स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 152, कुल 204 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ४५
चेटी — (क) सुट्ठु अय्या भणादि । उवसप्पदु दाव भट्टि-
दारिआ ।
पद्मावती — (ख) किंणुखु पविशामि ।
वासवदत्ता — (ग) हळा ! पविसे । (इत्युक्त्वा निष्क्रान्ता)
(प्रविश्य)
विदूषकः — (नलिनीपत्रेण जलं गृहीत्वा) (घ) ऎसा तत्तहोदी
पदुमावदी ।
पद्मावती — (ङ) अय्य वसन्तअ! किं एदं ।
विदूषकः — (च) एदं इदं । इदं एदं ।
पद्मावती — (छ) भणादु भणादु अय्यो भणादु ।
विदूषकः — (ज) भोदि ! वादणीदेण कासकुसुमरेणुणा
अक्खिनिपडिदेणं सस्सुपादं खु तत्तहोदो मुहं । ता गण्हदु होदी
इदं मुहोदअं ।
(क) सुष्ठ्वार्या भणति । उपसर्पतु तावद् भर्तृदारिका ।
(ख) किन्नुखलु प्रविशामि ।
(ग) हला ! प्रविश ।
(घ) एषा तत्रभवती पद्मावती ।
(ङ) आर्य वसन्तक ! किमेतत् ।
(च) एतदिदम् । इदमेतत् ।
(छ) भणतु भणत्वार्यो भणतु ।
(ज) भवति ! वातनीतेन काशकुसुमरेणुनाक्षिनिपतितेन साश्रुपातं खलु तत्रभव-
तो मुखम् । तद् गृह्णातु भवतीदं मुखोदकम् ।
१. ‘किं प’ ख. पाठः. २. ‘स । (नि’ ख. पाठः. ३. ‘ञ्ज’ ख. पाठः. ४.
‘ऐत’ क. पाठः. ५. ‘कः–भोदि! ए’ ख. पाठः. ६. ‘ण अस्सुपादकिलिण्णं खु’ ख. पाठः.
७. ‘भो’ ख. पाठः.