तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
तैत्तिरीयब्राह्मणम् (१.५.९) २४९
त आ॑तिथ्यम॒भिस॒मारोहन् । तद॑प॒द्रुत्या॑तन्वत । तानि
डान्तु उपाऽनयन् । ते तद॑न्तमे॒व कृ॒त्वोद॑द्रवन् । तस्मा॑देता
एतद॑न्ता इष्ट॑यः संति॑ष्ठन्ते (३), इति ।
पत्नीसंयाजानामेकविधत्वान्नास्ति तत्र संदेहः
शंखिडयोर्द्वैविध्यमस्ति । पत्नीसंयाजेभ्यः पूर्वं होत्रा शंयुवाकेऽनूच्यमान
आहवनीये परिधीननुप्रहरति । सोऽयमेकः प्रकारः आश्वलायनस्तु
पत्नीसंयाजानभिधाय तदूर्ध्वं शंयुवाकविकल्पमुदाजहार-“संयुवाको
भवेन्न वा” इति । पुरोडाशेनाऽऽज्येनेत्येवमिडाऽपि द्विविधा । तत्र
पूर्वमिडान्तत्वं द्रष्टव्यम् ।
एवमिष्टीः प्रशस्य तास्तिस्र इष्टीर्विधत्ते-
एवं ँहि दे॒वा अ॑कुर्वत । इति॑ दे॒वा अ॑कुर्वत । इत्यु॒ वै
म॑नु॒ष्या॑: कुर्वते, इति ।
यस्मादेवमुक्तप्रकारेण देवा अकुर्वत तस्मान्मनुष्या अप्यनेनैव
प्रकारेणेष्टीः कुर्युः । मध्ये पठितमिति देवा इति वाक्यं
मनुष्यवक्तृकोऽनुवादः । इति देवा इत्यनेन प्रकारेण कृतवन्त इत्यनूद्य
तत्सर्वं देवानुष्ठितप्रकारं हृदि निधाय पश्चात्तदनुतिष्ठन्ति ।
अथोपसदनुष्ठानप्रकारं विधातुं स्तौति-
ते दे॒वा ऊ॑चुः । यद्वा इ॒दमुच्चैर्य॒ज्ञेन॒ चरा॑म । तन्नो॒ऽसु॑राः
पा॒प्माऽनु॑विन्दन्ति । उपाँ॒शूप॑सदं॑ चराम । तथा॒ नोऽसु॑राः
पा॒प्मा नाऽनु॑ वेत्स्य॒न्तीति॑ । त उपाँ॒शूप॑सद॑मतन्वत । ति॒स्र
ए॒व सा॑मिधे॒नीर॒नूच्य॑ (४) । स्रु॒वेणाऽऽघा॒रमा॒धार्य॑ ।
ति॒स्रः परा॑चीराहुती॒र्हुत्वा॑ । स्रुवेणोप॒सदं॑ जुहु॒वांच॑क्रुः ।
उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॒ अपा॑वधी॒ ँस्वाहाति॑ ।
अ॒श॒न॒या॒पि॒पा॒से ह॒ वा उ॒ग्रं वर्च॑: एन॑श्च वैरह॒त्यं च॑ त्वे॒षं
वर्च॑: । ए॒तं ँहु वाव तच्च॑तु॒र्धा विहि॑तं पा॒प्मानं॑ दे॒वा
अपा॑जघ्निरे, इति ।
२५० (१.५.९) तैत्तिरीयब्राह्मणम्
असुराः सर्वत्र स्वयं प्रयोगमजानानां देवसमीपे
कंचिद्गूढपुरुषमवस्थाप्य ततस्तेन ज्ञात्वा स्वयमप्यनुतिष्ठन्ति । एवं
वृत्तान्तं विज्ञाय देवाः परस्परमिदमूचुः । यदि वयमुच्चैर्ध्वनिना
यज्ञमनुतिष्ठामस्तर्ह्यस्माननु सर्वं प्रयोगं पापिष्ठा असुरा जानन्ति ।
अतस्तज्ज्ञाननिवारणायोपांशु यथा भवति तथोपसत्कर्मानुष्ठानं
निष्पादयामः । तथा सति पापिष्ठा असुरा अस्माननुप्रयोगं न ज्ञास्यन्तीत्येवं
निश्चित्योच्चैर्ध्वनिं परित्यज्योपांश्वेवोपसदमन्वतिष्ठन् । तत्प्रकारस्त्वे-
तादृशः । चोदकप्राप्ताः पञ्चदश सामिधेनीःपरित्यज्य तिस्र एव
सामिधेन्यस्तैरनूक्तास्तथा स्रुच्याऽऽघारं परित्यज्य
स्रौवाघारमवानुष्ठितवन्तः । तदूर्ध्वं तिस्रः प्रधानाहुतीरग्निं सोमं विष्णुं
चोद्दिश्य हूयमानाः पराचीर्हुतवन्तः । प्रकृतौ तु प्रतिप्रधानं पृथगेव वेद्या
उत्तरतो दक्षिणदेशमागत्य होमःक्रियते । इह तु सकृदेवाऽऽगत्य होमत्रयं
क्रियते ।
तदिदं पुनरावृत्तिराहित्यं पराचीशब्देन विवक्षितम् । तदेतदाहुतित्रयं
हुत्वा चतुर्थीमुपसदाख्यां प्रधानाहुतिं “या ते अग्नेऽयाशया” इति
संहितायामाम्नातमन्त्रानुच्चार्य स्रुवेण हुतवन्तः । तस्य मन्त्रस्योत्तरभाग उग्रं
वच इत्यादिवाक्यमदित । तत्र क्षुत्पिपासे एवोग्रं वच उच्यते । क्षुधिताः
स्मः पिपासिताः स्मो नास्माकमन्नपाने विद्येते इत्येतद्वाक्यं घोरं कृपालवः
श्रोतुं न सहन्ते । तदेतदुग्रत्वं यदेतद्ब्रह्मवधादि रूपमुपपातकं यच्च
वीरहत्यादिरूपं महापातकं तदेतत्त्वेषं वच इत्यनेनाभिधीयते ।
त्वेषशब्देन दीप्तिवाचिना चित्तक्लेशरूपा ज्वालोपचर्यते । उपपातकं
महापातकं च निष्पन्नमिति श्रुतवतश्चित्ते महान्क्लेशो भवति । क्षुत्पिपासे
महापातकोपपातके इत्येवं फलरूपेण तत्साधनरूपेण चावस्थितं चतुर्विधं
पाप्मानं देवा उपसद्धोमेन विनाशितवन्तः । अय देवैरनुष्ठितप्रकारः
सर्वोऽपि सूत्रकारेण संगृहीतः-“ध्रौवादग्रौ जुह्वां गृह्णाति चतुरुपभृति
घृतवतींशब्दे जुहूपभृतावदाय दक्षिणा सकृदभिक्रान्त उपा ँ
शुयाजवत्प्रचरत्यर्धेन जौहवस्याग्निं यजत्यर्धेन सोमंपौपभृतं जुह्वामानीय
विष्णुमिष्ट्वा प्रत्याक्रम्य या ते अग्नेऽयाशया तनूरितिस्रुवेणसदं जुहोति”
इति ।
तमिमं प्रकार विधत्ते-
तथो॑ ए॒वैतदै॑वंवि॒द्यज॑मानः । ति॒स्र ए॒व सा॑मि॒धेनी॒रनूच्य॑ ।
स्रु॒वेणा॑ऽऽघा॒रमा॒घार्य॑ (५) । ति॒स्रः प॒राची॒राहु॑तीर्हु॒त्वा ।
स्रु॒वेणोप॒सदं॑ जुहोति । उ॒ग्रं वचो॒ अपा॑वधीं त्वे॒षं वचो॑
तैत्तिरीयब्राह्मणम् (१.५.९) २५१
अ॑पाव॒धीँ स्वाहेति॑ । अ॒श॒न॒यापि॒पा॒से ह॒ वा उ॒ग्रं वच॑: ।
एन॑श्च वैरह॒त्यं च॒ त्वेषं॒ वच॑: । ए॒तमे॒व तच्च॑तु॒र्धा विहि॑तं
पा॒प्मानं॒ यज॑मानोऽप॑हते, इति ।
तदेतद्यजमानवाक्यं पूर्वोक्तदेववाक्यवद्व्याख्येयम् ।
उपसदनुष्ठानप्रकारं विधायानन्तरमग्नीषोमीयपश्वनुष्ठानं विधातुं
प्रस्तौति-
तैऽभि॒नीयै॒वाह॑: प॒शुमाल॑भन्त । अह॑ ए॒व तद्दे॒वा अर्व॑र्तिं
पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे । तेना॑भि॒नीयै॒व रात्रे॑: प्राच॑रन् ।
रात्र्या॑ ए॒व तद्दे॒वा अर्व॑र्तिं पा॒प्मानं॑ मृ॒त्युमप॑जघ्निरे (६),
इति ।
अनुष्ठितापसदस्ते देवा अहरभिनीयेवास्तमयात्प्रागह्नो विशिष्टं कालं
प्राप्यैवाग्नीषोमीयं पशुमालभन्त । योऽयमवर्तिं जीवनार्थवृत्तिप्रतिबन्धकं
पाप्मानं मृत्युसदृशं तेन पश्वालम्भेनाह्नोऽपनीय देवा विनाशितवन्तः ।
अभिनीयैवाहानि पशुमुपक्रम्यैव तेन पशुना रात्रेः संबन्धिनि
कालविशेषेऽनुष्ठितवन्तः । तेनानुष्ठानेन देवा रात्र्याः सकाशात्तं
पाप्मानमपनीय नाशितवन्तः । अत्र प्रयाजपर्यन्तस्याहन्यनुष्ठेयं शेषो
रात्रावनुष्ठेय इति । एतमर्थं सूत्रकारः स्पष्टमुदाजहार--“दिवा प्रयाजै ।
प्रचर्य” इति ।
तमिममनुष्ठानप्रकारं विधत्ते-
तस्मा॑दभि॒नीयै॒वाह॑: प॒शुमाल॑भेत । अह॑ ए॒व तद्यज॑मानो॒ऽ-
वर्तिं॑ पा॒प्मानं॒ भ्रातृ॑व्यान॒र्पनु॑दते । तेना॑भि॒नीयै॒व रात्रे॑:
प्र॒चरे॑त् । रात्र्या॑ ए॒व तद्यज॑मानो॒ऽव॑र्तिं पा॒प्मानं॑
भ्रातृ॑व्यान॒र्पनु॑दते, इति ।
यस्माद्देवैरनुष्ठितं तस्माद्यजमानोऽपि तथाऽनुतिष्ठेत् ।
देववाक्यवद्यजमानवाक्यं व्याख्येयम् । तत्र मृत्युरूपः पाप्माऽत्र तु
भ्रातृव्यरूप इति विशेषः ।
उक्तस्य पशोर्देवतासंबंधं विधत्ते- ।
स ए॒ष उ॑पवस॒थीयेऽह॑न्द्विदे॒व॒त्य॑: प॒शुराल॑भ्यते । द्वयं॒ वा
२५२ (१.५.९) तैत्तिरीयब्राह्मणम्
अ॒स्मिंल्लो॒के यज॑मानः । अस्थि॑ च मा॒ सँ च॑ । अस्थि॑
चै॒व तेने॑ मा॒ सँ च॒ यज॑मानः स ँ स्कु॑रुते, इति ।
यस्मिन्नहनि देवता यजमानस्य समीपे निवसति
तदहरुपवसथीयम् । अत एवान्यत्राऽऽम्नायते–“उ॑पा॒स्मिञ्छ्वो यक्ष्य॑माणे
देवता वसन्ति” इति । अत्राप्यग्नीषोमीयानुष्ठानादूर्ध्वदिने यजमानः
सोमेन यक्ष्यते । तस्मादिदमहरुपवसथीयम् । यस्मिन्नहनि यः
पशुरालभ्यः स द्विदेवत्यः । तौ च देवावग्नीषोमौ । “यदग्नीषोमीयं
पशुमालभते” इत्यन्यत्राऽऽम्नानात् । यजमानस्य
शरीरमप्यस्मिन्मनुष्यलोकेऽस्थिमांसद्वयात्मकं ततो द्विदेवत्येन पशुना
यजमानः स्वकीयमस्थि मांसं च संस्करुते ।
एतत्पशुदेवताप्रसङ्गेन सवनीयपशुदेवतामग्निरूपा-
मनूबन्ध्याख्यपशुदेवतां मित्रावरुणरूपां च मिलित्वा प्रशंसति-
ता वा ए॒ताः पञ्च॑ दे॒वता॑: । अ॒ग्नीषोमा॑व-
ग्निर्मित्रावरु॑णौ । प॒ञ्च प॒ञ्ची वै यज॑मानः । त्वङ्मा ँ
स ꣳ स्नावास्थि॑ म॒ज्जा । ए॒तमे॒व तत्प॑ञ्च॒धा विहि॑तमा॒त्मानं॑
वरु॑णपा॒शान्मु॑ञ्चति । भेष॒जता॑यै निर्वरु॑णत्वाय, इति ।
ता वा एताः पशुदेवताः पञ्चसंख्याकाः । कास्ता इति ता उच्यन्ते ।
उपवसथीयेऽह्नि द्वावग्नीषोमावस्य पशोर्देवौ परेद्युः सवनेष्वग्निः
सवनीयपशोर्देवः । अन्ते मित्रावरुणावनूबन्ध्याख्यपशोर्देवौ । यजमानोऽ
प्यवयवपञ्चकोपेतत्वात्पञ्ची । पञ्चभिस्त्वगादिभिः पञ्चीति समासे
सति पञ्चपञ्ची । अतःपशुत्रये पञ्चदेवता यजमानः पञ्चावयवोपेतं
स्वदेहं वरुणपाशान्मोचयति । अतस्तद्भजनमौषधसिद्धये भवति । सा च
सिद्धिर्वरुणोपद्रवपरिहाराय भवति । तस्मादेताः पञ्च देवता भजनीयाः ।
अथ प्रातरनुवाकाख्य ऋक्समूहे छन्दोविशेषान्विधत्ते-
त ꣳ स॒प्तभि॑श्छन्दो॑भिः प्रा॒तर॑ह्वयन् । तस्मा॑त्स॒प्तच॑तुरुत्तराणि॒
च्छन्दा॑ ꣳ सि प्रातरनुवा॒केऽनू॑च्यन्ते, इति ।
देवास्तमिन्द्रं प्रातः काले सप्तभिश्चन्दोभिराहूतवन्तः ।
तस्मात्कारणात्प्रातरनुवाके गायत्रीत्रिष्टुब्जगत्याख्यानि मुख्यानि
च्छन्दांसि चतुर्भिरुत्तरैरुष्णिगनुष्टुब्बृहतीपङ्क्त्याख्यैश्छन्दोभिः सहितानि
प्रैषमनुवक्तव्यानि । तांश्छन्दोविशेषयुक्ता ऋच ऐतरेयब्राह्मणेऽवगन्तव्यः।
तैत्तिरीयब्राह्मणम् (१.५.९) २५३
अथ वहिष्पवमानाख्यस्य स्तोत्रस्य प्रथमामृचं विधत्ते-
तमे॑तयोप॒समेत्योपा॑सीदन् । उपा॑स्मै गायत नर॒ इति॑ ।
तस्मा॑दे॒तया॑ बहिष्पवमा॒न उप॑सद्यः (७), इति ।
ऐच्छन्ननय ँ स्तिष्ठन्ते॒ऽनूच्या॑नू॒च्यं स्रुवेणा॑घा॒रमा॒घा॒र्य रात्रिया॑ ए॒व
तद्दे॒वा अवे॑र्ति पा॒प्मानं॑ मृ॒त्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ नवे॑ च ।
[जुहुवामेत ँह देवाथों जु॒होत्येतमेव तद्य॑जमान॒स्तैऽभिनीर्य॑ दे॒वा
य॑जमानो॑ देवा॑ दे॒वा य॑जमानो॒ य॑जमानःप्राच॑रन्प्रच॑र॒दाल॑भन्तालभेत॒
मृत्युम॑पजघ्निरे मि॒त्रावरु॑णौ॒ भ्रातृ॑व्यान् (१)]।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्याये
नवमोऽनुवाकः ॥ ९ ॥
देवास्तमिन्द्रमुपास्मा इत्येतयर्चा समीपे प्राप्योपाविशन् ।
तस्मादेतयर्चा वहिष्पवमानाख्यः स्तोत्रविशेषः सामगैरारब्धव्यः ।
अत मीमांसा । नवमाध्यायस्य प्रथमपादे चिन्तितम्-
मन्द्रादिकमपूर्वाय परायावान्तराय वा ।
फलादाद्यो नो समं तल्लक्षणा तु विशिष्यते ॥ (इति) ।
ज्योतिष्टोमे श्रूयते-“यावत्या वाचा कामयीत तावत्या
दीक्षणीयायामनुब्रूयान्मन्द्र प्रायणीयायां मन्द्रतरमातिथ्यायामुपाँ
शूपसत्सूच्चैरग्नीषोमीये” इति । अत्र ध्वनेरुच्चावचभावः ।
परमापूर्वप्रयुक्तस्तस्य फलवत्वादिति चेत् । मैवम् । अवान्तरापूर्वेऽपि
समानं फलवत्वं परमापूर्वजननद्वारेण फलसंबन्धात् समाने च फलवत्वे
संनिकृष्टलक्षणया निर्णयः । तथा हि-दीक्षणीयादिशब्दा
अङ्गकर्मवाचिनः । न च मन्द्रत्वादिधर्माणां कर्मस्वरूपं प्रयोजकम् ।
अपूर्वप्रयुक्तेर्निर्णीतत्वात् । ततो दीक्षणीयादिशब्दैरपूर्व लक्षणीयम् । तत्र
स्ववाक्यगतमवान्तरापूर्वं संनिकृष्टं तद्द्वारकं परमापूर्वं विप्रकृष्टम् ।
तस्मादवान्तरापूर्वप्रयुक्ता एते धर्माः । अश्वमेधगतत्रैधातवी-
यायाम्यूहाभावःफलम् । तथा ह्याश्वमेधे समाम्नायते-“त्रैधातवीया
दीक्षणीया भवति” इति । यदि परमापूर्वप्रयुक्तं स्यात्ततस्तस्योपकार-
विशेषनिबन्धन इति तत्कार्यापन्नायां त्रैधातवीयायां भविष्यति ।
अथाऽग्नावैष्णवापूर्वप्रयुक्तस्तदा त्रैधातवीयायां तदपूर्वं न भवति
किंत्वन्यदेवेति नास्त्यूहः ।
दशमाध्यायस्य सप्तमपादे चिन्तितम्-
२५४ (१.५.९) तैत्तिरीयब्राह्मणम्
प्रायणीयातिथ्ययोः किं विकल्पः शंय्विडान्तयोः ।
नियमो वा विकल्पः स्यान्निषेधपरिसंख्यया ॥
शंय्विडान्तत्वावाक्याच्च नियमो विधिमात्रतः ।
नित्यानुवादो नञ्वाक्यं दोषबाहुल्यमन्यथा ॥ [इति] ।
ज्योतिष्टोमे श्रूयते-‘शंय्वन्ता प्रायणीया संतिष्ठते न पत्नीः
संयाजयन्ति’ इति । इडान्ता आतिथ्याः संतिष्ठन्ते नानुयाजान्यजति”
इति । प्रकृतौ यदा होता “तच्छंयोः” ति मन्त्रं जपति तदानीमध्वर्युः
परिधीनग्नौ प्रक्षिपति । तदाह कल्पसूत्रकारः-“अनूच्यमाने शंयुवाक
आहवनीये परिधीन्प्रहरति” इति । ततो हविःशेषेषु भक्षितेषु पत्नीः
संयाजयन्तीति क्रमः । तथा प्रधानयागानारिष्टहोम-
प्राशित्रादिभक्षणेडाभक्षणानूयाजसूक्तवाकशंयुवाका इत्यधस्तनः
प्रयोगक्रमः । पत्नीसंयाजानामुपरि फलीकरणहोमप्रायश्चित्त-
होमकपालोद्वासनानैरिष्टः समाप्यते । एवं स्थिते विकृतिरूपायाः
प्रायणीयेष्टेः । शंयुवाकान्तत्वमातिथ्येष्टेरिडाभक्षणान्तत्वं च विकल्पितं
स्यात् । कुतः । निषेधवाक्यविधिवाक्याभ्यां प्रकरणद्वयप्रतीतेः । तथा
हि- शंय्वन्तत्वेडान्तत्वविधिनेवोपरितनपत्नीसंयाजानूयाजनिषेधे
पुनर्निषेध वचनं परिसंख्यार्थम् । पत्नीसंयाजानूयाजव्यतिरिक्ते नास्ति
निषेध इति परिसंख्या । तेन प्रकृतिवद्यथाप्राप्तं
कपालोद्वासनान्तत्वमनयोरिष्ट्योः प्रतीयते । विधिवाक्येन च
शंय्विडान्तत्वम् । तेन व्रीहियववद्विकल्प इति प्राप्ते ब्रूमः ।
विधिमात्रस्यात्राप्रवृत्तेः शंय्वन्तत्वमिडान्तत्वं च तयोः प्रतिनियतम् ।
पत्नीसंयाजाद्यभावस्त्वर्थसिद्धः । ततो नञ्पदयुक्तमुपरितनं प्रतिषेधवाक्यं
नित्यानुवादः । पत्नीसंयाजाद्यकरणाल्लाघवं भवतीति । अन्यथा
बहवोदोषाः प्रसज्येरन् । विकल्पे तावदष्टौ दोषाः प्रसिद्धाः । परिसंख्यायां
च त्रयो दोषाः । विधिपरिसंख्याभ्यां वाक्यभेदोपसंहारोऽपरो दोषः । ततः
शंय्विडान्तत्वं नियतम् ।
. तत्रैव शंग्विडे पूर्वे परे वा स्वेच्छयाऽथवा ।
परे एवाथवा पूर्वे एवाऽऽद्यो द्विविधश्रुतेः ॥
निषेधस्यार्थवत्त्वाय परे एवानुवादगीः ।
पूर्वैकवाक्यतां याति पूर्वे एवाविरोधतः ॥ [इति] ।
प्रायणीयातिथ्ययोरेवान्तत्वेन निर्णीतं शंग्विडे पुनः संदिह्येते ।
प्रकृतौ द्विविधे शंग्विडे पत्नीसंयाजेभ्यः पुरस्तादुपरिष्टाच्च विहिते । ते
चात्र चोदकप्राप्ते । तत्र द्विविधश्रुतेरर्थे चोदकेनातिदिष्टे सति
विशेषनियामकाभावादिच्छया स्वीकार्ये इत्येकः पक्षः । यदि प्रायणीया
तैत्तिरीयब्राह्मणम् (१.५.१०) २५५
पूर्वंशंय्वन्ताऽऽतिथ्या च पूर्वेडान्ता स्यात्तदानीमन्तत्वविधिनेव ताभ्यां
शंय्विडाभ्यामूर्ध्वम्प्राप्तानां पत्नीसंयाजानामनूयाजानां च
वारितत्वान्निषेधो व्यर्थः स्यात् । परयोःशंय्विडयोरन्तत्वेन ताभ्यां
शंय्विडाभ्यां पूर्वप्राप्तानां तेषामनिवारणात्तन्निवारणाय सार्थको निषेधः
तस्मात्परं एव शंय्विडे ग्राह्ये इति द्वितीयः पक्षः । निषेधोऽयं नित्यानुवाद
इत्युक्तम् । स च पूर्वयोः शंय्विडयोरन्तत्वेऽ प्येकवाक्यतामापाद्यार्थ-
वादत्वेनोपपद्यते । असंजातविरोधिन्यौ हि पूर्वे शंय्विडे । तस्मात्ते एव
ग्राह्ये इति राद्धान्तः । तत्रैवान्यच्चिन्तितम्-
उपसत्सु निषिद्धेभ्यः शिष्टं सर्वं किमाचरेत् ।
यावदुक्तमुताऽऽद्योऽस्तु चोदकस्यानिवारणात् ।।
सौवाघारे पुनः श्रुत्या शिष्टस्य परिसंख्यया।
अपूर्वार्थत्वतो वाऽन्त्योऽनुवादोऽत्र निषेधगीः ।। [इति] ।
ज्योतिष्टोमे विहितासूपत्सु पठ्यते-“अपयाजास्ता अननूयाजाः”
इति । तत्र निषिद्धान्प्रयाजानूयाजान्वर्जयित्वाऽवशिष्टं चोदकप्राप्तमङ्गजातं
सर्वमाचरणीयमिति प्राप्ते ब्रूमः । प्रकृतौ विहित एव सौवाघारः पुनरिह
विधीयते । स च चोदकप्राप्तमन्यत्सर्वमङ्गजातं परिसंचष्टे । अन्यथा
पुनर्विधानवैयर्थ्यात् । ननु पुनर्विधानं प्रतिप्रसवार्थम् । अत एव श्रुतिस्तत्र
सौवाधारमभावशङ्कानिराकरणपूर्वकं विदधाति, “नान्यामाहुतिं
पुरस्ताज्जुहुयाद्यदन्यामाहुतिं पुरस्ताज्जुहुयादन्यन्मुखं कुर्यात्स्रुवेणाऽऽघार-
माघारयति” इति । अयमर्थः-सौवाघारः सर्वत्र यज्ञस्य मुखम् । तथा
सति यदि कश्चिन्मन्द उपसत्प्रयोगादौ सौवाघारमहुत्वा तस्य स्थाने
कांचिदन्यामाहुतिं जुहुयात्तदा मुखव्यत्यासेन प्रत्यवायं प्राप्नुयात् ।
तस्मात्सौवाधार आदौ कर्तव्य इति । नैतद्युक्तम् । चोदक-
प्राप्तस्याऽऽघारस्य कारणमन्तरेणाकस्माद भावशङ्काया अयुक्तत्वात् ।
तस्मात्परिसंख्यार्थ एव पुनर्विधिः । आहुत्यन्तरनिन्दा तु
तच्छेषभूतोऽर्थवादः । यदि परिसंख्या त्रिदोषेत्युच्यते तर्हि
गृहमेधीयवदपूर्व कर्मस्तु । प्रयाजादिनिषेधो नित्यानुवादः । सर्वथा
यावदुक्तमत्रानुष्ठेयम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥
अथ पञ्चमप्रपाठके दशमोऽनुवाकः ।
नवमे दीक्षणीयादीनि बहिष्पवमानोपक्रमान्तानि सोमाङ्गान्युक्तानि।
२५६ (१.५.१०) तैत्तिरीयब्राह्मणम्
दशमे त्रिवृदादिस्तोमस्वरूपाणि सोमाङ्गान्यनूच्यन्ते । तत्राऽऽदौ चात्वालखननं
सप्रमाणं विधत्ते-
स स॑मु॒द्र उत्त॑रतः प्राज्वल॒द्भूम्य॑न्तेन॑ । ए॒ष वाव स स॑मु॒द्रः ।
यच्चा॑त्वा॒लः। ए॒ष उ॑ वे॒व स भूम्य॑न्तः । यद्वेद्य॑न्तः ।
तदे॑तत्त्रिश॒लं त्रि॑पूरु॒षम् । तस्मा॑तं॒ त्रि॑वित॒स्तं ख॑नन्ति,
इति ।
योऽयं प्रसिद्धो लवणसमुद्रः सोऽयमुत्तरस्यां दिशि भूमेरन्तिमभागेन
सह कदाचित्प्रज्वलितोऽभूत् । सोऽयमत्र देवयजनभूमौ संपाद्यते । योऽयं
चात्वालारख्यो गर्तोऽस्ति स एष एवात्र समुद्रस्थानीयः । योऽयं
वेदेरवसानदेशःसोऽयं भूमेरवसानभागः । "एतावती वै पृथिवी यावती
वेदिः" इति भूमित्वं वेदेराम्नातम् । यत्समुद्रस्य पुरुषत्रयपरिमाणमूर्ध्वं
प्रज्वलनं तदेतदत्र चात्वाले त्रिशलं शललीमृगसंबन्धिरोमत्रयपरिमितं
भवति । तस्य च रोम्णो वितस्तिः । परिमाणं तद्रोमत्रमत्र
पुरुषत्रयरूपेणोपचर्यते । तस्मात्तं चात्वालं वितस्तित्रयपरिमितं खनेयुः ।
तमेतं चात्वालमादित्य रूपेण प्रशंसति-
स सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत आसीत् । तं
यद॒स्या अध्यज॑नयन् । तस्मा॑दादि॒त्यः (१) । अथ॑
यत्सु॑वर्णरज॒ताभ्यां॑ कु॒शीभ्यां॒ परि॑गृहीत् आसी॑त् । साऽस्य॑
कौशि॒कता, इति ।
स चात्वालः परितः सुवर्णरजतनिर्मिताभ्यां शकलाभ्यां
गृहीतोऽभवत् । स्तोत्रं कुर्वाणाः सामगाः स्तोत्रावृत्तिगणनार्थं यां
काष्ठशलाकां प्रादेशमात्रपरिमितं भूमौ स्थापयन्ति सेयं कुशीत्युच्यते ।
तादृशं सुवर्णरजतनिर्मितं कुशीद्वयं चात्वालस्यान्तिके स्थापयित्वा तस्य
चात्वालस्याहोरात्रनिष्पादकेनाऽऽदित्येन साम्यं संपावितवन्तः ।
यस्मादस्या भूमेरध्युपरि तं चात्वालमजनयंस्तस्मादयमदितेः
संबन्धित्वाद्रादित्य इत्युच्यते । कुशीद्वयपरिगृहीतत्वाच्च कौशिक इत्यपि
नाम ।
इत्थं चात्वालं विधाय त्रिवृदादिस्तोमान्विधातुमादौ त्रिवृत्स्तोमं
प्रशंसति-
तैत्तिरीयब्राह्मणम् (१.५.१०) २५७
तं त्रि॒वृता॑ऽभि॒प्रास्तु॑वत । तं त्रि॒वृता॑ऽऽद॑दत । तं
त्रि॒वृता॑ऽऽहर॑न् । याव॑ती त्रि॒वृतो॒ मात्रा॑, इति ।
त्रिवृता तिस्रो वृत्तस्तृचरूपावयवा यस्य स्तोमस्य सोऽयं
स्तोमस्त्रिवृत् । तेन स्तोमेन देवास्तमादित्यं स्तुत्वा तं स्वाधीनत्वेन
समादाय स्वापेक्षिते स्थाने समाहरन् । तस्य त्रिवृत्स्तोमस्य संबन्धिनी
मीयतेऽवगम्यत इति मात्रा धनादिसंपद्यावती विद्यते तावती देवैर्लब्धेति
शेषः ।
एवमन्यानपि त्रीन्स्तोमान्प्रशंसति-
तं 'पञ्चद॒शेना॑भि॒प्रास्तु॑वत । तं 'पञ्चद॒शेना॑ऽऽद॑दत । तं
प॑ञ्चद॒शेना॑ऽऽहर॑न् । याव॑ती पञ्चद॒शस्य॒ मात्रा॑ (२) । त ँ
स॑प्तद॒शेना॑भि॒प्रास्तु॑वत । त ँ स॑प्तद॒शेना॑ऽऽ हर॑न् । याव॑ती
स॒प्तद॒शस्य॒ मात्रा॑ । तस्य॑ सप्तद॒शेन॑ ह्रियमा॑णस्य॒ तेजो॒
हरो॑ऽपतत् । तमे॑कवि॒ ँ शेना॑भि॒प्रास्तु॑वत । तमे॑कवि॒ ँ
शेना॑ऽऽद॑दत । तमे॑कवि॒ ँ शे ना॑ऽऽहर॑न् । याव॑त्येकवि॒ ँ
शस्य॒ मात्रा॑, इति ।
एकस्मिंस्तृचे वर्तमानास्तिस्र ऋचो ब्राह्मणोक्तेनाऽऽवृत्तिविशेषेण
पञ्चदशसंख्याका यस्मिन्स्तोमे संपाद्यन्ते सोऽयं पञ्चदशः । एवं
सप्तदशैकविंशावपि । तत्र सप्तदशस्तोमेन स्तुत्वा यदाऽऽदित्य आह्रियते
तदानीं तस्य तेजः कियदप्यधोऽपतत् । यद्यपि हरःशब्देनापि तेज
एवाभिधीयते तथाऽपि पौनरुक्त्यपरिहाराय लेशो लक्ष्यते । अतः
कियदपीति व्याख्यातम् । अन्यत्पूर्ववद्व्याख्येयम् ।
ते यत्त्रि॒वृता॑ स्तु॒वतै॑ (३) । त्रि॒वृ॑तैव तद्यज॑मान॒मार्द॑दते ।
तं त्रि॒वृतै॑व॒ हर॑न्ति । याव॑ती त्रि॒वृतो॒ मात्रा॑ । अ॒ग्निर्वै
त्रि॒वृत् । याव॑द्वा अ॒ग्नेर्दह॑तो॒ धूम उ॒देत्यानु॒व्येति॑ । ताव॑ती
त्रि॒वृतो॒ मात्रा॑ । अ॒ग्नेरे॒वैनं॑ तत् । मात्रा॒ 'सायु॑ज्य॒ ँ सलो॑कतां
ग॑मयन्ति, इति ।
त उद्गातारो यदि सोमयागे त्रिवृता स्तोमेन स्तुवीरंस्तदानीं
त्रिवृत्स्तोम सामर्थ्येनैव लोकविशेषे हरन्ति । तत्र त्रिवृत्स्तोमदेवताया
२५८ (१.५.१०) तैत्तिरीयब्राह्मणम्
यावती भोग्यवस्तुसंपत्तिस्तावतीमयं यजमानः प्राप्नोति । अयमेवार्थः
संग्रहेण पुनरपि स्पष्टी क्रियते । अग्निरेव त्रिवृत्स्तोमाभिमानी देवः ।
तस्य चाग्नेररण्यादिकं दहतो दहनवेलायां धूम उद्गत्यानुक्रमेण यावन्तं
देशं विविधं व्याप्नोति तावती त्रिवृत्संबन्धिनी भोगभूमिः । तस्मादुद्गातार
एनं यजमानमग्नेर्मात्रामग्निदेवतासंबन्धिनीं भोगवस्तुसंपत्तिं प्रापयन्ति
तथैवाग्नेः सायुज्यं सहावस्थानं प्रापयन्ति । तथैवाग्नेः संबन्धिनीं
सलोकतामेकलोकावस्थानं प्रापयन्ति । अग्निसमानभोग्यवस्तुप्राप्तिरुत्तमं
फलम् अग्निसमीपेऽवस्थानं मध्यमम् । अग्निलोकेऽवस्थानमधमम् ।
एतच्चानुष्ठानश्रद्धातारतम्येन व्यवस्थापनीयम् ।
इत्थं त्रिवृत्स्तोमं विधायथ त्रीनूत्तरान्स्तोमान्विधत्ते -
अथ॒ यत्पं॑ञ्चद॒शेन॑ स्तु॒वतै॑ । प॒ञ्च॒द॒शेनै॒व तद्यज॑मान॒मार्द॑दते
(४) । तं प॑ञ्चद॒शेनै॒व हर॑न्ति । याव॑ती पञ्चद॒शस्य॑
मात्रा॑ । च॒न्द्रमा॒ वै पं॑ञ्चद॒शः । ए॒ष हि
पं॑ञ्चद॒श्याम॑पक्षी॒यतै॑ । प॒ञ्च॒द॒श्यामा॑पूर्य॒तै । च॒न्द्रम॑स
ए॒वैनं॑ तत् । मात्रा॒ ँसायु॑ज्य॒ग्ँ स॒लोक॑तां गमयन्ति । अथ॒
यत्स॑प्तद॒शेन॑ स्तु॒वतै॑ । स॒प्त॒द॒शेनै॒व तद्यज॑मान॒मार्द॑दते । त ँ
स॑प्तद॒शेनै॒व हर॑न्ति (५) । याव॑ती सप्तद॒शस्य॑ मात्रा॑ ।
प्र॒जाप॑ति॒र्वै स॑प्तद॒शः । प्र॒जाप॑तेरे॒वैनं॑ तत् । मात्रा॒ ँसायु॑ज्य ँ
स॒लोक॑तां गमयन्ति । अथ॒ यदैकवि ँ शेन॑ स्तु॒वतै॑ ।
एक॒वि ँ शेनै॒व तद्यज॑मान॒मार्द॑दते । तमैकवि ँ शेनै॒व
हर॑न्ति । याव॑त्येकवि ँशस्य॑ मात्रा॑ । अ॒सौ वा आ॑दि॒त्य
एक॑वि ँशः॑ । आ॒दि॒त्यस्यै॒वैनं॑ तत् (६) । मात्रा॒ ँसायु॑ज्य ँ
स॒लोक॑तां गमयन्ति, इति ।
यस्मादेष चन्द्रमाः कृष्णपक्षस्य पञ्चदश्याममावास्यायामपक्षीयते
शुक्लपक्षस्य पञ्चदश्यां पौर्णमास्यामापूर्यते । चन्द्रमाः
पञ्चदशस्तोमाभिमानी देवः । “प्रजापतेराश्रावय” इत्यादिसप्त-
दशाक्षरात्मकत्वात्सप्तदशस्तोमस्वामित्वम् । अन्यत्र “द्वादश मासाः
पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः”
तैत्तिरीयब्राह्मणम् (१.५.१०) २५९
इत्येकविंशस्तोमपूरकत्वेनाऽऽदित्यस्याऽऽम्नातत्वादादित्य एकविंशस्तो-
मस्वामी। अन्यत्सर्वं पूर्ववद्व्याख्येयम्।
पुरा याभ्यां कुशीभ्यां चात्वालो देवैः परिगृहीतस्तयोः
कुश्योरपनयनं दर्शयति-
ते कु॒श्यौ॑। व्य॑घ्नन्। ते अ॑होरा॒त्रे अ॑भवताम्। अह॑रेव
सु॒वर्ण॑ऽभवत्। र॒ज॒ता रात्रि॑:। स यदा॑दि॒त्य उ॒देति॑।
ए॒तामे॒व तत्सु॒वर्णां कुशी॑मनु॒समे॑ति। अथ॒ यद॑स्त॒मेति॑।
ए॒तामे॒व तद्र॑ज॒तां कुशी॑मनु॒सं वि॑शति, इति।
अथ ते देवाश्चात्वालसमीपे पूर्वं स्थापिते कुश्यौ वियुज्य हतवन्तः।
परित्यक्तवन्त इत्यर्थः। ते च त्यक्ते कुश्यावहोरात्ररूपे अभूताम्।
तत्सुवर्णकुश्या अह्नो रूपत्वादयमादित्य उद्यंस्तां कुशीमनु
सम्यक्प्रवर्तते। रजतकुश्या रात्रिरूपत्वादादित्योऽस्तं गच्छंस्तां
कुशीमनुप्रविशति। तदेवमनया पूर्वोक्त्या च कुशीस्तुत्या स्तुतिकाले
स्तोत्रीयाणां गणनाय कुश्यः स्थापनीयाः पश्चादपनेया इति
विधिरुन्नीयते।
अथ चात्वालप्रसङ्गाद बुद्धिस्थे प्रदरे कंचिन्निषेधं पुरुषार्थं
दर्शयति-
प्र॒ह्लादो॑ ह॒ वै का॑याध॒वः। वि॒रोच॑न॒ ँस्वं पु॒त्रमुदा॑स्यत्।
स प्र॑द॒रो॑ऽभवत्। तस्मा॑त्प्रद॒रादु॑द॒कं नाऽऽचा॑मेत् (७),
इति।
आदित्यः 'पञ्चदशस्य मात्रां स्तुवते॑ पञ्चदशेनैव तद्यज॑मान॒माद॑दते
स॒प्तद॒शेनै॒व हर॒न्त्यादि॒त्यस्यै॒वैनं॑ तद्विंशति चत्वारिं च।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये दशमोऽनुवाकः ॥ १० ॥
कयाधुसंज्ञायाः स्त्रियः पुत्रः प्रह्लादः स्वकीयं पुत्रं विरोचनं केनापि
निमित्तेन कुपितो हस्तेनोद्धृत्य क्वचिद्भूमावपातयत्। स भूमिप्रदेशः
प्रदरश्छिद्ररूपोऽभूत्। तस्य प्रदरस्याऽऽसुरत्वात्तत्र प्रविष्टमुदकं पुरुषो
नाऽऽचामेत्। तथा चाऽऽपस्तम्बः स्मरति- "न वर्षधारास्वाचामेत्तथा न
प्रदरोदके" इति।
२६० (१.५.११) तैत्तिरीयब्राह्मणम्
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके दशमोऽनुवाकः ॥ १० ॥
अथ पञ्चमप्रपाठक एकादशोऽनुवाकः ।
दशमे त्रिवृदादिस्तोमा विहिताः । एकादशे सवनीयपशुपुरोडाशा
उच्यन्ते । यदुक्तं संहितायाः षष्ठे काण्डे-“तस्मादनुसवनं पुरोडाशा
निरूप्यन्ते” इति । ते पुरोडाशा अत्र प्रपञ्च्यन्ते । तत्राऽऽदौ तावज्ज्योतिष्टोमे
स्तोमानांमियत्तां दर्शयति-
ये वै च॒त्वारः॒ स्तोमाः॑ । कृ॒तं तत् । अथ॒ ये पञ्च॑ । क॒लिः
सः । तस्मा॑च्चतुष्टोमः । तच्चतु॑ष्टोमस्य चतुष्टो॒मत्वम्, इति ।
पूर्वोक्तास्त्रिवृत्पञ्चदशः सप्तदश एकविंश इत्येवंरूपाः स्तोमा ये
सन्ति ते कृतयुगस्य स्वरूपभूताः । कृतयुगे धर्मस्य चत्वारः पादा
विद्यन्ते । ये त्वन्येन केनचित्स्तोमेन सह पञ्च स्तोमास्तेषां
कलियुगरूपत्वम् । तत्र तन्मध्यगतानां चतुर्णां कृतयुगार्थत्वेन विभागे
सति क्लेरसाधारणस्तोम एक एव परिशिष्यते । धर्मश्च कलियुग
एकपादेव । ततः कलिस्वरूपत्वेन पञ्चस्तोमपक्षस्य निन्दितत्वा-
द्यतुष्टोमपक्षस्य एक कृतयुगस्वरूपत्वेन प्रशस्तत्वादयं सोमयागश्चतुष्टोम
एव कर्तव्यः । चत्वारः स्तोमा अत्रेति व्युत्पत्या सोमयागस्य चतुष्टोमत्वं
संपन्नम् ।
अथ प्रश्नोत्तराभ्यां स्तोमानां ज्योतिष्ट्वं संपादयति-
तदा॑हुः । क॒त॒मानि॒ तानि॒ ज्योतीं॑षि । य ए॒तस्य॒ स्तोमा॑
इति॑ । त्रि॒वृत्प॑ञ्चद॒शः स॑प्तद॒श एक॑वि॒शः (१) । ए॒तानि॒
वाव तानि ज्योती॑षि । य ए॒तस्य॒ स्तोमाः॑, इति ।
ज्योतिष्टोमनाम्येत्तस्मिन्यागे यानि ज्योतींषि स्तोमाश्च प्रतीयन्ते ।
सामानाधिकरण्यात्तु स्तोमानामेव ज्योतिष्ट्वमवभासते । तत्र
केचित्स्तोमाः पूर्वमुदाहृताः । इतः परं य एतस्य स्तोमा ज्योतिष्ट्वार्हास्तेषु
च स्तोमेषु ज्योतींषि कानीत्येवं जिज्ञासवः पप्रच्छुः । ये
पूर्वमुक्तास्त्रिवृदाद्याश्चत्वारः स्तोमास्त एवैतस्य यागस्य ज्योतींषि। एतैर्हि
स्तोमैर्निष्पाद्यत्वेन ज्योतिर्भिरिव यागोऽवभास्यते । अत एव सप्तमकाण्डे
समाम्नातम्- “तस्मात्तज्ज्योतिरुच्यते द्वौ स्तोमौ प्रातः सवनं वहतः”
इत्यादि ।
तैत्तिरीयब्राह्मणम् (१.५.११) २६१
एवं चतुष्टोमत्वं स्तोमानां ज्योतिष्टोमत्वं
चाभिधायोपाऽऽख्यायिकामुखेन सवनीयपुरोडाशान्प्रपञ्चयति-
सो॑ऽब्रवीत् । स॒प्तद॒शेन॒ ह्रिय॑माणो॒ व्य॑लेशिषि ।
भि॒षज्य॑तमेति॑ । तम॒श्विनौ॑ धा॒ना भि॑रभिषज्य॒ताम् । पू॒षा
क॑र॒म्भेण॑ भार॑ती परिवा॒पेण॑ । मि॒त्रावरु॑णौ पय॒स्य॑या, इति॑ ।
पूर्वस्मिन्ननुवाके तस्य सप्तदशेन ह्रियमाणस्य तेजो
हरोऽपतदित्यादित्यस्य तेजोहानिराम्नाता । स आदित्यो
देवान्प्रत्येवमब्रवीत् । सप्तदशस्तोमेन ह्रियमाणोऽहं
तेजोवियोगादलेशिषि, अल्पोऽभूवंस्तस्मान्मां भिषज्यत । एवमादित्येन
प्रार्थिता देवा अश्विपूषादयः स्वस्वपरिचितेनौषधेन चिकित्सांमकुर्वन् ।
धाना भृष्टयवाः । करम्भो यवपिष्टमाज्यसंयुक्तम् । परिवापो लाजाः।
पयस्याऽऽमिक्षा ।
अथ प्रश्नोत्तराभ्यां धानादीनां चतुर्णां द्रव्याणां
हविषामिन्द्रदेवताकत्वं दर्शयति-
तदा॑हुः (२) । यद॒श्विभ्यां॑ धा॒नाः । पू॒ष्णः क॑र॒म्भः ।
भार॑त्यै परिवा॒पः । मि॒त्रावरु॑णयोः पय॒स्याऽर्थ॑ ।
कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मे॒व य॑जन्तीति॑ । ए॒ता ह्यै॑नं दे॒वता॑
इति॑ ब्रूयात् । ए॒तैर्हविर्भि॑रभि॒षज्य॒ ँ स्स्तस्मा॒दिति॑, इति॑ ।
पूर्वोक्तरीत्या धानादीन्यश्विन्यादिदेवसंबन्धीनि द्रव्याणि । तथा
सति होमकालेऽश्विन्यादिदेवताः परित्यज्य कस्मात्कारणादेतेषां
हविषामिन्द्रदेवस्वामित्वं कृत्वा यजमाना यजन्तीत्येवं वेदवादिनः
पप्रच्छ । अत्राभिज्ञ उत्तरमेवं ब्रूयात् । यस्मादेताः सर्वा देवता
एनमिन्द्रमुपजीवन्तीति शेषः । तस्मादिन्द्रस्यैव धानादिहविः स्वामित्वं
युक्तम्। एतैरैवेन्द्रस्वामिकैर्हविभिरश्विपूषादिदेवा आदित्यस्य चिकित्सां
कृतवन्तः । अत एव सूत्रकार इन्द्रविषयमेव प्रैषमन्त्रमुदाजहार- सर्वेषां
पुरोडाशानां जुह्वां देवतानि समवद्यत्युपभात सौविष्टकृतानि प्रातः प्रातः
सवस्येन्द्राय पुरोडाशानामनुब्रूहि" इति ।
धानादिहविश्चतुष्टयं प्रशस्य पञ्चमं पुरोडाशाख्यं हविः प्रशंसति-
तं वस॑वो॒ऽष्टाक॑पालेन प्रातः सव॒नेऽभि॑षज्यन् । रु॒द्रा
२६२ (१.५.११) तैत्तिरीयब्राह्मणम्
एका॑दशकपालेन॒ माध्यं॑दिने॒ सव॑ने । विश्वे॑ दे॒वा
द्वाद॑शकपालेन तृती॑यसव॒ने (३), इति ।
तमादित्यम् । न चात्रेन्द्रस्य स्तोतव्यत्वे सति भेषज्येना-
ऽऽदित्यस्तुतिस्युक्तेति वाच्यम् । इन्द्रस्यैव मूर्त्यन्तरं
स्वीकृत्याऽऽदित्यरूपेणावस्थितत्वात् । अथवाऽदितेः पुत्र इति
व्युत्पत्त्याऽऽदित्यशब्देनेन्द्र एव विवक्षित इति गमयितव्यम् ।
अत्रोक्तार्थवादानुसारेण सवनत्रये विलक्षणपुरोडाश-
प्राप्तावन्वयव्यतिरेकाभ्यां तद्वारयति-
स यद॒ष्टाक॑पालाना॒न्प्रातः सव॑ने कु॒र्यात् । एका॑दशकपालानान्माध्यं॑दिने
सव॑ने । द्वाद॑शकपाला ँ स्तृती॑यसवने । विलो॑म॒ तद्य॒ज्ञस्य॑ क्रियेत ।
एका॑दशकपालाने॒व प्रातः सव॑ने कुर्यात् । एका॑दशकपालानान्माध्यं॑दिने
सव॑ने । एका॑दशकपाला ँ स्तृती॑यसवने । य॒ज्ञस्य॑ सलोम॒त्वाय॑, इति
अत्र पुरोडाशार्थानि यानि कपालानि तेषां वैलक्षण्यं यज्ञस्य
विलोमत्वमैकविध्यत्वं सलोमत्वं तदिदं पक्षद्वयं सूत्रकार आह-“अष्टौ
पुरोडाशकपालान्येकादश माध्यंदिने द्वादश तृतीयसवने
सवनेन्द्रानैकादशकपालाननुसवनमेके समामनन्ति” इति ।
पूर्ववदत्रापि प्रश्नोत्तराभ्यां पुरोडाशानामिन्द्रदेवताकत्वं दर्शयति-
तदा॑हुः । यद्वसूं॑नां॒ प्रातः सव॑नम् । रु॒द्राणां॒ माध्यं॑दिनँ
सव॑नम् । विश्वे॑षां दे॒वानां॑ तृती॑यसव॒नम् । अथ॒
कस्मा॑देतेषा॒ ह॒विषा॒मिन्द्र॑मेव य॑जन्तीति॑ । ए॒ता ह्ये॑नं दे॒वता॑
इति॑ ब्रूयात् । ए॒तैर्ह्यवि॒र्भि॑रभिषज्य॒ ँस्तस्मा॒दिति॑ (४), इति ।
एका॑वि ँश आहुस्तृती॑यसव॒ने प्रा॒तः सव॑नं पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये एकादशोऽनुवाकः ॥ ११ ॥
धानादिवाक्यात्पुरोडाशवाक्यं व्याख्येयम् । यद्यपि न धानादयः
पुरोडाशास्तथाऽपि पुरोडाशसाहचर्याच्छत्रिन्यायेन पुरोडाश इति
व्यवहारः । यथैकस्मिन्नैव च्छत्रिणि सत्यापि च्छत्रिणो गच्छन्तीति सर्वेषु
च्छत्रित्वव्यवहारस्तद्वत् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
तैत्तिरीयब्राह्मणम् [१.५.१२] २६३
अथ पञ्चमप्रपाठके द्वादशोऽनुवाकः
एकादशे सवनीयपुरोडाशः प्रपञ्चिताः । अथ द्वादशे सप्त च्छन्दांसि
प्रपञ्च्यन्ते । तत्राऽऽदौ श्रायन्तीयवारवन्तीयनामनिरुक्तिद्वारा प्रशंसति-
तस्या॒ वाचो॑ऽवपा॒दाद॑बिभयुः। तमे॒तेषु॑ स॒प्तसु॒ च्छन्द॑:-
स्वश्रयन् । यदश्र॑यन् तच्छा॑य॒न्तीय॑स्य श्रायन्ती॒यत्वम्॑ ।
यदवा॑रयन् । यद्वा॑र॒वन्ती॑यस्य वारवन्ती॒यत्वम्॑ । इति ।
योऽयमादित्य आकाशमार्गे संचरति सोऽयमृधस्तात्पतिष्यतीत्येवं
तस्याऽऽदित्यस्याधोदेशविषयात्पाताद्भीता देवास्तत्पातपरिहाराय
तमादित्यमेतेषु गायत्र्यादिषु सप्तसु च्छन्दःसु स्थापितवन्तः।
यस्माद्देवाश्छन्दांस्याश्रितवन्तस्तस्मात्तेषु च्छन्दःसु गीयमानस्य
सामविशेषस्य श्रायन्तीयं नाम संपन्नम् । यस्माच्छन्दः स्वाहित्यं
स्थापयित्वा तस्याधः पातं निवारितवन्तस्तस्मात्तेषु च्छन्दःसु गातव्यस्य
सामविशेषस्य वारवन्तीयं नाम संपन्नम् । स्तोत्रकर्मसाधनानां
श्रायन्तीयादिसाम्नामाधारत्वाच्छन्दांसि प्रशस्तानीत्यर्थः ।
तेषु च्छन्दःसु बृहतीं विशेषेण प्रशंसति-
तस्या॒ वाच॑ ए॒वाव॑पा॒दाद॑बिभयुः। तस्मा॑ ए॒तानि॑ स॒प्त
च॑तुरुत्त॒राणि॒ च्छन्दाँ॑स्युपा॑दधुः । तेषा॑मत्ति
त्रीण्य॑रिच्यन्त । न त्रीण्युद॑भवन् (१) । स
बृ॒ह॒तीमे॒वास्पृ॑शत् । द्वाभ्या॑म॒क्षरा॑भ्याम् ।
अ॒हो॒रा॒त्राभ्या॑मे॒व, इति ।
च्छन्दः स्वाहित्यं स्थापयित्वाऽपि तेषां च्छन्दसां न्यूनाधिकभावेन
कार्यक्षमत्वाभावमाशङ्कमाना देवाः पुनरादित्यपाताद्भीताः सन्तस्तेष्वेव
च्छन्दःसु कार्यक्षममेकं छन्दोऽन्विच्छन्तस्तानि सप्तापि
च्छन्दांस्यादित्यसमीपे स्थापितवन्तः । चत्वार्युष्णिग-
नुष्टुप्पङ्क्तिबृहत्येतान्युत्तराणि येषां गायत्रीत्रिष्टुब्जगतीत्येषां प्रसिद्धानां
मुख्यच्छन्दसां तानि मुख्यच्छन्दांसि चतुरुत्तराणि तानि च मिलित्वा
सप्तसंख्याकानि तेषां सप्तानां मध्ये त्रीणि
पङ्क्तित्रिष्टुब्जगतीत्येतान्यत्यरिच्यन्त । यदा बृहतीं कृत्वा गानं क्रियते
तदानीमेतेष्वक्षराण्यधिकानि भवेयुः । तर्थी त्रीणि
गायत्र्युष्णिगनुष्टुबित्येतानि नोद्भवन्नोद्भूतानि बृहतीं पूरयितुं न
२६४ (१.५.१२) तैत्तिरीयब्राह्मणम्
समर्थानि । कैश्चिदक्षरैर्न्यूनत्वात् । स च न्यूनाधिकभावः श्रुत्यैव
दर्शयिष्यते । तदानीं स आदित्यस्तानि षडपि च्छन्दांसि परित्यज्य
बृहतीमेवस्वकार्यक्षमियमित्थेवं स्पृष्टवान् । सा च बृहती स्वकार्येषु षट्
त्रिंशदक्षरेषु द्वे एवाक्षरे अहोरात्ररूपतामापाद्य ताभ्यामादित्यस्योपकरोति ।
तावताऽधः प॑तिभीतिर्निवृत्ता ।
अथ प्रश्नोत्तराभ्यां बृहतीमहिमानं दर्शयति-
तदा॑हुः । क॒तमा सा दे॒वाक्ष॑रा बृह॒ती । यस्यां॑
तत्प्र॒त्यति॑ष्ठत् । द्वाद॑श पौर्णमा॒स्य॑ः । द्वाद॒शाष्ट॑काः ।
द्वाद॑शामावा॒स्या॑ः । ए॒षा वाव सा दे॒वाक्ष॑रा बृह॒ती (२) ।
यस्यां॑ तत्प्र॒त्यति॑ष्ठ॒दिति॑, इति ।
बृहती द्विविधा-शब्दात्मिका देवतात्मिका चेति । तस्या
अवयवभूतान्यक्षराणि च द्विविधानि- शब्दात्मकानि देवतात्मकानि च ।
न क्षरत्येभिर्द्विविधैरवयवैरिति व्युत्पत्या द्विविधा अप्यवयवा
अक्षरशब्दवाच्याः । तत्र शब्दात्मकाक्षरावयवाः “पुनानः सोम”
इत्यादिश्वृक्षु प्रसिद्धः । देवतारूपाक्षरावयवैर्युक्ता देवतारूपा या बृहती
तस्यामादित्यमण्डलं प्रतिष्ठितम् । सा च बृहती तदवयवाश्च कीदृशीति
पप्रच्छुः । तत्राभिज्ञ उत्तरं ब्रूते । पौर्णमास्यः कृष्णाष्टम्योऽमावास्याश्च
संवत्सरगताः सर्वा मिलित्वा देवतारूपा अक्षरावयवाः । तत्संघारूपेयं
बृहती देवताऽऽदित्यमण्डलस्याऽऽधारभूता । तया
धारितमादित्यमण्डलमधो न पततीति स्तोत्रगानकाले भावनार्थमिदं
देवतारूपं निरूप्यते ।
अथ देवतारूपाणां छन्दसां संवादमुखेन सर्वेषां प्रशस्तं बृहतीरूपत्वं
संपादयति-
यानि॑ च॒ च्छन्दा ँ'स्यत्यरि॑च्यन्त । यानि॑ च॒ नोद भ॑वन् ।
तानि॒ निर्वी॑र्याणि ही॒नान्य॑मन्यन्त । साऽब्र॑वीद् बृह॒ती ।
मामे॒व भू॒त्वा । मामुप॒स ँ' श्र॑ यतेति॑ ।
च॒तुर्भि॑रक्षरै॑रनु॒ष्टुब्बृ॑ह॒तीं नोद॑भवत् । च॒तुर्भि॑रक्षरैः
प॒ङ्क्तिर्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तानि॑
तैत्तिरीयब्राह्मणम् (१.५.१२) २६५
च॒त्वार्य॑क्ष॒राण्यप॑च्छि॒द्याऽऽद॑धात् (३) । ते बृ॒ह॒ती ए॒व
भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति ।
यानि पङ्क्त्यादीनि बृहत्या अधिकाक्षराणि यानि चानुष्टुबादीनि
बृहतीं पूरयितुं न पर्याप्तानि तानि द्विविधान्यपि स्वमनस्येवममन्यन्त ।
वयं निर्वीर्याणि बृहतीकार्यं संपादयितुमसमर्थान्यतो हीनान्यधामानीति ।
तेषां खेदं दृष्ट्वा तत्परिहारोपायं सा बृहती देवताऽ ब्रवीत् । ह छन्दांसि
यूयं मामेव भूत्वा प्राप्य मदीयामेवाक्षरसंख्यां धृत्वेत्यर्थः । ततो मामुपेत्य
सम्यक्सेवध्वमिति । तत्रानुष्टुभो द्वात्रिंशदक्षरत्वाद् बृहत्याः षट्-
त्रिंशदक्षरत्वाच्चतुर्भिरक्षरैरियमनुष्टुब्धृहतीं पूरयितुं न समर्था । पङ्क्तेः
पञ्चभिः पादैरुपेतत्वादेकैकस्य पादस्याष्टाक्षरत्वे सति चत्वारिंशदक्षरा
पङ्क्तिः संपद्यते । चतुर्भिरक्षरैः पङ्क्तिर्बृहत्या अधिका । तस्यां पङ्क्तौ
विद्यमानान्येतानि चत्वार्यधिकाक्षराण्यपच्छिद्येयं बृहती न्यूनायामनुष्टुभि
स्थापितवती । ततस्ते पङ्क्त्यनुष्टुभौ बृहत्यावेव भूत्वा तां बृहतीमुपेत्य
सम्यगसेवेताम् । एकस्य न्यूनाधिकयुग्मस्य बृहतीत्वं संपादितम् ।
अथान्ययोर्युग्म्योरपि तत्संपादयति-
अ॒ष्टाभि॑र॒क्षरै॑रु॒ष्णिग्बृ॑ह॒तीं नोद॑भवत् । अ॒ष्टाभि॑र॒क्षरै॑-
स्त्रि॒ष्टुग्बृ॑ह॒तीमत्य॑रिच्यत । तस्या॑मे॒तान्य॒ष्टाव॒क्षरा॑ण्य
प॑च्छि॒द्याऽऽद॑धात् । ते बृ॒ह॒ती ए॒व भू॒त्वा ।
बृ॒ह॒तीमुप॒सर्म॑श्रयताम् । द्वाद॑शभि॑र॒क्षरै॒र्गाय॒त्री
बृ॒ह॒तीनाद॑भवत् । द्वाद॑शभि॑र॒क्षरै॒र्जग॑ती बृ॒ह॒तीमत्य॑रिच्यत ।
तस्या॑मे॒तानि॒ द्वाद॑शा॒क्षरा॑ण्यप॒च्छिद्या॑ऽऽदधात् (४) । ते
बृ॒ह॒ती ए॒व भू॒त्वा । बृ॒ह॒तीमुप॒सर्म॑श्रयताम्, इति ।
उष्णिगष्टाविंशत्यक्षरा प्रसिद्धमन्यत् ।
अथानुसंधानार्थं रथरूपकं परिकल्पयति-
सो॑ऽब्रवीत्प्र॒जाप॑तिः । छन्दा॑ ँ सि॒ रथो॑ मे भवत॒ ।
यु॒ष्माभि॑र॒हमे॒तमध्वान॒मनु॑संच॒राणीति॑ । तस्य॑ गाय॒त्री च॒
जग॑ती च प॒क्षाव॑भवताम् । उ॒ष्णिच् च॑ त्रि॒ष्टुप् च॑ प्र॒ष्टी॑ ।
अनु॒ष्टुप् च॑ प॒ङ्क्तिश्च॒ धुर्यौ॑ । बृ॒ह॒त्यै॑वोद्धिर॑भवत् । स ए॒तं
२६६ (१.५.१२) तैत्तिरीयब्राह्मणम्
छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒सम॑चरत् । ए॒त ँह॒ वै
छन्दो॑रथ॒मास्था॑य । ए॒तमध्वा॑न॒मनु॒संच॑रति । येनै॑ष
ए॒तत्संचर॑ति । य ए॒वं वि॒द्वान्त्सोमे॑न॒ यज॑ते । य उ॑ चैनमे॒वं
वैद॑ (५), इति ।
अभवन्वाव सा देवाक्षरा बृ॒ह्त्य॑दधा॒द्द्वाद॑शा॒क्षरा॑ण्य-
पृ॒च्छ॒द्यो॑द॒धादा॒स्थाय॒ षट् च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
पञ्चमाध्याये द्वादशोऽनुवाकः ॥ १२ ॥
अग्नेः कृत्तिका यत्पुण्यं देवस्य॑ सवि॒तुर्ब्रह्मवादिनः कत्य॒तमेव दे॒वा
वा आ॑यु॑ष॒ इन्द्रो॑ दधीचो दे॒वासु॑राः स प्र॒जाप॑तिः स स॑मु॒द्रो ये॑ वै
च॒त्वार॒स्तस्या॑ वा॒चो द्वाद॑श । अग्नेः कृत्तिका॑ देवगृहा वा ऋ॒तम॑व॒र्ध्यामैव
ति॒स्रः परा॑ची॒र्यवै च॒त्वारो॒ नव॑पञ्चाशत् ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे
प्रथमाष्टके पञ्चमोऽध्यायः ॥ ५ ॥
स प्रजापतिरादित्यरूपेणाऽऽकाशमार्गे गन्तुमेवमुवाच । हे छन्दांसि
गायत्र्यादीनि यूयं मदर्थं रथाकारं प्राप्नुत । रथाकारैर्युष्माभिरहमेत-
माकाशाध्वानमनुदिनं संचराणीति । ततस्तस्य प्रजापतेर्गमनार्थं
गायत्रीजगत्यौ पक्षौ रथस्य चक्रे अभवताम् । उष्णिक्त्रिष्टुभौ
प्रष्ट्यावीषारूपे दीर्घकाष्ठे अभवताम् । अनुष्टुप्पङ्क्त्यौ धुरि
योजनीयावश्वावभवताम् । बृह्त्येबोद्धिरूर्ध्वस्थापनीय पीठसमानोप-
वेशनफलकरूपाऽभूत् । स प्रजापतिस्तादृशं रथमारुह्यानुदिनमेतन्मार्गं
संचरति । यः पुमानेवं रथमनुसंदधानः सोमेन यजते यश्चैनं रथमेवं ध्यायति
स एष उभयविधोऽपि पुरुषो येनाध्वनैष प्रजापतिरेतद् दृश्यमानं स्थानं
संचरति तमेतमेवाध्वानं छन्दोरथामरूढोऽनुदिनं संचरति। अत्रैवं
विद्वाञ्त्सोमेन यजत इति वाक्य एवं शब्देन देवासुरा इत्याद्यनुवाक-
चतुष्टयोक्तः साङ्गः सोमयागाकारः परामृश्यते । अतोऽयं सोमयागस्य
प्रयोगविधिर्द्रष्टव्यः।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
पञ्चमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
अथास्य प्रपाठकस्य़ानुवाकार्थः संगृह्यते-
नक्षत्राख्येष्टकाः मन्त्राः पञ्चमाद्ये समीरिताः ।
ब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥
तैत्तिरीयब्राह्मणम् (१५.१२) २६७
नक्षत्रद्वारकः पुण्यः काल उक्तो द्वितीयेके ॥
हेयाहेयावहर्भागौ तृतीये समुदीरितौ ।
तुर्ये पात्रोक्तिरन्यस्मिन्मन्त्रा वपनगाः श्रुताः ॥
षष्ठे तद्ब्राह्मणं मन्त्रा इष्टकार्था द्वयोः श्रुताः॥
चतुर्षु नवमाद्येषु साङ्गः सोम उदीरितः ॥
औपानुवाक्यरूपः स्यात्पञ्चमोऽयं प्रपाठकः ।
ब्राह्मणं राजसूयस्य प्रोक्तं षष्ठे च सप्तमे ॥
अष्टमे संहितायां तु समन्त्रा विधयः श्रुताः।
विधिव्याख्यानरूपत्वादनुब्राह्मणमुच्यते ॥
प्रतिप्रपाठकं तत्रानुवाका दश वर्णिताः ।
षष्ठस्याऽऽद्येऽनुमत्याद्या इष्टयोऽथ द्वितीयेके ॥
वरुणस्य प्रघासाः स्युस्तुर्ये शेषस्तु पञ्चमे ॥
साकमेधास्तु षष्ठे स्युस्तच्छेषः सप्तमे भवेत् ।
अष्टमे पितृयज्ञः स्यात्तच्छेषो नवमे स्मृतः ॥
दशमे त्र्यम्बकाणि स्युरिति षष्ठः समापितः ।
सप्तमाद्ये शुनासीरीयेन्द्रतुर्ये उभे तथा ॥
पञ्चाध्मीयमपामार्गहोमाश्चत्वार ईरिताः ॥
द्वितीये देविकादीनि तृतीये रत्निनां हविः ॥
तुर्ये हविर्देवसुवां पञ्चमे तु जलाहृतिः ।
षष्ठे स्याजलसंस्कारो दिग्विजयध्यानमुत्तरे ॥
अभिषेकोऽष्टमे प्रोक्तो रथारोहणमुत्तरे ।
दशमे सेव्यते सर्वैः सप्तमोऽयं प्रपाठकः ॥
अष्टमाद्ये हवींषि स्युः संसृपां दशपेयकः ।
द्वितीये वेष्टयोऽ यस्मिंश्चतुर्थे प्रयुजां हविः ॥
सौत्रामणिर्द्वयोः प्रोक्तः पवित्रा हस्तु सप्तमे ।
अभिषेच्योऽप्यष्टमे तु विशेषः साममन्त्रयोः ॥
शेषोऽभिषेकगेऽन्यस्मिन्दशमे तु द्विरात्रकः ।
क्षत्रस्य धृतिरित्येवमष्टमोऽयं प्रपाठकः ।
अक्षरार्थः संहितायां तन्मन्त्रविधिभिः सह ।
२६८ (१.६.१) तैत्तिरीयब्राह्मणम्
व्याख्यातोऽवेक्ष्यतां तत्र काण्डोऽत्र समापितः ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमकाण्डे
पञ्चमषष्ठसप्तमाष्टमप्रपाठकाः
समाप्ताः ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥
इति श्रीराजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्रीवीरबुक्कराज-
ज्ञापालकेन माधवामात्येन विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डः समाप्तः॥ १ ॥
(मूलक्रमेण-अष्ट.-१ अध्या. ५ अनु. १२ (४८) ।
(भाष्यक्रमेण- का. १ प्रपा. ८ अनु. ४२ (६८) ।
अथ प्रथमाष्टके षष्ठः प्रपाठकः ।
तत्र प्रथमोऽनुवाकः ।
अनु॑मत्यै पुरोडाश॑म॒ष्टाक॑पालं॒ निर्व॑पति । ये प्र॒त्यञ्च॑:
शम्या॑या अ॒वशीर्य॑न्ते । तन्नैऋ॑तमेक॑कपालम् । इ॒यं वा
अनु॑मतिः। इ॒यं निर्ऋ॑तिः । नैऋ॑ते॒न पूर्वे॑ण॒ प्रच॑रति।
पा॒प्मान॑मे॒व निर्ऋ॑तिं पू॒र्वां निरव॑दयते । एक॑कपालो
भव॑ति । एक॑धैव निर्ऋ॑तिं॒ निरव॑दयते । यदहु॑त्वा॒ गार्ह॑पत्य
ईयुः (१)। रुद्रो भू॒त्वाऽग्नि॒रनूत्थाय॑ । अ॒ध्व॒र्युं च॒ यज॑मानं
च ह॑न्यात् । वी॒हि स्वाहाऽऽहु॑तिं जुषा॒ण इत्या॑ह ।
आहु॑त्यै॒वैन॑ ँ शमयति । नार्ति॒मार्छ॒त्यध्व॒र्युर्न यज॑मानः।
एकोल्मु॒कं न॑यन्ति । तद्धि निर्ऋ॑त्यै भा॒ग॒धेय॑म् । इ॒मां दिशं॑
नयति । ए॒षा वै निर्ऋ॑त्यै॒ दिक् । स्वाया॑मे॒व दिशि॒ निर्ऋ॑तिं
निरव॑दयते (२) स्वकृ॑त इरि॑णे जुहोति प्र॒दरे॒ वा॑ । ए॒तद्वै
निर्ऋ॑त्या आ॒यत॑नम् । स्व ए॒वाऽऽयत॑ने॒ निर्ऋ॑तिं