सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 144, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 144

चतुर्थोऽङ्कः । ३७
पद्मावती — (क) हेळा ! अय्यउत्तो । अय्ये ! तव कार-
णादो अय्यउत्तदंसणं परिहरामि । ता इमं दाव माहवीमण्डवं
पविसामो ।
वासवदत्ता — (ख) एवं होदु ।
(तथा कुर्वन्ति)
विदूषकः — (ग) तत्तहोदी पदुमावदी इह आअच्छिअ
णिग्गदा भवे ।
राजा — कथं भवान् जानाति ।
विदूषकः — (घ) इमाणि अवइदॆकुसुमाणि सेफाळिआगु-
च्छआणि पेक्खदु दाव भवं ।
राजा — अहो विचित्रता कुसुमस्य वसन्तक ! ।
वासवदत्ता — (आत्मगतम्) (ङ) वसन्तअसङ्कित्तणेण अहं
पुण जाणामि उज्जइणीए वत्तामि त्ति ।
राजा — वसन्तक ! अस्मिन्नेवासीनौ शिलातले पद्मावर्ती
प्रतीक्षिष्यावहे ।
विदूषकः — (च) भो ! तह । (उपविश्योत्थाय) सैरअकाळति-
क्खो दुस्सहो आदवो । ता इमं दाव माहवीमण्डवं पविसामो ।
(क) हला ! आर्यपुत्रः । आर्ये ! तव कारणादार्यपुत्रदर्शनं परिहरामि । तदिमं
तावन्माधवीमण्डपं प्रविशामः ।
(ख) एवं भवतु ।
(ग) तत्रभवती पद्मावतीहागत्य निर्गता भवेत् ।
(घ) इमानपचितकुसुमान् शेफालिकागुच्छकान् प्रेक्षतां तावद् भवान् ।
(ङ) वसन्तकसङ्कीर्तनेनाहं पुनर्जानामि उज्जयिन्यां वर्ते इति ।
(च) भोस्तथा । शरत्कालतीक्ष्णो दुःसह आतपः । तदिमं तावन्माधवीमण्डपं
प्रविशावः ।
१. 'हा अ' ख. पाठः. २. 'दाणि सेफाळिआकुसुमाणि पे' ख. पाठः, ३. 'ही ही स'
ख. पाठः.