सामग्री पर जाएँ
सर्वकोश
स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished204 पृष्ठ

पृष्ठ 143, कुल 204 में से

संदर्भ में पढ़ें
पृष्ठ 143

३६ स्वप्नवासवदत्ते
विदूषकः — (क) कहिंणुखु गदा तत्तहोदी पदुमावदी,
ळदामण्डवं गदा भवे, उदाहो असणकुसुममञ्चिदं वग्घचम्मा-
वगुण्ठिदं विअ पव्वदतिलअणामसिलापट्टअं गदा भवे, आहु
अधिअकडुँअगन्धसत्तच्छदवणं पविट्ठा भवे, अहव, आळिहिद-
मिअपक्खिसङ्कुळं दारुपव्वदेअं गदा भवे । (ऊर्ध्वमवलोक्य) ही ही
सरअकाळणिम्मळे अन्तरिक्खे पसा(अ?इ)अबळदेवबाहुदंसणीअं३
सारसपन्ति जाव समाहिदं गच्छन्तिं पेक्खदु दाव भवं ।
राजा — वयस्य ! पश्याम्येनाम्,
ऋज्वायतां च विरलां च नतोन्नतां च
सप्तर्षिवंशकुटिलां च निवर्तनेषु ।
निर्मुच्यमानभुजगोदरनिर्मलस्य
सीमामिवाम्बरतलस्य विभज्यमानाम् ॥ २ ॥
चेटी — (ख) पेक्खदु पेक्खदु भट्टिदारिआ एदं कोकणद-
माळापण्डररमणीअं सारसपन्ति जाव समाहिदं गच्छन्तिं । अम्मो
भट्टा ।
(क) कुत्रनुखलु गता तत्रभवती पद्मावती, लतामण्डपं गता भवेद्, उताहो असन-
कुसुमसञ्चितं व्याघ्रचर्मावगुण्ठितमिव पर्वततिलकनामशिलापट्टकं गता भवेद्, अथवा
अधिककटुकगन्धसप्तच्छदवनं प्रविष्टा भवेद्, अथवालेखितमृगपक्षिसङ्कुलं दारु-
पर्वतकं गता भवेद् । ही ही शरत्कालनिर्मलेऽन्तरिक्षे प्रसारितबलदेवबाहुदर्शनीयां
सारसपङ्क्तिं यावत् समाहितं गच्छन्तीं प्रेक्षतां तावद् भवान् ।
(ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका एतां कोकनदमालापाण्डुररमणीयां सारसपङ्क्तिं
यावत् समाहितं गच्छन्तीम् । अम्मो भर्ता ।
१. 'इ' ख पाठः. २. 'दग' ख. पाठः. ३. 'आ सारसव(ती?त्ती) जाव समाहिदाग-
च्छदि' ख पाठः. ४. 'णिञ्जसारसपन्ती जाव समाहिदा गच्छदि' ख. पाठः.