सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

तृतीयोऽङ्कः । २७
वासवदत्ता — (क) आणेहि । (आत्मगतम्) इमं गुह्मामि
मन्दभाआ । (वर्जयित्वा* विलोक्य) इमं दाव ओसहं किं णाम ।
चेटी — (ख) अविहवाकरणं णाम ।
वासवदत्ता—(ग) (आत्मगतम्) इदं बहुसो गुह्निदव्वं मम
अ पदुमावदीए अ । (प्रकाशम्) इमं दाव ओसहं किं णाम ।
चेटी — (घ) सवत्तिमद्दणं णाम ।
वासवदत्ता —(ङ) इदं ण गुह्निदव्वं ।
चेटी — (च) कीस ।
वासवदत्ता— (छ) उबरदा तस्स भय्या, तं णिप्पओ-
अणं त्ति ।
(प्रविश्यापरा)
चेटी — (ज) तुवरदुं२ तुवरदु अय्या । एसो जामादुओ अवि-
हवाहि अब्भन्तरचउस्साळं पवेसीअदि ।
(क) आनय । इयं गुम्फामि मन्दभागा । इदं तावदौषधं किं नाम ।
(ख) अविधवाकरणं नाम ।
(ग) इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश्च । इदं तावदौषधं किं नाम ।
(घ) सपत्नीमर्दनं नाम ।
(ङ) इदं न गुम्फितव्यम् ।
(च) कस्मात् ।
(छ) उपरता तस्य भार्या, तन्निष्प्रयोजनमिति ।
(ज) त्वरतां त्वरतामार्या । एष जामाता अविधवाभिरभ्यन्तरचतुश्शालं प्रवेश्यते ।
१. ‘आव’(?) ख. पाठः. २. ‘दु दाव·अय्या। जा’ क. पाठः.

  • अपुष्पं किमपि गुम्फनप्रसङ्गे हस्तप्राप्तं परिहृत्येत्यर्थः ।

२८ स्वप्नवासवदत्ते
वासवदत्ता-— (क) अइ ! वदामि, गह्ल एदं ।
चेटी — (ख) हेळा ! वासो ओणअव्वे‡ । गच्छामि दाव
अहं ।
(उभे निष्क्रान्ते)
वासवदत्ता²—(ग) गदा एसा । अहो अच्छाहिदं ।
अय्यउत्तो वि णाम परकेरओ संवृत्तौ³ । अविदा* सय्याए मम
दुक्खं विणोदेमि, जदि णिद्दं ळभामि ।
(निष्क्रान्ता)
तृतीयोऽङ्कः ।
──────
(क) अयि ! वदामि, गृहाणैतत् ।
(ख) हला! वास आनेतव्यम् । गच्छामि तावदहम् ।
(ग) गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपिनाम परकीयः संवृत्तः । अविदा
शय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे ।
१. 'दृळा ग' क. पाठः. २. 'त्ता - अ' क. पाठः. ३. 'त्तो । (नि' क. पाठः.
‡ 'आणेअव्वे' इति स्यात्। * 'अविदा' इति निर्वेदे ।

अथ चतुर्थोऽङ्कः ।
(ततः प्रविशति विदूषकः)
विदूषकः— (सहर्षम्) (क) दिट्ठिआ तत्तहोदो वच्छराअस्स
अभिप्पेदविवाहमङ्गलारमणिज्जो काळो दिट्ठो । को णाम एदं
जाणादि— तादिसे वयं अणत्थसळिळावत्ते पक्खित्ता उण
उम्मज्जिस्सामो त्ति । इदाणीं पासादेसु वसीअदि, अन्तेउर-
दिग्घिआसु ह्नाईअदि, पळममउरसुउमाराणि मोदअखज्जआणि
खज्जीअन्ति त्ति अणच्छरसंवासो उत्तरकुरुवासो मए अणुभ-
वीअदि । एक्को खु महन्तो दोसो, मम आहारो सुट्ठु ण परिणमदि ।
सुप्पच्छदणाए सय्याए णिद्दं ण ळभामि, जह वादसोणिदं
अभिदो विअ वत्तदि त्ति पेक्खामि । भो ‡सुहं णामयपरिभूदं
अकळ्ळवत्तं च ।
(क) दिष्ट्या तत्रभवतो वत्सराजस्याभिप्रेतविवाहमङ्गलारमणीयः कालो दृष्टः ।
को नामैतज्जानाति—तादृशे वयमनर्थसलिलावर्ते प्रक्षिप्ताः पुनरुन्मङ्क्ष्याम इति। इदानीं
प्रासादेषु उष्यते, अन्तःपुरदीर्घिकासु स्नायते, परममधुरसुकुमाराणि मोदकखाद्यानि
खाद्यन्त इति अनप्सरस्संवास उत्तरकुरुवासो मयानुभूयते । एकः खलु महान् दोषः,
ममाहारः सुष्ठु न परिणमति, सुप्रच्छदनायां शय्यायां निद्रां न लभे, यथा
वातशोणितमभित इव वर्तत इति प्रेक्षे। भोः सुखं नामयपरिभूतमकल्यवर्तं च ।
१. 'हृण्णा अविभू (?) ख. पाठः.
‡ आमयपरिभूतं कल्यवर्तशून्यं च सुखं न भवतीत्यर्थः ।

३० \t\t\t\tस्वप्नवासवदत्ते
\t\t\t(ततः प्रविशति चेटी)
\tचेटी - (क) कहिंणुखु गदो अय्यवसन्तओ । (परिक्रम्यै)
अह्मो एसो वसन्तओ। (उपगम्य) अय्य! वसन्तअ ! को काळो,
तुमं अण्णेसामि ।
\tविदूषकः - (दृष्ट्वा) (ख) किंणिमित्तं भद्दे ! मं अण्णेसॅसि ।
\tचेटी - (ग) अह्माणं भट्टिणी भणादि - अवि व्हादो जामा-
दुओ त्ति ।
\tविदूषकः - (घ) किंणिमित्तं भोदि! पुच्छदि* ।
\tचेटी - (ङ) किमैण्णं । सुमणावण्णअं आणेमि त्ति ।
\tविदूषकः - (च) व्हादो तत्तभवं । सव्वं आणेदु भोदी
वज्जिअ भोअणं ।
\tचेटी - (छ) किंणिमित्त

चतुर्थोऽङ्कः । ५१
विदूषकः — (क) अधण्णस्स मम कोइलाणं अक्खिपरिवट्टो
विअ कुक्खिपरिवट्टो संवुत्तो।
चेटी — (ख) ईदिसा एव्व होहि।
विदूषकः — (ग) गच्छदु भोदी। जाव अहं वि तत्तहोदो
सआसं गच्छामि।
(निष्क्रान्तौ)
प्रवेशकः।
(ततः प्रविशति सपरिवारा पद्मावती १ आवन्तिकावेषरूपधारिणी वासवदत्ता च)
चेटी — (घ) किंनिमित्तं भट्टिदारिआ पमदवणं आअदा।
पद्मावती — (ङ) हल्ळा ! ताणि दाव सेहालिआगुह्मआणि २
पेक्खामि कुसुमिदाणि वा ण वेत्ति।
चेटी — (च) भट्टिदारिए ! ताणि कुसुमिदाणि णाम, पवाळ
न्तरिदेहिं विअ मोत्तिआलम्बएहिं आइदाणि कुसुमेहिं।
पद्मावती — (छ) हल्ळा ! जदि एव्वं, किं दाणिं विळम्बेसि।
(क) अधन्यस्य मम कोकिलानाम् अक्षिपरिवर्त इव कुक्षिपरिवर्तः संवृत्तः।
(ख) ईदृश एव भव।
(ग) गच्छतु भवती। यावदहमपि तत्रभवतः सकाशं गच्छामि।
(घ) किंनिमित्तं भर्तृदारिका प्रमदवनमागता।
(ङ) हला ! ते तावद् शेफालिकागुल्मकाः प्रेक्षे कुसुमिता वा नवेति।
(च) भर्तृदारिके ! ते कुसुमिता नाम, प्रवालान्तरितैरिव मौक्तिकालम्बकैराचिताः
कुसुमैः।
(छ) हला ! यद्येवं, किमिदानीं विलम्बसे।
१. ती वा क. पाठः. २. 'णि से' ख. पाठः ३. 'वा' क. पाठः

१२ स्वप्नवासवदत्ते
*चेटी — (क) तेण हि इमस्सिं सिलावट्टए मुहुत्तअं उपविसदु
भट्ठिदारिआ। जाव अहं वि कुसुमावचअं करेमि।
पद्मावती — (ख) अय्ये ! किं एत्थ उपविसामो ।
वासवदत्ता — (ग) एव्वं होदु ।
(उभे उपविशतः)
चेटी^१ — (तथा कृत्वा) (घ) पेक्खदु पेक्खदु भट्ठिदारिआ। अद्धा^२
मणसिलावट्टएहिं विअ सेहालिआकुसुमेहि पूरि^३अं मे अञ्जलिं^४।
पद्मावती — (ङ) अहो विइत्तदा कुसुमाणं । पेक्खदु
पेक्खदु अय्या ।
वासवदत्ता^५ — (च) अहो दस्सणीअदा कुसुमाणं ।
चेटी — (छ) भट्ठिदारिए^७! किं भूयो अवइणुस्सम्^६।
पद्मावती — (ज) हळा ! मा मा भूयो^८ अवइणि^९अ ।
(क) तेन ह्यस्मिन् शिलापट्टके मुहूर्तकमुपविशतु भर्तृदारिका । यावदहमपि कुसु-
मावचयं करोमि ।
(ख) आर्ये ! किमत्रोपविशावः ।
(ग) एवं भवतु ।
(घ) पश्यतु पश्यतु भर्तृदारिका । अद्धा मनश्शिलापट्टकैरिव शेफालिकाकुसुमैः
पूरितो मेऽञ्जलिः ।
(ङ) अहो विचित्रता कुसुमानाम् । पश्यतु पश्यत्वार्या ।
(च) अहो दर्शनीयता कुसुमानाम् ।
(छ) भर्तृदारिके! किं भूयोऽवचेष्यामि ।
(ज) हला ! मा मा भूयोऽवचित्य ।
१. 'टी-पे' क. पाठः. २. 'अ(?)मण' ख. पाठः. ३. 'दा' ख. पाठः. ४. 'झळी'
ख. पाठः. ५. 'त्ता- अव्वो(?) । चे' ख. पाठः ६. 'वि अ विउणिस्सं' ख. पाठः.
७. 'रु' ख.पाठः. ८. 'वि' ख. पाठः. ९. 'णु' ख. पाठः.

  • 'चेटी' इत्यादि 'उपविशतः' इत्यन्तं ख, पुस्तके नास्ति।

चतुर्थोऽङ्कः। ३३
वासवदत्ता — (क) हळा! किणिमित्तं वारेसि ।
पद्मावती — (ख) अय्यउत्तो* इह आअच्छिअ इमं कुसुम-
समिद्धिं पेक्खिअ सम्माणिदा भवेअं ।
वासवदत्ता — (ग) हळा! पिओ दे भत्ता ।
पद्मावती — (घ) अय्ये ! ण आणामि, अय्यउत्तेण विर-
हिदा उक्कण्ठिदौ होमि ।
वासवदत्ता—(आत्मगतम्) (ङ) दुक्करं खु अहं करेमि । इअं
वि णाम एव्वं मन्तेदि ।
चेटी — (च) अभिजॉदं खु भट्टिदारिआए मन्तिदं—पिओ
मे भत्तत्ति ।
पद्मावती — (छ) एक्को खु मे सन्देहो ।
वासवदत्ता — (ज) किं किं ।
(क) हला! किन्निमित्तं वारयसि ।
(ख) आर्यपुत्र इहागत्येमां कुसुमसमृद्धिं दृष्ट्वा सम्मानिता भवेयम् ।
(ग) हला! प्रियस्ते भर्ता ।
(घ) आर्ये ! न जानामि, आर्यपुत्रेण विरहितोत्कण्ठिता भवामि ।
(ङ) दुष्करं खल्वहं करोमि । इयमपि नामैवं मन्त्रयते ।
(च) अभिजातं खलु भर्तृदारिकया मन्त्रितं । प्रियो मे भर्तेति ।
(छ) एकः खलु मे सन्देहः ।
(ज) किं किम् ।
१. 'हं' ख. पाठः. २. 'अ' ख. पाठः. ३. 'दा विअ हो' ख. पाठः. ४. 'जादं' ख. पाठः. ५. 'आ मं' ख. पाठः.

  • 'अय्यउत्तेण' इति पाठो लेखकप्रमादाद् भ्रष्टो भवेत्।

३४ स्वप्नवासवदत्ते
पद्मावती — (क) जह मम अय्यउत्तो, तह एव्व अय्याए
वासवदत्ताए त्ति ।
वासवदत्ता — (ख) अदो वि अधिअं ।
पद्मावती — (ग) कहं तुवं जाणासि ।
वासवदत्ता — (आत्मगतम्) (घ) हं १, अय्यउत्तुपक्खवादेण
अदिक्कन्दो समुदाआरो २ । एव्वं दाव भणिस्सं । (प्रकाशम्)
जइ अप्पो सिणेहो, सा सँजणं ३ ण परित्तजदि ४ ।
पद्मावती — (ङ) होदव्वं ।
चेटी — (च) भट्टिदारिए ! साहु भट्तारं भणाहि—अहं पि
वीणं सिक्खिस्सामि त्ति ।
पद्मावती — (छ) उत्तो मए अय्यउत्तो ।
वासवदत्ता — (ज) तदो किं भणिदं ।
(क) यथा ममार्यपुत्रस्तथैवार्याया वासवदत्ताया इति ।
(ख) अतोऽप्यधिकम् ।
(ग) कथं त्वं जानासि ।
(घ) हम्, आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । एवं तावद् भणिष्यामि ।
यद्यल्पः स्नेहः, सा स्वजनं न परित्यजति ।
(ङ) भवितव्यम् ।
(च) भर्तृदारिके ! साधु भर्तारं भण—अहमपि वीणां शिक्षिष्य इति ।
(छ) उक्तो मयार्यपुत्रः ।
(ज) ततः किं भणितम् ।
१. ‘हा’ ख. पाठः. २. ‘रो । भोदु । ए’ ख. पाठः. ३. ‘स्सत्तणं’ ख. पाठः. ४. ‘इ’
ख. पाठः. ५. ‘त्तो’ क. पाठः.

चतुर्थोऽङ्कः। ३५
पद्मावती — (क) अभणिअ किञ्चि दिग्घं णिस्सासिअ
तुह्णीओ संवृत्तो।
वासवदत्ता — (ख) तदो तुवं किं३ विअ तक्केसि।
पद्मावती — (ग) तक्केमि अय्याए वासवदत्ताए गुणाणि
सुमरिअ दक्खिणदाए मम अग्गदो ण रोदिदित्ति।
वासवदत्ता — (आत्मगतम्) (घ) धण्णा खु ह्मि, जदि एव्वं
सच्चं भवे।
(ततः प्रविशति राजा विदूषकश्च)
विदूषकः — (ङ) ही ही। पँचिअपडिअबन्धुजीवकु-
सुमविरळे५वादरमणिज्जं पमदवणं। इंदो६ दाव भवं।
राजा — वयस्य वसन्तक ! अयमर्थ्यमागच्छामि।
कामेनोज्जयिनीं गते मयि तदा कामप्यवस्थां गते
दृष्ट्वा स्वैरमवन्तिराजतनयां पञ्चेषवः पातिताः।
तैरद्यापि सशल्यमेव हृदयं भूयश्च विद्धा वयं
पञ्चेषुर्मदनो यदा कथमयं षष्ठः शरः पातितः ॥ १ ॥
(क) अभणित्वा किञ्चिद् दीर्घं निःश्वस्य तूष्णीकः संवृत्तः।
(ख) ततस्त्वं किमिव तर्कयसि।
(ग) तर्कयाम्यर्याया वासवदत्ताया गुणान् स्मृत्वा दक्षिणतया ममाग्रतो न
रोदितीति।
(घ) धन्या खल्वस्मि, यद्येवं सत्यं भवेत्।
(ङ) ही ही प्रचितपतितबन्धुजीवकुसुमविरलपातरमणीयं प्रमदवनम्। इतस्तावद्
भवान्।
१. 'ती--किं' ख. पाठः. २. 'ह्नि' ख. पाठः. ३. 'किंतित' ख. पाठः. ४. 'णवविवांहधिअब'
ख.पाठः. ५. 'ळसंपातर' ख. पाठः. ६. 'दो इदो दा' ख. पाठः. ७. 'हृ' ख. पाठः.

३६ स्वप्नवासवदत्ते
विदूषकः — (क) कहिंणुखु गदा तत्तहोदी पदुमावदी,
ळदामण्डवं गदा भवे, उदाहो असणकुसुममञ्चिदं वग्घचम्मा-
वगुण्ठिदं विअ पव्वदतिलअणामसिलापट्टअं गदा भवे, आहु
अधिअकडुँअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव, आळिहिद-
मिअपक्खिसङ्कुळं दारुपव्वदेअं गदा भवे । (ऊर्ध्वमवलोक्य) ही ही
सरअकाळणिम्मळे अन्तरिक्खे पसा(अ?इ)अबळदेवबाहुदंसणीअं३
सारसपन्ति जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं ।
राजा — वयस्य ! पश्याम्येनाम्,
ऋज्वायतां च विरलां च नतोन्नतां च
सप्तर्षिवंशकुटिलां च निवर्तनेषु ।
निर्मुच्यमानभुजगोदरनिर्मलस्य
सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ २ ॥
चेटी — (ख) पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणद-
माळापण्डररमणीअं सारसपन्ति जाव समाहिदं गच्छन्तिं । अम्मो
भट्टा ।
(क) कुत्रनुखलु गता तत्रभवती पद्मावती, लतामण्डपं गता भवेद्, उताहो असन-
कुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकनामशिलापट्टकं गता भवेद्, अथवा
अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालेखितमृगपक्षिसङ्कुलं दारु-
पर्वतकं गता भवेद् । ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसारितबलदेवबाहुदर्शनीयां
सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान् ।
(ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं
यावत् समाहितं गच्छन्तीम् । अम्मो भर्ता ।
१. 'इ' ख पाठः. २. 'दग' ख. पाठः. ३. 'आ सारसव(ती?त्ती) जाव समाहिदाग-
च्छदि' ख पाठः. ४. 'णिञ्जसारसपन्ती जाव समाहिदा गच्छदि' ख. पाठः.

चतुर्थोऽङ्कः । ३७
पद्मावती — (क) हेळा ! अय्यउत्तो । अय्ये ! तव कार-
णादो अय्यउत्तदंसणं परिहरामि । ता इमं दाव माहवीमण्डवं
पविसामो ।
वासवदत्ता — (ख) एवं होदु ।
(तथा कुर्वन्ति)
विदूषकः — (ग) तत्तहोदी पदुमावदी इह आअच्छिअ
णिग्गदा भवे ।
राजा — कथं भवान् जानाति ।
विदूषकः — (घ) इमाणि अवइदॆकुसुमाणि सेफाळिआगु-
च्छआणि पेक्खदु दाव भवं ।
राजा — अहो विचित्रता कुसुमस्य वसन्तक ! ।
वासवदत्ता — (आत्मगतम्) (ङ) वसन्तअसङ्कित्तणेण अहं
पुण जाणामि उज्जइणीए वत्तामि त्ति ।
राजा — वसन्तक ! अस्मिन्नेवासीनौ शिलातले पद्मावर्ती
प्रतीक्षिष्यावहे ।
विदूषकः — (च) भो ! तह । (उपविश्योत्थाय) सैरअकाळति-
क्खो दुस्सहो आदवो । ता इमं दाव माहवीमण्डवं पविसामो ।
(क) हला ! आर्यपुत्रः । आर्ये ! तव कारणादार्यपुत्रदर्शनं परिहरामि । तदिमं
तावन्माधवीमण्डपं प्रविशामः ।
(ख) एवं भवतु ।
(ग) तत्रभवती पद्मावतीहागत्य निर्गता भवेत् ।
(घ) इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् ।
(ङ) वसन्तकसङ्कीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्ते इति ।
(च) भोस्तथा । शरत्कालतीक्ष्णो दुःसह आतपः । तदिमं तावन्माधवीमण्डपं
प्रविशावः ।
१. 'हा अ' ख. पाठः. २. 'दाणि सेफाळिआकुसुमाणि पे' ख. पाठः, ३. 'ही ही स'
ख. पाठः.

३८ स्वप्नवासवदत्ते
राजा — बाढम् । गच्छाग्रतः ।
विदूषकः — (क) एव्वं होदु ।
(उभौ परिक्रामतः)
पद्मावती — (ख) सव्वं आउळं कत्तुकामो अय्यवसन्त-
ओ । किं दाणिं करेह्म ।
चेटी — (ग) भट्टिदारिए ! एदं महुअरपरिणीलीणं ओळंबळदं
ओधूय भट्ठारं वारइस्सं ।
पद्मावती — (घ) एव्वं करेहि ।
(चेटी तथा करोति)
विदूषकः — (ङ) अविह अविह, चिट्ठदु चिट्ठदु दाव भवं ।
राजा — १किमर्थम् ।
विदूषकः — (च) दासीएपुत्तेहि महुअरेहि पीडिदो ह्नि ।
राजा — मा मा भवानेवम् । मधुकरसन्त्रासः२ परिहार्यः ।
पश्य,
मधुमदकला मधुकरा मदनातार्ताभिः प्रियाभिरुपगूढाः ।
पादन्यासविषण्णा वयमिव कान्तावियुक्ताः स्युः ॥ ३ ॥
तस्मादिहैवासिष्यावहे ।
(क) एवं भवतु ।
(ख) सर्वमाकुलं कर्तुकाम आर्यवसन्तकः । किमिदानीं कुर्मः ।
(ग) भर्तृदारिके ! एतां मधुकरपरिनीलिनामवलम्बलतामवधूय भर्तारं वारयि-
ष्यामि ।
(घ) एवं कुरु ।
(ङ) अविह अविह, तिष्ठतु तिष्ठतु तावद् भवान् ।
(च) दास्याःपुत्रैर्मधुकरैः पीडितोऽस्मि ।
१. 'अथकिम्' ख. पाठः. २. 'सं' ख. पाठः.

चतुर्थोऽङ्कः। ३९
विदूषकः - (क) एव्वं होदु ।
(उभावुपविशतः)
पद्मावती - (ख) दिट्ठिआ उवविट्ठो अय्यउत्तो ।
वासवदत्ता - (आत्मगतम्) (ग) दिट्ठिआ पकिदित्थसरीरो
अय्यउत्तो ।
चेटी - (घ) भट्टिदारिए ! रुद्धा खु ह्म वयं । भट्टिदारिए !
सस्सुपादा खु अय्याए दिट्ठी ।
वासवदत्ता - (ङ) एसा खु महुअराणं अविणआदो
कासकुसुमरेणुणा पडिदेण सोदआ मे दिट्ठी ।
पद्मावती - (च) जुज्जइ ।
विदूषकः - (छ) भो ! सुण्णं खु इदं पमदवणं । पुच्छि-
दव्वं किञ्चि अत्थि । पुच्छामि भवन्तं ।
राजा - छन्दतः ।
(क) एवं भवतु ।
(ख) दिष्ट्योपविष्ट आर्यपुत्रः ।
(ग) दिष्ट्या प्रकृतिस्थशरीर आर्यपुत्रः ।
(घ) भर्तृदारिके ! रुद्धा खलु स्मो वयम् । भर्तृदारिके ! साश्रुपाता खल्वार्याया
दृष्टिः ।
(ङ) एषा खलु मधुकराणामविनयात् काशकुसुमरेणुना पतितेन सोदका मे
दृष्टिः ।
(च) युज्यते ।
(छ) भोः ! शून्यं खल्विदं प्रमदवनम् । प्रष्टव्यं किञ्चिदस्ति । पृच्छामि भवन्तम् ।

४० स्वप्नवासवदत्ते
विदूषकः — (क) का भवदो पिआ, तदाणिं तत्तहोदी
वासवदत्ता इदाणिं पडुमावदी वा ।
राजा — किमिदानीं भवान् महति बहुमानसङ्कटे मां
न्यस्यति ।
पद्मावती — (ख) हळा ! जादिसे सङ्कडे निक्खित्तो
अय्यउत्तो ।
वासवदत्ता — (आत्मगतम्) (ग) अहं अ मन्दभाआ ।
विदूषकः — (घ) सेरं सेरं भणादु भवं । एक्का उबरदा,
अवरा असण्णिहिदा ।
राजा — न खलु¹ ब्रूयाम् । भवांस्तु मुखरः ।
पद्मावती — (ङ) एत्तएण भणिदं अय्यउत्तेण ।
विदूषकः — (च) भो ! सव्वेण सवामि, कस्स वि ण
आचक्खिस्सं । एसा सन्दट्ठा मे जीहा ।
राजा — नोत्सहे सखे ! वक्तुम् ।
पद्मावती — (छ) अहो इमस्स पुरोभाइदा । एत्तिएण
हिअअं² ण जाणादि ।
(क) का भवतः प्रिया, तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा ।
(ख) हला ! यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः ।
(ग) अहं च मन्दभागा ।
(घ) स्वैरं स्वैरं भणतु भवान् । एकोपरता, अपरा असन्निहिता ।
(ङ) एतावता भणितमार्यपुत्रेण ।
(च) भोः ! सर्वेण शपामि, कस्यापि नाख्यास्यामि । एषा सन्दष्टा मे जिह्वा ।
(छ) अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति ।
१. 'छुन खलु ब्रू' ख. पाठः. २. 'अं जा' ख. पाठः.

चतुर्थोऽङ्कः । ४१
विदूषकः — (क) किं ण भणादि १ मम । अणाचक्खिअ
इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं । एसो रुद्धो
अत्तभवं ।
राजा — किं बलात्कारेण ।
विदूषकः — (ख) आम, बळकारेण ।
राजा — तेन हि पश्यामस्तावत् ।
विदूषकः — (ग) पसीददु पसीददु भवं । वअस्सभावेण
साविदो, यदि सच्चं ण भणासि ।
राजा — का गतिः । श्रूयताम् ।
पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः ।
वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥ ४ ॥
वासवदत्ता — (आत्मगतम्) (घ) भोदु भोदु । दिण्णं वेदणं
इमस्स परिखेदस्स । अहो अण्णादवासं पि एत्थ बहुगुणं
सम्पज्जइ ।
चेटी — (ङ) भट्टिदारिए ! अदक्खिण्णो खु भट्टा ।
(क) किं न भणति मम । अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि
गन्तुम् । एष रुद्धोऽत्रभवान् ।
(ख) आम, बलात्कारेण ।
(ग) प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितः, यदि सत्यं न भणसि ।
(घ) भवतु भवतु । दत्तं वेतनमस्य परिखेदस्य । अहो अज्ञातवासोऽप्यत्र बहुगुणः
सम्पद्यते ।
(ङ) भर्तृदारिके ! अदाक्षिण्यः खलु भर्ता ।
१. ‘सि’ ख. पाठः. २. ‘अदिद’ ख. पाठः.

४२ स्वप्नवासवदत्ते
पद्मावती — (क) हळा ! मा मा एव्वं । सदक्खिण्णो एव्व
अय्यउत्तो, जो इदाणिं वि अय्याए वासवदत्ताए गुणाणि
सुमरदि ।
वासवदत्ता — (ख) भद्दे ! अभिजणस्स सदिसं मन्तिदं ।
राजा — उक्तं मया । भवानिदानीं कथयतु । का भवतः
प्रिया तदा वासवदत्ता, इदानीं पद्मावती वा ।
पद्मावती — (ग) अय्यउत्तो^२ पि वसन्तओ संवुत्तो ।
विदूषकः — (घ) किं मे विप्पळविदेण । उभओ वि तत्त-
होदीओ मे बहुमदाओ ।
राजा^३—त्रैधेय ! मामेवं बलाच्छ्रुत्वा किमिदानीं नाभिभाषसे ।
विदूषकः — (ङ) किं मं पि बळकारेण ।
राजा — अथकिम् , बलात्कारेण ।
विदूषकः — (च) तेण हि ण सक्कं सोढुं ।
राजा — प्रसीदतु प्रसीदतु महाब्राह्मणः । स्वैरं स्वैरमभि-
धीयताम् ।
(क) हला ! मा मैवम् । सदाक्षिण्य एवार्यपुत्रः, य इदानीमप्यार्याया वासवदत्ताया
गुणान् स्मरति ।
(ख) भद्रे ! अभिजनस्य सदृशं मन्त्रितम् ।
(ग) आर्यपुत्रोऽपि वसन्तकः संवृत्तः ।
(घ) किं मे विप्रलपितेन । उभे अपि तत्रभवत्यौ मे बहुमते ।
(ङ) किं मामपि बलात्कारेण ।
(च) तेन हि न शक्यं श्रोतुम् ।
१. 'न्तिदव्वं' ख. पाठः. २. 'तो व' ख. पाठः. ३. 'जा—अ' ख. पाठः.

विदूषकः — (क) इदाणिं सुणादु भवं । तत्तहोदी वासव-
दत्ता मे बहुमदा । तत्तहोदी पदुमावदी तरुणी दस्सणीआ अको-
वणा अणहङ्कारा महुरवाआ सदक्खिण्णा । अअं च अवरो
महन्तो गुणो, सिणिद्धेण भोअणेण मं पच्चुग्गच्छइ—कहिंणु-
खु गदो अय्यवसन्तओ त्ति ।
वासवदत्ता—(ख) भोदु भोदु, वसन्तअ ! सुमरेहि दाणिं एदं ।
राजा — *भवतु भवतु वसन्तक ! सर्वमेतत् कथयिष्ये देव्यै
वासवदत्तायै ।
विदूषकः — (ग) अविहा वासवदत्ता । कहिं वासवदत्ता ।
चिरा खु उबरदा वासवदत्ता ।
राजा — (सविषादम्) एवम् । उपरता वासवदत्ता,
अनेन परिहासेन व्याक्षिप्तं मे मनस्त्वया ।
ततो वाणी तथैवेयं पूर्वाभ्यासेन निस्सृता ॥ ५ ॥
पद्मावती — (घ) रमणीओ खु कहाजोओ । णिसंसेण
विसंवादिदं ।
(क) इदानीं शृणोतु भवान् । तत्रभवती वासवदत्ता मे बहुमता । तत्रभवती
पद्मावती तरुणी दर्शनीया अकोपना अनहङ्कारा मधुरवाक् सदाक्षिण्या । अयं चाप-
रो महान् गुणः, स्निग्धेन भोजनेन मां प्रत्युद्गच्छति—कुत्रनुखलु गत आर्यवस-
न्तक इति ।
(ख) भवतु भवतु, वसन्तक ! स्मरेदानीमेतत् । प्रेतत् ।
(ग) अविहा वासवदत्ता । कुत्र वासवदत्ता । चिरात् खलूंपरता वासवदत्ता ।
(घ) रमणीयः खलु कथायोगः । नृशंसेन विसंवादितम् ।

  • इत आरभ्य 'राजा' इत्यन्तं ख. पुस्तके नास्ति ।

[Header]
४४ : स्वप्नवासवदत्ते

वासवदत्ता — (आत्मगतम्) (क) भोदु भोदु, विस्सत्थह्मि ।
अहो पिअं णाम ईदिसं वअणं अप्पच्चक्खं सुणीअदि ।
विदूषकः — (ख) धारेदु धारेदु भवं । अणदिक्कमणीओ हि १
विही ।
राजा — न जानाति भवानवस्थाम् । कुतः,
दुःखं त्यक्तं बद्धमूलोऽनुरागः
स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
यात्रा त्वेषा यद् विमुच्येहं बाष्पं
प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥ ६ ॥
विदूषकः — (ग) अस्सुपादकिल्लिण्णं खु तत्तहोदो मुहं ।
जाव मुहोदअं आणेमि । (निष्क्रान्तः)
पद्मावती — (घ) अय्ये ! बप्फ २ पडलन्तरिदं अय्यउत्तस्स मुहं ।
जाव णिक्कमह्म ।
वासवदत्ता — (ङ) एव्वं ३ होदु । अहव चिट्ठ तुवं । उक्क-
ण्ठिदं भत्तारं उज्ज्रिअ अजुत्तं णिग्गमणं ४ । अहं एव्वं ५ गमिस्सं ।
(क) भवतु भवतु, विश्वस्तास्मि । अहो प्रियं नामेदृशं वचनमप्रत्यक्षं श्रूयते ।
(ख) धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः ।
(ग) अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि ।
(घ) आर्ये ! बाष्पपटलान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः ।
(ङ) एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गम-
नम् । अहमेव गमिष्यामि ।
१. 'त' ख. पाठः. २. 'प्फाउलपडन्तदिदं' क. पाठः. ३. 'वं' क.पाठः. ४.
'मं । अ' ख. पाठः. ५. 'वं' क. पाठः.

चतुर्थोऽङ्कः । ४५
चेटी — (क) सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टि-
दारिआ ।
पद्मावती — (ख) किंणुखु पविशामि ।
वासवदत्ता — (ग) हळा ! पविसे । (इत्युक्त्वा निष्क्रान्ता)
(प्रविश्य)
विदूषकः — (नलिनीपत्रेण जलं गृहीत्वा) (घ) ऎसा तत्तहोदी
पदुमावदी ।
पद्मावती — (ङ) अय्य वसन्तअ! किं एदं ।
विदूषकः — (च) एदं इदं । इदं एदं ।
पद्मावती — (छ) भणादु भणादु अय्यो भणादु ।
विदूषकः — (ज) भोदि ! वादणीदेण कासकुसुमरेणुणा
अक्खिनिपडिदेणं सस्सुपादं खु तत्तहोदो मुहं । ता गण्हदु होदी
इदं मुहोदअं ।
(क) सुष्ठ्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका ।
(ख) किन्नुखलु प्रविशामि ।
(ग) हला ! प्रविश ।
(घ) एषा तत्रभवती पद्मावती ।
(ङ) आर्य वसन्तक ! किमेतत् ।
(च) एतदिदम् । इदमेतत् ।
(छ) भणतु भणत्वार्यो भणतु ।
(ज) भवति ! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभव-
तो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् ।
१. ‘किं प’ ख. पाठः. २. ‘स । (नि’ ख. पाठः. ३. ‘ञ्ज’ ख. पाठः. ४.
‘ऐत’ क. पाठः. ५. ‘कः–भोदि! ए’ ख. पाठः. ६. ‘ण अस्सुपादकिलिण्णं खु’ ख. पाठः.
७. ‘भो’ ख. पाठः.

४६ स्वप्नवासवदत्ते
पद्मावती — (क) अहो सदक्खिण्णस्स जणस्स परिजेणो
वि सदक्खिण्णो एव्व होदि । (उपेत्य) जेदु अय्यउत्तो । इदं
मुहोदअं ।
राजा — अये पद्मावती । (अपवार्य) वसन्तक ! किमिदम् ।
विदूषकः —(कर्णे) (ख) एव्वं विअ ।
राजा — साधु वसन्तक ! साधु । (आचम्य) पद्मावति !
आस्यताम् ।
पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविशति)
राजा — पद्मावति !
शैरच्छशाङ्कगौरेण वाताविद्धेन भामिनि ! ।
काशपुष्पप्लवेनेदं साश्रुपातं मुखं मम ॥ ७ ॥
(आत्मगतम् )
इयं बाला नवोद्वाहा सत्यं श्रुत्वा व्यथां व्रजेत् ।
कामं धीरस्वभावेयं स्त्रीस्वभावस्तु कातरः ॥ ८ ॥
विदूषकः — (घ) इदं* तत्तहोदो मअधराअस्स अवरह्णकाळे


(क) अहो सदाक्षिण्यस्य जनस्य परिजनोऽपि सदाक्षिण्य एव भवति । जयत्वा-
र्यपुत्रः । इदं मुखोदकम् ।
(ख) एवमिव ।
(ग) यदार्यपुत्र आज्ञापयति ।
(घ) इदं तत्रभवतो मगधराजस्यापराह्नकाले भवन्तमग्रतः कृत्वा सुहृज्जनद-


१. ‘अ’ ख. पाठः. २. ‘दि । विदूषकः- जेदु भवं । पद्मावती - जेदु अय्यउत्तो । रा’.
ख. पाठः. ३. ‘रा(ज)च्छ’ख. पाठः. ४. ‘मधी’ क. पाठः.
* इदं सन्निकृष्टमित्यर्थः.