः ॥ ८ ॥
अथ पञ्चमप्रपाठके नवमोऽनुवाकः ।
अष्टमेऽथर्वशिरोभिधानानामिष्टकानां मन्त्रा उक्ताः । नवमे
सोमशेषभूता इष्टयो विधीयन्ते । तत्राऽऽदौ शब्दनिर्वचनेनेष्टीः प्रशंसति-
दे॒वा॒सु॒राः संयं॑त्ता आसन् । स प्र॒जाप॑तिरिन्द्रं॑ज्ये॒ष्ठं
पु॒त्रम॒पर्न्‍य॑धत्त । नेदैन॒मसु॑रा॒ बली॑या ॅ सोऽह॒न्निति॑ ।
प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः । वि॒रोच॑नं॒ स्वं पु॒त्रम॒पर्न्‍य॑धत्त ।
नेदैनं॑ दे॒वा अह॑न्निति॑ । ते दे॒वाः
प्र॒जाप॑तिमुप॒समे॑त्योचुः । नारा॑जक॑स्य यु॒द्धम॑स्ति ।
इन्द्र॑म॒न्विच्छा॒मेति॑ । तं य॒ज्ञक्रतु॑भिर॒न्वैच्छन् (१) । तं
य॒ज्ञक्रतु॑भिर्नान्व॑विन्दन् । तमिष्टि॑भिर॒न्वैच्छन् ।
तमि॒ष्टि॑भिरन्व॑विन्दन् । तदिष्टी॑नामिष्टि॒त्वम् । एष्ट॑यो ह॒
वै नाम॑ । ता इष्ट॑य इत्याच॑क्षते परोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒
हि दे॒वाः, इति ।
देवाश्चासुराश्च यदा युद्धार्थमुद्यतास्तदानीं प्रजापतिः स्वकीयं ज्येष्ठं
पुत्रमिन्द्रं युद्धभूमेरपनीय क्वचिद्गूढे स्थाने निहितवान् ।
तस्याप्ययमभिप्रायः । बलीयांसोऽसुरा एनं दुर्बलमिन्द्रं नेदहन्नैव
घ्नन्त्विति । तथा कयाधुसंज्ञिताया हिरण्यकशिपुभार्यायाः पुत्रः प्रह्लादः
स्वकीयं पुत्रं विरोचनमसुरसैन्यस्वामिनं युद्धभूमेरपनीय
क्वचिनिहितवान् । तस्यायमभिप्रायः । एनं विरोचनं देवाः सर्वथा मा
घ्नन्त्विति । एवं च राजद्वयरहितयोः सेनयोरवस्थितयोः सत्योर्देवाः
प्रजापतिसमीपं प्राप्यैवमूचुः । राजरहितस्य सैन्यस्य न क्वचिदपि
युद्धमस्ति । युयुत्सवः सर्वेऽपि राजानमन्तरेण पलायिष्यन्ते । तस्मादिन्द्रं
राजानं तत्र तत्रान्विच्छाम इत्युक्त्वा प्रजापतिनाऽनुज्ञातास्तमिन्द्रं लब्धुं
ज्योतिष्टोमोक्थ्यादिरूपान्क्रतूननुष्ठितवन्तः । अङ्गभूतेष्टिरहितैस्तैर्महाक्रतु-

भिरिन्द्रमलब्ध्वा तत्र कारणमङ्गेष्टिवैकल्यं निश्चित्य ता इष्टीरनुष्ठाय
ताभिरिष्टिभिरेनं लब्धवन्तः । एवं च सत्यन्वेषणसाधनत्वादिष्टय इत्येतासां
नाम । तथाऽपि मुख्यं नाम गोपयित्वा परोक्षेण तिरोहितेन नाम्ना
व्यवहर्तुमिष्टय इत्याचक्षते । अन्वेषणसाधनत्वमेष्टित्वम् ।
यजनसाधत्वमिष्टित्वम् । अतस्तेन व्यवहारे सति मुख्यं नाम परोक्षं
भवति । देवानां च परोक्षं नाम प्रियम् । अत एव लोकेऽपि देवदत्तादिनाम
परित्यज्याऽऽचार्या उपाध्यायमिश्रा इत्यादिनामभिः पूज्याः परितुष्यन्ति ।
यद्यप्यन्वेषणार्थस्वीकारेऽपीच्छतिधातोः क्तिन्प्रत्यये सति
यजिधातुवदिष्टिरित्येव रूपं संपद्यते । तथाऽप्यौणादिकं
कंचित्ककाररहितं प्रत्ययमभिप्रेत्य रूपमीदृशं श्रुत्या विवक्षितम् ।
याभिरिष्टिभिरिन्द्रमैच्छंस्तासां मध्ये प्रथमामिष्टिं दर्शयति -
तस्मा॑ ए॒तमा॑ग्नावैष्ण॒वमेका॑दशकपालं दीक्षणीयं॑
निर॑वपन् । तद॑पद्रुत्या॑तन्वत । तांत्प॑त्नीसंया॒जान्त॒
उपा॑नयन् (२) । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति ।
तस्मादिन्द्रलाभार्थमग्नाविष्णुदेवताकमेकादशकपालं पुरोडाशयुक्तं
दीक्षणीयाख्यं कर्मानुष्ठितवन्तः । तेषु देवेषु मध्ये
यावद्भिर्देवैर्यजमानेर्ऋत्विग्रूपैः कर्मानुष्ठातुं शक्यते तावन्तो देवाः कृत्स्नं
देवसैन्यसंघादपक्रम्य क्वचिद्देवयजनदेशे तद्दीक्षणीयाख्यं कर्म
विस्तारितवन्तः । तदानीमितरं देवास्तमिन्द्रमन्विष्य तैर्ऋत्विग्भिः
पत्नीसंयाजपर्यन्ते कर्मण्यनुष्ठिते सति तानुष्ठातृन्देवान्प्रति समीपे
समानयन् । ते चर्त्विग्रूपा देवाः स्वप्रयोजनस्य
निष्पन्नत्वात्पत्नीसंयाजान्तमेव तत्कर्म कृत्वा तत्परित्यज्योद्गताः ।
तावताऽपीन्द्रस्थैर्याभावे पुनस्त ऋत्विजः प्रायणी
याख्यामिष्टिं कृतवन्त इत्येतद्दर्शयति-
ते प्राय॑णीयम॒भिस॒मारो॑हन् । तद॑पद्रुत्या॑तन्वत । ताञ्छं॑
य्वन्त॒ उपा॑ऽऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन्, इति ।
अभिसमारोहन्प्रायणीयाख्यं कर्माभिलक्ष्य देवयजनं प्रविष्टाः ।
अन्यत्पूर्ववत् ।
पुनरपीन्द्रस्थैर्यायाऽऽतिथ्याख्यामिष्टिं दर्शयति-