स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)
Svapnavasavadattam of Bhasa with Hindi Commentary
महाकवि भास / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 151, कुल 204 में से
संदर्भ में पढ़ें[Header]
४४ : स्वप्नवासवदत्ते
वासवदत्ता — (आत्मगतम्) (क) भोदु भोदु, विस्सत्थह्मि ।
अहो पिअं णाम ईदिसं वअणं अप्पच्चक्खं सुणीअदि ।
विदूषकः — (ख) धारेदु धारेदु भवं । अणदिक्कमणीओ हि १
विही ।
राजा — न जानाति भवानवस्थाम् । कुतः,
दुःखं त्यक्तं बद्धमूलोऽनुरागः
स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् ।
यात्रा त्वेषा यद् विमुच्येहं बाष्पं
प्राप्तानृण्या याति बुद्धिः प्रसादम् ॥ ६ ॥
विदूषकः — (ग) अस्सुपादकिल्लिण्णं खु तत्तहोदो मुहं ।
जाव मुहोदअं आणेमि । (निष्क्रान्तः)
पद्मावती — (घ) अय्ये ! बप्फ २ पडलन्तरिदं अय्यउत्तस्स मुहं ।
जाव णिक्कमह्म ।
वासवदत्ता — (ङ) एव्वं ३ होदु । अहव चिट्ठ तुवं । उक्क-
ण्ठिदं भत्तारं उज्ज्रिअ अजुत्तं णिग्गमणं ४ । अहं एव्वं ५ गमिस्सं ।
(क) भवतु भवतु, विश्वस्तास्मि । अहो प्रियं नामेदृशं वचनमप्रत्यक्षं श्रूयते ।
(ख) धारयतु धारयतु भवान् । अनतिक्रमणीयो हि विधिः ।
(ग) अश्रुपातक्लिन्नं खलु तत्रभवतो मुखम् । यावन्मुखोदकमानयामि ।
(घ) आर्ये ! बाष्पपटलान्तरितमार्यपुत्रस्य मुखम् । यावन्निष्क्रामामः ।
(ङ) एवं भवतु । अथवा तिष्ठ त्वम् । उत्कण्ठितं भर्तारमुज्झित्वायुक्तं निर्गम-
नम् । अहमेव गमिष्यामि ।
१. 'त' ख. पाठः. २. 'प्फाउलपडन्तदिदं' क. पाठः. ३. 'वं' क.पाठः. ४.
'मं । अ' ख. पाठः. ५. 'वं' क. पाठः.