सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

किरीटादिलक्षणम् ] षोडशोऽध्यायः । ७९
तत्पूरितादधोनालं बाहुमित्यावृतं तु वा ।
त्रिचतुष्पञ्चमात्रं वा पत्रपूरितविस्तृतम् ॥ २४ ॥
तद्व्यासार्धं तु तत्तुङ्गं पादोनद्विगुणं तु वा ।
द्विगुणं वापि कर्तव्यं तद् बाहुवलयं भवेत् ॥ २५ ॥
मध्याङ्गुलं विना शेषा अङ्गुला मुद्रिकान्विताः ।
मुद्रिकामूलपर्वस्था वृत्ता यवघनान्विताः ॥ २६॥
रत्नचित्रविचित्रा वा तत्तद्योग्यं समाचरेत् ।
मध्याङ्गुलाग्रमभये चूचुकोर्ध्वसमं भवेत् ॥ २७ ॥
तर्जन्यादिकनिष्ठान्तास्तुल्यमूलास्तु वक्रिताः ।
ईषद् वक्रितमङ्गुष्ठमूर्ध्वाग्रं तु बहिर्मुखम् ॥ २८ ॥
तथैव वरदं कृत्वा मणिबन्धकटौ पुनः ।
मध्याङ्गुलाग्रमालम्ब्य मेढ्राग्रान्तं बहिर्मुखम् ॥ २९ ॥
तदेव सिंहकर्णाख्यं तलमध्यगतं यदि ।
मध्याङ्गुलाग्रं वक्राभं तदुपान्तगतं तथा ॥ ३० ॥
अनामिकाग्रं¹ शेषाः स्युः पूर्ववत् परिकल्पिताः² ।
अभयाकारमालम्ब्य हस्तमूरौ समर्पितम् ॥ ३१ ॥
यदि तत् कटकं प्रोक्तं मणिबन्धं तूरुबाह्यतः ।
एकद्वित्र्यङ्गुलाद् बाह्ये कर्तव्यं बुद्धिमत्तमैः ॥ ३२ ॥
हिक्कासूत्रसमं मध्यमाग्रमूर्ध्वाननं करम् ।
बहिर्मुखं कर्तरी सा शङ्खचक्रादिसंयुता ॥ ३३ ॥
वक्रौ त्वनामिकाङ्गुष्ठौ तलमध्यगतौ पुनः ।
किञ्चिद् वक्रा कनिष्ठा सा द्वावन्यावप्युजुक्रियौ ॥ ३४ ॥
१. 'ग्राः', २. 'ल्पयेत्' क. ग. पाठः.

८० शिल्परत्ने [उत्तरभा०
तथा सूचीति विख्याता कर्णसूत्रसमोन्नता ।
तर्जन्याग्रं तदा तत्र योजयेदङ्कुशादिकम् ॥ ३५ ॥
अङ्गुष्ठानामिकामध्यमाङ्गुल्यस्तलमध्यगाः ।
किञ्चिद् वक्रा कनिष्ठा सा तर्जन्यृजुतरा भवेत् ॥ ३६ ॥
यज्ञोपवीतं सर्वेषां यवाष्टांशघनान्वितम् ।
उपवीतं त्रिसूत्राढ्यमुरस्सूत्रसमन्वितम् ॥ ३७ ॥
एकमेव ह्युरस्सूत्रमुपवीतघनान्वितम् ।
वामस्कन्धोपरिष्टात्तु नाभ्य(धो) द्व्यङ्गुलान्ततः ॥ ३८ ॥
यज्ञोपवीतदीर्घं तु नाभेर्दक्षिणपार्श्वगम् ।
अपरे वंशमाश्रित्य यज्ञसूत्रं निधापयेत् ॥ ३९ ॥
ऊरु ? उरस्सूत्रं समालम्ब्य स्तनादष्टाङ्गुलान्तरे ।
यज्ञोपवीतवत् कार्यं स्कन्धयोरुभयोरपि ॥ ४० ॥
पार्श्वयोश्चैव योन्यूर्ध्वं चन्नवीरमिदं विदुः ।
हिक्कात् षडङ्गुलाधस्तात् स्तनयोर्मध्यदेशतः ॥ ४१ ॥
ग्रैवेयहारमाख्यातं वेदमात्रवितानकम् ।
यवत्रयं घनं तस्य नानामणिहिरण्मयम् ॥ ४२ ॥
कण्ठादुदरबन्धान्तमक्षमालां प्रकल्पयेत् ।
हृन्मालेति प्रसिद्धा सा स्कन्धमालां च कारयेत् ॥ ४३ ॥
नानापुष्पमयी स्कन्धदेशे सा सम्प्रकीर्तिता ।
कटिसूत्रं त्रिभिः सूत्रैः सूत्रं प्रति यवं घनम् ॥ ४४ ॥
कटिसन्धोपरिष्टात्तु रत्नचित्रितमाचरेत् ।
मेढ्रादधः कृत्तिमास्यं पञ्चषट्सप्तमात्रकम् ॥ ४५ ॥

किरीटादिलक्षणम्] षोडशोऽध्यायः । ८१
तारं तारसमं तुङ्गं घनमर्धाङ्गुलं स्मृतम् ।
ततोरुमानत्र्यंशान्तं मुक्तादामादि लम्बयेत् ॥ ४६ ॥
पादौ जालकसंयुक्तौ गुल्फाधस्तात्तथैव च ।
जालकाबद्धसूत्रं तु यवद्वयघनान्वितम् ॥ ४७ ॥
तत्सूत्राज्जालकालम्बं त्रिपञ्चयवमानकम् ।
त्रियवं जालनालं तु व्यासतुल्यं तदुन्नतम् ॥ ४८ ॥
यवमानं घनं शेषं गाढमत्र प्रकल्पयेत् ।
गाढयुक्तं तु वृत्ताभमन्तःपाषाणसंयुक्तम् ॥ ४९ ॥
गाढहीनं घनं वान्तर्दृषदत्र न कारयेत् ।
भुजङ्गवलयं यत्र प्रकोष्ठादिषु रोचते ॥ ५० ॥
तत्प्रदेशपरीणाहात् सपादं स्यात्तदायतम् ।
तद्दीर्घादुपरि ख्यातं फणं भान्वङ्गुलायतम् ॥ ५१ ॥
सप्ताङ्गुलं तु विस्तारं घनं चैकाङ्गुलं फणे ।
अतितीक्ष्णतरे जिह्वे मुखे कुर्यात्तु लोचने ॥ ५२ ॥
वस्त्रं कौशेयकार्पासचीरचर्मादिकं पुनः ।
तत्तद्योग्यं प्रकर्तव्यं युक्त्या सर्वत्र बुद्धिमान् ॥ ५३ ॥
यद्द्रव्येण कृतं बिम्बं तेनैवायुधमाचरेत् ।
शताङ्गुलायतं चापं नवसप्ताशुगानलैः ॥ ५४ ॥
मात्रैर्युतं विहीनं वा नवधा धनुषोदयम् ।
पूर्णमुष्टिस्तु नाहः स्यान्मध्यादग्रौ क्रमात् कृशौ ॥ ५५ ॥
अग्रावर्धाङ्गुलौ व्यासौ वृत्तौ कार्यौ गुणाङ्गुलौ ।
'चितौ आयात्रिभागैके बाणनाभिस्तु मूलतः(?)॥
१. 'चीवौ आयामस्य त्रि' क. ख. पाठः.

चापायामाष्टभागोनं रज्जुदीर्घमुदाहृतम् ।
त्रिवक्रसहितं वाथ बालेन्दाकारमेव वा ॥ ५७ ॥
एकविंशाङ्गुलं बाणदीर्घं तद्विगुणं तु वा ।
कनिष्ठाङ्गुलिमानेन परिणाहं शरस्य तु ॥ ५८ ॥
आस्यायामं पञ्चमात्रं तत्ततारं चैव तत्समम् ।
आस्यदीर्घसमं पुच्छं पत्रबन्धविचित्रितम् ॥ ५९ ॥
पत्राणामङ्गुलं व्यासं पृष्ठे ज्यानाभिमाचरेत् ।
पुच्छतारत्रिभागैकं ना(भ्या ? भ्य)गाधं च विस्तृतम् ॥६०॥
टङ्कं भान्वङ्गुलायामं कुर्याद् युक्त्या बहिर्मुखम् ।
मृगं बहिर्मुखं वाथ कुर्यादन्तर्मुखं तथा ॥ ६१ ॥
द्वादशाङ्गुलमायामं तस्योच्चं युक्तितश्चरेत् ।
द्वादशाङ्गुलविस्तारं चक्रं शङ्खं तथैव च ॥ ६२ ॥
डमरोर्दीर्घविस्तारे वसुपञ्चाङ्गुलान्विते ।
मध्यं गुणाङ्गुलं व्यासमायामं चैव तत्समम् ॥ ६३ ॥
वलयद्वयसंयुक्तं चर्मसूत्रादिसंयुतम् ।
नवाङ्गुलं तु विस्तारं तारादधं त्रिपादकम् ॥ ६४ ॥
उच्चं कमण्डलोः कुर्याद् यथाकारं तथैव च ।
पद्मं तालसमुच्छ्रयं द्विगुणविस्तारं च षोढा कृते
मूले पट्टमिलांशतो द्वितयतो वाधस्तनाष्टच्छदम् ।
अङ्घ्र्यूनप्रथमब्जमध्यमुपरिष्टादष्टपत्रं त्रिभि-
र्भागैः पट्टयुतं करोतु कमलेनामात्र पीठोच्छ्रयः ॥ ६५ ॥
विंशत्या प्रतिमाङ्गुलैः प्रविततं वृन्ते तया सैकया
नालं सद्वितयापि वाथ विततेरष्टाचलाङ्गांशकैः ।
१. 'पा' ग. पाठः,

लेप्यबिम्बे शूललक्षणम् ] सप्तदशोऽध्यायः । ८३
अन्ते हीनवितानमारचयतु ब्रह्मोपलान्तायतं
तुर्याश्रं सकलेषु वैधसमिदं वृत्तं क्वचिच्चैश्र्वरम् ॥ ६६¹ ॥
इति शिल्परत्ने उत्तरभागे किरीटकटकादिलक्षणं नाम
षोडशोऽध्यायः ॥
अथ सप्तदशोऽध्यायः ।
अथ लेप्यबिम्बे शूललक्षणम् ।
लेप्यबिम्बे प्रकर्तव्ये कारयेच्छूलमादितः ।
तत्तदङ्गान्तरङ्गस्थमस्थिवच्छूलमेव तत् ॥ १ ॥
खदिराद्यैः सारवृक्षैर्युक्तितः शूलमाचरेत् ।
शिलासंग्रहवद् दारुस्वीकारं कारयेदिह ॥ २ ॥
पुंवृक्षैरेव देवानां देवीनां स्त्रीमहीरुहैः ।
हिक्काधःकायतुल्यं स्याद् वंशदण्डायतं स्मृतम् ॥ ३ ॥
मध्योदरविशालस्य चतुर्भागैकविस्तृतम् ।
तदष्टांशविहीनं स्याद् वंशदण्डाग्रविस्तृतम् ॥ ४ ॥
नाभ्यन्तं चतुरश्रं तु हिक्कान्तं वसुकोणकम् ।
तदूर्ध्वं वृत्तमाख्यातमशेषं वृत्तमेव वा ॥ ५ ॥
द्वात्रिंशदङ्गुलं दीर्घं पक्षदण्डायतं स्मृतम् ।
विस्तारं सार्धषण्मात्रमथ सप्ताङ्गुलं तु वा ॥ ६ ॥
विस्तारार्धं घनं प्रोक्तं पक्षदण्डस्य तस्य तु ।
मध्यादंशक्रमादग्रौ कृशौ स्यातां युगाङ्गुलौ ॥ ७ ॥
पक्षदण्डस्य मध्ये तुच्छिद्रं सार्धगुणाङ्गुलम् ।
हिक्कादण्डादधस्तात्तु पक्षदण्डोर्ध्वपार्श्वकम् ॥ ८ ॥

८४ शिल्परत्ने [उत्तरभागः
द्व्यङ्गुलं स्याद् यथा तद्वद् वंशदण्डे तु योजयेत् ।
षोडशाङ्गुलमायामं कटिदण्डाभिधस्य तु ॥ ९ ॥
वस्वङ्गुलं तु तत्ततारं घनं वेदाङ्गुलं स्मृतम् ।
मध्ये युगाङ्गुलं छिद्रं नाभेः पञ्चाङ्गुलादधः ॥ १० ॥
कटिदण्डोर्ध्वपार्श्वं स्याद् यथा वंशे सुयोजयेत् ।
पक्षदण्डाग्रयोश्चैव कटिदण्डाग्रयोस्तथा ॥ ११ ॥
हस्तपण्डयोगार्थं कुर्याद् वक्रशिखाः क्रमात् ।
द्व्यङ्गलं तु शिखायामं हस्तसंख्योचितं ततम् ॥ १२ ॥
पक्षदण्डविशालस्य मानेनैवं विचक्षणः ।
एकद्वित्रिचतुष्पञ्चषट्सप्ताष्टादिभिः पुनः ॥ १३ ॥
तत्तद्विम्बोचितकरसंख्यैः सम्यग् विभजयेत् ।
शिखाव्यासं तदेकांशं मूलेऽग्रे मूलतः कृशम् ॥ १४ ॥
कटिदण्डाग्रयोर्वक्रशिखा कार्या गुणाङ्गुला ।
सार्धाङ्गुलं तु तत्ततारं सुवृत्तं तत्समं घनम् ॥ १५ ॥
स्थानकं सकलं चेत्तु ऊरुदीर्घोर्ध्वदेशतः ।
अष्टाङ्गुलं समारोप्य ऊरुशूलायतं भवेत् ॥ १६ ॥
आसीने सकले चोरुदीर्घादूर्ध्वेऽष्टमात्रकम् ।
ऊरुमूले तु सुषिरं कृत्वा तु कटिदण्डके ॥ १७ ॥
शिखायान्तु समायोज्य बध्नीयात्त यथाबलम् ।
जानुमानं तथा कृत्वा ऊरु जङ्घां द्वयोरपि ॥ १८ ॥
शिखां कृत्वा तयोर्मध्ये सम्यगारोपयेद् बुधः ।
गुणाङ्गुलं शिखा जानौ जङ्घा चोरुसमायता ॥ १९ ॥

लेप्यबिम्बे शूललक्षणम् ] सप्तदशोऽध्यायः । ८५
ऊरुमध्ये त्रिभागैकमूरुशूलस्य विस्तृतम् ।
तस्याग्रं तन्त्रिभागं स्याज्जङ्घामूलस्य तत्समम् ॥ २० ॥
जङ्घामूलत्रिभागैकहीनं जङ्घाग्रविस्तृतम् ।
जान्वग्रे योजयेज्जङ्घामथवा स्थानके पुनः १॥ २१ ॥
सन्धि विनाङ्घ्रिशूलं तु एक एव विधीयते ।
जङ्घादीर्घोपरिष्टात्तु तलशूलं तु रो(च ? प)येत् ॥ २२ ॥
त्रिधा पादतलायामं कृत्वा भागद्वयायतम् ।
तलाग्रविस्तृतस्यापि त्र्यंशं विस्तृतं तथा ॥ २३ ॥
व्यासार्धं वाथ विस्तारं तन्मूलाद् द्व्यङ्गुले पुनः ।
कर्तव्यं सुषिरं तस्मिञ्जङ्घाग्रशिखां न्यसेत् ॥ २४ ॥
बाहुशूलविशालं तु गुणाङ्गुलमुदाहृतम् ।
अग्रं तद्द्व्यङ्गुलं व्यासं प्रकोष्ठं चैव तत्समम् ॥ २५ ॥
मूलतारार्धमग्रस्य व्यासं कुर्यात् प्रकोष्ठयोः ।
बाहुप्रकोष्ठयोर्मध्ये कूर्परं जानुवद् भवेत् ॥ २६ ॥
द्व्यङ्गुलं तु शिखामानं योजयेत्तु दृढं यथा ।
पार्श्वयोर्वंशदण्डस्य पार्श्वदण्डं तु योजयेत् ॥ २७ ॥
कटिपेशान्तरं दीर्घं तद्व्यासं तु गुणाङ्गुलम् ।
वंशदण्डसमं तीव्रमूर्ध्वाधस्ताच्छिखान्वितम् ॥ २८ ॥
गुणाङ्गुलान्तरे वंशपुच्छयोर्योजयेद् दृढम् ।
हस्तपादतलं श्रोत्रं ताम्रपट्टेन योजयेत् ॥ २९ ॥
आर्जवे त्वार्जवं शूलं वक्रबिम्बे तु कुञ्चितम् ।
देवानां शूलमेवं स्याद् देवीनां तु भिदा त्वियम् ॥ ३०॥
१. 'क' ख. पाठः.

with व underneath.
Here, underneath द is a द or ध?
Wait, look at द्धि: तद्धि?
Wait, does तद्धि make sense? तद् दिशिखान्वितम्? No, तद् द्विशिखान्वितम्?
Wait, is it तद्द्विशिखान्वितम्? If it's द् + द्वि, the meter would be:
शू-ल-व्या-स-स-मं-म-ध्य-च्छि-द्रं-त-द्द्वि-शि-खा-न्वि-तम्
Let's count syllables:
1: शू (L)
2: ल (S)
3: व्या (L)
4: स (S)
5: स (S)
6: मं (L)
7: म (S)
8: ध्य (L) -> Wait! मध्यच्छिद्रं has च्छि!
Wait:
1: शू
2: ल
3: व्या
4: स
5: स
6: मं
7: म
8: ध्यम्? No, मध्यच्छिद्रं is in the second pāda!
Let's recount pāda 1:
1: शू (L

रज्जुबन्धम् ] अष्टादशोऽध्यायः । ८७
शूलस्य बिम्बवत् कृत्वा संस्कारान् गुरुरञ्जसा ।
जलाधिवासप्रभृतीन् प्रतिष्ठां कारयेद् बुधः ॥ ४२ ॥
इति शिल्परत्ने उत्तरभागे शूलस्थापनलक्षणं नाम
सप्तदशोऽध्यायः ॥
अथाष्टादशोऽध्यायः ।
अथ रज्जुबन्धम् ।
एवं कृत्वा गृहीत्वाथ शूलं विधिपुरःसरम् ।
शुद्धिं कृत्वाधिवास्यात्र प्रतिष्ठां तु ममाचरेत् ॥ १ ॥
गर्भे तु पीठिकां कृत्वा शिलयेष्टकयापि वा ।
तत्प्रतिष्ठावटे कृत्वा शिलामाधारसंज्ञिताम् ॥ २ ॥
षण्मात्रं स्थानके बेरे प्रतिष्ठावटयोर्द्वयोः ।
अगाधं व्यासमग्न्यंशं स्थानके सकले तथा ॥ ३ ॥
पीठमध्ये चतुर्मात्रागाधमेकावटं स्मृतम् ।
कृत्वाधारशिलायां तु रत्नन्यासं यथाविधि ॥ ४ ॥
आनीय देशिकः शूलं विधिवद् गर्भवेश्मनि ।
जङ्घाशूलकमूलौ व वंशशूलस्य मूलकम् (?) ॥ ५ ॥
तत्तदर्हावटे न्यस्य सुधया वाष्टबन्धतः ।
आचरेन्निश्चलं शूलं दृढीकृत्य यथाबलम् ॥ ६ ॥
अथवा पूर्ववद् गर्भन्यासं कृत्वा यथाविधि ।
गर्भस्योपरि शूलस्य प्रतिष्ठामेवमाचरेत् ॥ ७ ॥
अथ सन्धिषु सर्वेषु ताम्रपट्टैस्तु वेष्टयेत् ।
शूलेऽष्टबन्धमालिप्य कारयेद् रज्जुबन्धनम् ॥ ८ ॥

८८ शिल्परत्न [उत्तरभागः
श्रीवेष्टकं चतुर्भागं कुन्दुरिक्षं गुणांशकम् ।
गुग्गुलुं पञ्चभागं तु गुल्मेकांशमानकम् ॥ ९ ॥
मर्जारसं तु वस्त्वंशं गैरिकं तु गुणांशकम् ।
संयोज्य चूर्णयेत् सम्यङ् मृत्पात्रे निक्षिपेत् पुनः ॥ १० ॥
आसिच्य घृततैलाभ्यां मन्दाग्नौ पच्यतामिदम् ।
यदा क्षौद्रमिवायाति तदा शूले विलिम्पयेत् ॥ ११ ॥
अष्टबन्धमिदं ख्यातमिदं शिल्पविशारदैः ।
नालिकेरफले पक्के तच्चर्म तु जलोषिते ॥ १२ ॥
यत्नाद् गृहीत्वा तत्सारं सारादन्यं व्यपोह्य च ।
तत्सारैर्नाडयः सम्यक्कार्यास्तत्तत्प्रमाणतः ॥ १३ ॥
रज्जुवर्त्म तु नाभौ स्यान्मूलाधारात्त्रयोर्ध्वगाः ।
सुषुम्ना मध्यगा ख्याता पिङ्गला दक्षपार्श्वगा ॥ १४ ॥
इडा वै तस्य वामस्था प्रधाना नाडयस्त्विमे ।
द्विद्व्यङ्गुलपरीणाहयुतास्ता वै त्रिवर्तिकाः ॥ १५ ॥
तेषां नाडित्रयाणां तु योगं भ्रूमध्यमे भवेत् ।
तदधोविग्रहास्त्विष्टवंशदण्डपुराश्रिताः ॥ १६ ॥
भ्रूमध्यान्मूर्धिनपर्यन्तं त्रिनाडी चैकवद् भवेत् ।
सा मूर्धानोपरिगता सप्तशाखाविभेदिता ॥ १७ ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनीत्यभिधानकाः ॥ १८ ॥
गान्धारी सर्वगात्रान्ता हस्तिजिह्वान्तरान्तका ।
पूषा दक्षिणकर्णान्ता वामकर्णा यशस्विनी ॥ १९ ॥

रज्जुबन्धनम् ] अष्टादशोऽध्यायः । ८९
अलम्बुषा मेढ्रमूलान्ता गुदान्ता कुहू भवेत् ।
नाभिमध्यावसानं तु शङ्खिनीलम्बनं भवेत् ॥ २० ॥
तेष्वादौ तु चतुर्नाडी यवत्रयघनान्विता।
शेषनाडीत्रियाणां तु (यवं ?) चतुर्यव(घनं) भवेत् ॥ २१ ॥
दक्षिणावर्तिताः सर्वे द्विवर्त्तन्ते प्रकीर्तिताः (?) ।
प्रधाननाडीत्रितयमूलं मेढ्रस्य मूलके ॥ २२ ॥
तन्नाडिमूलाद् भिन्नास्तु नाड्योऽष्टादश स्मृताः ।
विमला घोषणी पृथ्वी वाहिनी तेजसी तथा ॥ २३ ॥
वायसी गगनी चैव मदनी रोदनी तथा ।
रसवादी मृदङ्गी च संसिनी च तथैव च ॥ २४ ॥
शब्दस्पृशाङ्गी पूर्णा च संहारी च सवारिणी ।
वाहिनी तामसी ख्याता मेढ्रमूलसमुद्भवाः ॥ २५ ॥
तासामाद्यास्तु नाड्यः षड् दक्षिणं पादमाश्रिताः ।
अन्तस्थाः षट् तथा वामपादमेव समाश्रिताः ॥ २६ ॥
अधोमुखगता विष्वक्छूलस्यास्य भवन्ति ताः ।
नलकाग्रे समावृत्य षण्णामग्रं तथैकवत् ॥ २७ ॥
सुषुम्नामूलमाश्रित्य शेषा वंशस्य पार्श्वतः ।
आरुह्य पक्षदण्डोर्ध्वं ततस्ते बाहुमूलगाः ॥ २८ ॥
गगनी मदिनी चैव रोदनी दक्षिणे करे ।
रसवादी मृदङ्गी च संसिनी वामबाहुगा ॥ २९ ॥
बाहुमूलं समावृत्य तदग्रं त्वेकवद् भवेत् ।
तदग्रादष्टशाखाः स्युर्दक्षिणेऽदक्षिणे तथा ॥ ३० ॥

९० शिल्परत्ने [उत्तरभाग
बाहुमूलात्तलान्तं तु नाड्योऽष्टौ प्रसारिताः ।
एकीकृत्य तदग्राणि मणिबन्धावृतं यथा ॥ ३१ ॥
तथा करोतु हस्तेषु सर्वेष्वेवं समाचरेत् ।
प्रधाननाड्यस्त्वेवं कल्पयेत् प्रतिमादिषु ॥ ३२ ॥
ताभ्यस्त्वनेकधा नाडी सर्वाङ्गं तु समावृताः ।
सप्ततिर्द्विसहस्राणि नाड्यः परिकीर्तिताः ॥ ३३ ॥
नाडीभिस्त्रावृतं शूलं जीर्णाश्वत्थस्य पत्रवत् ।
नाड्यस्त्विति सङ्कल्प्य तस्मादावृतनाडिकाः ॥ ३४ ॥
यवषट्कपरीणाहं रज्जुमापातयेद् दृढम् ।
पौर्श्वं निरन्ध्रं रज्जुभ्यां बन्धयेद् दक्षिणावृतम् ॥ ३५ ॥
हृत्पद्मं साष्टपत्रं तु रज्जुना कारयेद् बुधः ।
तस्य नालं तु नाभ्यन्तं कृत्वा योज्यं सुषुम्नया ॥ ३६ ॥
जीवस्थानं तु हृत्पद्ममित्युक्तं हि महर्षिभिः ।
मूलमन्त्रमनुस्मृत्य रज्जुबन्धं समाचरेत् ॥ ३७ ॥
इति शिल्परत्ने उत्तरभागे रज्जुबन्धलक्षणं नाम
अष्टादशोऽध्यायः ॥
अथैकोनविंशोऽध्यायः ।
अथ मृल्लेपनम् ।
(ला? जा)ङ्गलं च तथानूपं सम्मिश्रं च त्रिधा हि भूः ।
अशक्यं खननेऽत्यर्थं दृढं जाङ्गलकं स्मृतम् ॥ १ ॥
१. 'पाणिरन्ध्रं तु र' क. ख. पाठः.

मृल्लेपनम् ।] एकोनविंशोऽध्यायः । ९१
कृष्णवालुकसंयुक्तमक्लेशात् खननक्षमम् ।
(हस्तेमरोरमाहस्तं दृढक्रियतद्नूपकम् ?)॥ २ ॥
तयोर्मिश्रमिवाकारं मिश्रभूस्तदुदाहृतम् ।
तेष्वशोष्यजलोपेते शुद्धे देशे मनोरमे ॥ ३ ॥
नदीदीर्घतटाकादौ जातं पङ्कं समाहरेत् ।
श्वेतवर्णं तु वा रक्तवर्णं हारिद्रमेव वा ॥ ४ ॥
विप्रादिवर्णभेदेन कृष्णवर्णमथापि वा ।
संगृह्यालोड्य पात्रेषु स्रावयेन्नववाससा ॥ ५ ॥
तत् स्रावं तोयनिर्मुक्तं पात्रस्थं घर्मशोषितम् ।
लाक्षाक्षीरत्वचोद्भूतक्वाथतोयेषु मर्दयेत् ॥ ६ ॥
शोषयित्वा पुनः क्वाथैः खदिरार्जुनसम्भवैः ।
सम्मर्द्य शोषयेद् यावत् तत् पङ्कं पिण्डतां ययौ ॥ ७ ॥
पुनः फलत्रयक्वाथमर्दितं शोषयेद् बुधः ।
ईषद् द्रवसमायुक्तं पिण्डं कृत्वा तु तन्मृदम् ॥ ८ ॥
पिण्डे हस्ततले रेखा दृश्येत् पिण्डं* तदा कुरु ।
मृदं वेदकृतैकांशं योजयेत्तु मृदा सह ॥ ९ ॥
त्रिफलाम्भसा तु संमर्द्य सप्ताष्टदशरात्रकम् ।
यवगोधूममाषांश्चाप्यतसीपत्रकं तथा ॥ १० ॥
यथा समांशं संयोज्य चूर्णितं सुतरां पुनः ।
मृदष्टांशं समायोज्य नालिकेरफलोदकैः ॥ ११ ॥

  • इत उपरि ग-चिह्निते तालपत्रकोशे एकादशपत्राणि लुप्तानि ।

९२ शिल्परत्ने [उत्तरभागः ।
पात्रेषु मर्दयेत् सम्यग् दशाहादिक्रमेण तु ।
श्रीवेष्टं गुल्गुलुं चैव कुन्दुरिकं तथैव च ॥ १२ ॥
सर्जरसं च तुल्यांशानेतान् संचूर्ण्य योजयेत् ।
मृत्कलांशं मृदौ तस्मिन् दधिना मर्दयेत् पुनः (?) ॥ १३ ॥
शुण्ठी च पिप्पली चैव मरिची रजनी तथा ।
समांशं चूर्णयेद् विद्वान् तच्चूर्णं तु मृदा सह ॥ १४ ॥
मृत्तिकाचतुर्विंशांशं योजयित्वा तु मर्दयेत् ।
मधुक्षीरघृतैरेवं मर्दयेच्च पुनस्तथा ॥ १५ ॥
कपित्थबिल्वनिर्यासचूर्णौ द्वौ समतां कुरु ।
मृदः पञ्चदशांशेन तच्चूर्णेन विमर्दयेत् ॥ १६ ॥
तैलेनासिच्य संमर्च्य पुनः कुङ्कुमचन्दनौ ।
हरितालकुष्ठकर्पूरागरुगोरोचनानि च ॥ १७ ॥
समं संचूर्ण्य मृत्स्नायां त्रिंशांशं योजयेत् पुनः ।
अतसीकाष्ठजस्नेहसंयुक्तं तु विमर्दयेत् ॥ १८ ॥
स्वर्णरजतचूर्णं च नदीसागरसम्भवम् ।
कुलीरावासवल्मीकहल्लस्थलसमुद्भवम् ॥ १९ ॥
सस्यमूलोक्षशृङ्गेभदन्तजामृत्तिकारजः ।
यथालाभं तु संगृह्य नानागन्धसमन्वितम् ॥ २० ॥
संयोज्याथ मधूकत्वक्कषायजलसंयुतैः ।
कपित्थबिल्वनिर्यासैः सम्मर्च्य दिनपञ्चकम् ॥ २१ ॥
नीत्वा पश्चान्नालिकेरफलपक्वत्वचां पुनः ।
सारमेकाङ्गुलायामं सार्धं वा द्व्यङ्गुलं तु वा ॥ २२ ॥

मृल्लेपनम् ] एकोनविंशोऽध्यायः । ९३
छित्वा तु मृच्चतुर्थांशं युक्त्वा सम्मर्दयेन्मुहुः ।
रज्ज्वावृतास्थिबाह्ये तु तन्मृदालेपयेत् पुनः ॥ २३ ॥
तस्मिञ्छुष्के रज्जुबन्धं ततो मृल्लेपनं पुनः ।
मृद्धनं चन्द्रनेत्राग्निमात्रं योग्यवशाद् भवेत् ॥ २४ ॥
एवं निरीक्ष्य कर्तव्यं मृल्लेपनमतः शनैः ।
तत्तदङ्गप्रदेशेषु शूलबाह्यगतं घनम् ॥ २५ ॥
चतुरंशैर्विभज्यात्र प्रथमांशावसानकम् ।
मृल्लेपं त(द)नूपं तत्तद्बाह्येंऽशं तु मिश्रकम् ॥ २६ ॥
तद्बा(हु ? ह्य)गतमेकांशं जाङ्गलाख्यमुदाहृतम् ।
तत्तद्देशमृदेनैव तत्तदङ्गं समालिपेत् ॥ २७ ॥
कल्केन पूरयेच्छेषं कल्कनिर्माणमाचरेत् ।
अतिकृष्णतारनदीशर्करया समम्(?) ॥ २८ ॥
नदीवालुकमायोज्य सुसूक्ष्मं चूर्णयेद् बुधः ।
कपित्थनिर्यासजलैर्मर्दयित्वा विशोषयेत् ॥ २९ ॥
पुनः कार्पासतूलेन संयुक्तं परिवेष्टयेत् ।
शिलापृष्ठे पुनः शोषं कृत्वा पश्चात्तु पेषयेत् ॥ ३० ॥
त्रिवारं पेषयित्वैवं तेन शेषं प्रपूरयेत् ।
अङ्गोपाङ्गानि संपूर्य भूषावस्त्रादिकान्यपि ॥ ३१ ॥
कल्केनैव विधायात्र सम्यक् संशोषणे सति ।
त्रिफलोत्थक्वाथजलैः सम्यगालिप्य सर्वतः ॥ ३२ ॥
शुष्के तु स्वर्णपिष्टेन लेपं कृत्वा पुनः क्रमात् ।
चित्रोक्तमार्गमाश्रित्य वर्णलेपं च कारयेत् ॥ ३३ ॥

९४ शिल्परत्ने [उत्तरभागः
मुक्ताफलस्य चूर्णस्य पिष्टः स्यात् सितवर्णके ॥ ३३½ ॥
इति शिल्परत्ने उत्तरभागे मृल्लेपनविधिर्नाम
एकोनविंशोऽध्यायः ॥
अथ विंशोऽध्यायः ।
अथ देवीकुमारलक्षणम् ।
स्थानकानां तु देवानां देव्यः स्युः स्थानकास्तथा ।
आसीनास्त्वासिते देवे विपरीतं विपत्करम् ॥ १ ॥
देवस्य वामपार्श्वे तु देवी तत्पीठगा भवेत् ।
पीठान्तरगता वापि देवमालिङ्ग्य वा भवेत् ॥ २ ॥
देवस्य नासिकान्तं वा ललाटान्तमथापि वा ।
हन्वन्तं वा प्रकर्तव्यं देव्यायाममिहोदितम् ॥ ३ ॥
क्रीडापद्मं वामहस्ते कटिबन्धं तु वान्यतः ।
सर्वाभरणसंयुक्ता तत्तद्युक्तविभूषणैः ॥ ४ ॥
किञ्चिद्देवाश्रितं वक्त्रं प्रसन्नमधुरं भवेत् ।
देवीदेवेशयोर्मध्ये कुमारं स्थापयेत्तु वा ॥ ५ ॥
हिक्कान्तं वा स्तनान्तं वा तयोर्मध्येऽष्टभाजिते ।
एकैकांशकहीनेन नवधा तुङ्गमाचरेत् ॥ ६ ॥
देवीबिम्बोच्चमानेन कुमारप्रतिमोन्नतम् ॥ ६½ ॥
इति शिल्परत्ने उत्तरभागे देवीकुमारलक्षणं नाम
विंशोऽध्यायः ॥

९५
अथैकविंशोऽध्यायः ।
अथ वाहलक्षणम्—तत्र पूर्वं वृषलक्षणम् ।
तुङ्गे पञ्चदशांशे तु एकांशं त्वङ्गुलं भवेत् ।
चत्वारिंशाङ्गुलायामं मुखात् पृष्ठावसानकम् ॥ १ ॥
मूर्तेस्त्वध उपर्यन्तं धर्ममात्रमुदाहृतम् ।
तस्माद् ग्रीवाञ्चमष्टांशमुरोन्तं षोडशाङ्गुलम् ॥ २ ॥
ऊरुदीर्घं तु षण्मात्रं जानुमानं द्विमात्रकम् ।
जङ्घामानं षडंशं म्यात खुरमानं द्विमात्रकम् ॥ ३ ॥
शृङ्गान्तरं तु वस्वंशं शृङ्गोच्चं चतुरङ्गुलम् ।
शृङ्गमूलविशालं तु चतुरङ्गुलमेव च ॥ ४ ॥
तदग्रव्यासमधार्ंशं मूलादग्रं क्रमात् कृशम् ।
किञ्चिद् वक्रसमायुक्तौ शृङ्गावभ्यन्तरे क्रमात् ॥ ५ ॥
ललाटतारं नन्दांशं मुखव्यासं शरांशकम् ।
घनं तु तत्समं ख्यातं नेत्रायं द्व्यङ्गुलं भवेत् ॥ ६ ॥
अध्यर्धाङ्गुलमुत्सेधं शफराकृति कारयेत् ।
नेत्रमध्यान्मुखायाममष्टाङ्गुलमुदाहृतम् ॥ ७ ॥
तस्माद् वै पृष्ठग्रीवान्तं षण्मात्रं परिकीर्तितम् ।
नेत्रमध्याल्ललाटोच्चं वेदमात्रमुदाहृतम् ॥ ८ ॥
नेत्रात् कर्णान्तरं तद्वत् कर्णायामं शरांशकम् ।
कर्णमूलविशालं तु द्विमात्रमिति कथ्यते ॥ ९ ॥
मध्यव्यासं चतुर्मात्रमग्रमङ्गुलविस्तृतम् ।
घनमर्धाङ्गुलं ख्यातं गण्डं तत्सममुच्यते ॥ १० ॥

९६ शिल्परत्ने [उत्तरभागः
अङ्गुलं नासिकादीर्घं* + + + + + + ++॥ १०१/२॥
अथाश्वलक्षणम् ।
मुखं तालत्रयं प्रोक्तमायामेन तुरङ्गमे ।
तन्मध्यवर्तिनो वक्ष्ये प्रदेशान्मात्रया मितान् ॥ १॥
वर्त्तुलं मस्तकं कार्यं षडङ्गुलमितं पुनः ।
त्र्यङ्गुलं कर्णमूलान्तमुत्सेधेन व्यवस्थितम् ॥ २ ॥
कर्णमूलात्तथा कर्णौ कार्यावष्टाङ्गुलायतौ ।
ना(ग)वल्लीदलप्रख्यौ चतुरङ्गुलविस्तृतौ ॥ ३ ॥
कर्णमूलस्य नेत्रस्य मध्यं कार्यं नवाङ्गुलम् ।
नेत्रे गोलद्वयायामे सार्धद्व्यङ्गुलविस्तृते ॥ ४ ॥
भ्रुवौ द्व्यङ्गुलविस्तारे षडङ्गुलसमायते ।
भ्रुवोर्मध्यप्रदेशस्तु द्वादशाङ्गुलसम्मितः ॥ ५ ॥
षडङ्गुलं भवेत् फालं केशान्ते मध्यदेशतः ।
अष्टाङ्गुलं ततश्चाधो द्वादशाङ्गुलविस्तृतम् ॥ ६ ॥
एकतालो भवेद् दैर्घ्यं ललाटस्य प्रमाणतः ।
नयनाद् गण्डविस्तारः षोडशाङ्गुल इष्यते ॥ ७ ॥
नासावंशस्य दैर्घ्यं स्यात् षोडशाङ्गुलमिष्यते ।
विस्तारस्त्र्यङ्गुलः प्रोक्तो नासिका चतुरङ्गुला ॥ ८ ॥
नासापुटस्य विस्तारो द्व्यङ्गुलः परिकीर्तितः ।
पुटयोरन्तरं प्रोक्तमूर्ध्वभागे षडङ्गुलम् ॥ ९ ॥

  • इत ऊर्ध्वं क-ख-मातृकयोः सष्टाष्टश्लोकलेखनपर्याप्तं तालपत्रमलेखं
    दृश्यते ।

अश्वलक्षणम् ] एकविंशोऽध्यायः । ९७
चतुर्मात्रमधोभागे तत्र लेखात्रयं भवेत् ।
तस्याधः (प्रौढ ? प्रोथ)देशः स्याच्चतुरङ्गुलसम्मितः ॥ २० ॥
चतुरङ्गुलविस्तारः पीनत्वं चतुरङ्गुलम् ।
मुखराजे(:) पुटस्यापि मध्यं स्याच्चतुरङ्गुलम् ॥ २१ ॥
मुखरेखाबहिर्भागे हनुः स्याच्चतुरङ्गुलः ।
चिबुकं तत्र कर्तव्यं पञ्चाङ्गुलमितं बुधैः ॥ २२ ॥
(प्रौढा ? प्रोथा)च्च सृक्वपर्यन्तमास्यरेखा स्वराङ्गुला ।
मस्तकात् काकसां यावच्चतुस्तालमितं भवेत् ॥ २३ ॥
स्यात् केसरस्य विस्तारः शीर्षदेशेऽङ्गुलत्रयम् ।
चतुरङ्गुलं भवेन्मध्ये प्रान्ते मात्रमितो भवेत् ॥ २४ ॥
कृत्तकेसरकः स्कन्धः कर्तव्यः काकसावधि ।
काकसायां तथा कार्याः केसरा दैर्घ्यशालिनः ॥ २५ ॥
मस्तके चं तथा केशा द्वादशाङ्गुलदैर्घ्यकाः ।
तरङ्गिता घनाः स्निग्धाः श्लक्ष्णाः कार्या मनोहराः ॥
नि(गपा ? गाला)दंसपर्यन्तं ग्रीवा तालद्वयायता ।
अङ्गुलत्रयविस्तारा कार्या निखिलघोटके ॥ २७ ॥
स्कन्धदेशपरीणाहः षट्तालः साङ्गुलत्रयः ।
स्कन्धमध्यपरीणाहश्चतुष्पञ्चदशाङ्गुलः ॥ २८ ॥
ग्रीवासन्धिपरीणाहस्त्रितालश्च नवाङ्गुलः ।
वक्षोदेशस्य विस्तारो द्वादशाङ्गुलसम्मितः ॥ २९ ॥
अष्टादशाङ्गुलं दैर्घ्यं वक्षोदेशस्य कल्पितम् ।
वक्षःकाकसयोर्मध्यं द्विचत्वारिंशदङ्गुलम् ॥ ३० ॥

६८ शिल्परत्ने [उत्तरभागः
तथा चरणयोर्दैर्घ्यं द्विचत्वारिंशदङ्गुलम् ।
बाहु(दीर्घ ? दैर्घ्यं) भवेत् त्रयं प्रोक्तं पञ्चदशाङ्गुलम् ॥ ३१॥
बाहुमूलपरीणाहस्त्रिंशदङ्गुलसम्मितः ।
बाहुमध्यपरीणाहो वितस्तिद्वयवेष्टनात् ॥ ३२ ॥
बाहुप्रान्तपरीणाहो भवेदष्टादशाङ्गुलम् ।
(अष्टादशाङ्गुलो) जानुनाह एकोनविंशतिः ॥ ३३ ॥
जङ्घानलकदैर्घ्यं स्यान्नाहो द्वादशमात्रकः ।
पलिहस्तस्य दैर्घ्यं तु षडङ्गुलमुदीरितम् ॥ ३४ ॥
पलिहस्तपरीणाहो भवेदष्टादशाङ्गुलः ।
कुष्ठिकाया भवेद् दैर्घ्यं षडङ्गुलमुदीरितम् ॥ ३५ ॥
कुष्ठिकायाः परीणाहो द्वादशाङ्गुलसम्मितः ।
खुरदैर्घ्यं समुद्दिष्टं षडङ्गुलमितं बुधैः ॥ ३६ ॥
भवेत् खुरपरीणाहो विंशत्यङ्गुलसम्मितः ।
पृष्ठप्रदेशदैर्घ्यं च चतुस्तालमुदाहृतम् ॥ ३७ ॥
कक्षदेशपरीणाहः शताङ्गुलमितो भवेत् ।
रन्ध्रस्थानपरीणाहः ससप्तालं खराङ्गुलम् ॥ ३८ ॥
रन्ध्रोपरन्ध्रयोर्मध्यं विंशत्यङ्गुलमायतम् ।
त्रिकस्थानस्य विस्तारस्त्रिगुणैः षोडशाङ्गुलैः ॥ ३९ ॥
(ज्वल ? जघ)नस्य तु विस्तारः षट्चत्वारिंशदङ्गुलः ।
सक्थिप्रान्तपरीणाहस्तालद्वितयसम्मितः ॥ ४० ॥
नवाङ्गुलायता स्थू(ला ? रा) ना(भे ? हे)न त्रिंशदङ्गुला ।