स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 148, कुल 204 में से
संदर्भ में पढ़ेंचतुर्थोऽङ्कः । ४१
विदूषकः — (क) किं ण भणादि १ मम । अणाचक्खिअ
इमादो सिळावट्टआदो ण सक्कं एक्कपदं वि गमिदुं । एसो रुद्धो
अत्तभवं ।
राजा — किं बलात्कारेण ।
विदूषकः — (ख) आम, बळकारेण ।
राजा — तेन हि पश्यामस्तावत् ।
विदूषकः — (ग) पसीददु पसीददु भवं । वअस्सभावेण
साविदो, यदि सच्चं ण भणासि ।
राजा — का गतिः । श्रूयताम् ।
पद्मावती बहुमता मम यद्यपि रूपशीलमाधुर्यैः ।
वासवदत्ताबद्धं न तु तावन्मे मनो हरति ॥ ४ ॥
वासवदत्ता — (आत्मगतम्) (घ) भोदु भोदु । दिण्णं वेदणं
इमस्स परिखेदस्स । अहो अण्णादवासं पि एत्थ बहुगुणं
सम्पज्जइ ।
चेटी — (ङ) भट्टिदारिए ! अदक्खिण्णो खु भट्टा ।
(क) किं न भणति मम । अनाख्यायास्माच्छिलापट्टकान्न शक्यमेकपदमपि
गन्तुम् । एष रुद्धोऽत्रभवान् ।
(ख) आम, बलात्कारेण ।
(ग) प्रसीदतु प्रसीदतु भवान् । वयस्यभावेन शापितः, यदि सत्यं न भणसि ।
(घ) भवतु भवतु । दत्तं वेतनमस्य परिखेदस्य । अहो अज्ञातवासोऽप्यत्र बहुगुणः
सम्पद्यते ।
(ङ) भर्तृदारिके ! अदाक्षिण्यः खलु भर्ता ।
१. ‘सि’ ख. पाठः. २. ‘अदिद’ ख. पाठः.