स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 147, कुल 204 में से
संदर्भ में पढ़ें४० स्वप्नवासवदत्ते
विदूषकः — (क) का भवदो पिआ, तदाणिं तत्तहोदी
वासवदत्ता इदाणिं पडुमावदी वा ।
राजा — किमिदानीं भवान् महति बहुमानसङ्कटे मां
न्यस्यति ।
पद्मावती — (ख) हळा ! जादिसे सङ्कडे निक्खित्तो
अय्यउत्तो ।
वासवदत्ता — (आत्मगतम्) (ग) अहं अ मन्दभाआ ।
विदूषकः — (घ) सेरं सेरं भणादु भवं । एक्का उबरदा,
अवरा असण्णिहिदा ।
राजा — न खलु¹ ब्रूयाम् । भवांस्तु मुखरः ।
पद्मावती — (ङ) एत्तएण भणिदं अय्यउत्तेण ।
विदूषकः — (च) भो ! सव्वेण सवामि, कस्स वि ण
आचक्खिस्सं । एसा सन्दट्ठा मे जीहा ।
राजा — नोत्सहे सखे ! वक्तुम् ।
पद्मावती — (छ) अहो इमस्स पुरोभाइदा । एत्तिएण
हिअअं² ण जाणादि ।
(क) का भवतः प्रिया, तदानीं तत्रभवती वासवदत्ता इदानीं पद्मावती वा ।
(ख) हला ! यादृशे सङ्कटे निक्षिप्त आर्यपुत्रः ।
(ग) अहं च मन्दभागा ।
(घ) स्वैरं स्वैरं भणतु भवान् । एकोपरता, अपरा असन्निहिता ।
(ङ) एतावता भणितमार्यपुत्रेण ।
(च) भोः ! सर्वेण शपामि, कस्यापि नाख्यास्यामि । एषा सन्दष्टा मे जिह्वा ।
(छ) अहो अस्य पुरोभागिता । एतावता हृदयं न जानाति ।
१. 'छुन खलु ब्रू' ख. पाठः. २. 'अं जा' ख. पाठः.