शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 115, कुल 280 में से
संदर्भ में पढ़ें९६ शिल्परत्ने [उत्तरभागः
अङ्गुलं नासिकादीर्घं* + + + + + + ++॥ १०१/२॥
अथाश्वलक्षणम् ।
मुखं तालत्रयं प्रोक्तमायामेन तुरङ्गमे ।
तन्मध्यवर्तिनो वक्ष्ये प्रदेशान्मात्रया मितान् ॥ १॥
वर्त्तुलं मस्तकं कार्यं षडङ्गुलमितं पुनः ।
त्र्यङ्गुलं कर्णमूलान्तमुत्सेधेन व्यवस्थितम् ॥ २ ॥
कर्णमूलात्तथा कर्णौ कार्यावष्टाङ्गुलायतौ ।
ना(ग)वल्लीदलप्रख्यौ चतुरङ्गुलविस्तृतौ ॥ ३ ॥
कर्णमूलस्य नेत्रस्य मध्यं कार्यं नवाङ्गुलम् ।
नेत्रे गोलद्वयायामे सार्धद्व्यङ्गुलविस्तृते ॥ ४ ॥
भ्रुवौ द्व्यङ्गुलविस्तारे षडङ्गुलसमायते ।
भ्रुवोर्मध्यप्रदेशस्तु द्वादशाङ्गुलसम्मितः ॥ ५ ॥
षडङ्गुलं भवेत् फालं केशान्ते मध्यदेशतः ।
अष्टाङ्गुलं ततश्चाधो द्वादशाङ्गुलविस्तृतम् ॥ ६ ॥
एकतालो भवेद् दैर्घ्यं ललाटस्य प्रमाणतः ।
नयनाद् गण्डविस्तारः षोडशाङ्गुल इष्यते ॥ ७ ॥
नासावंशस्य दैर्घ्यं स्यात् षोडशाङ्गुलमिष्यते ।
विस्तारस्त्र्यङ्गुलः प्रोक्तो नासिका चतुरङ्गुला ॥ ८ ॥
नासापुटस्य विस्तारो द्व्यङ्गुलः परिकीर्तितः ।
पुटयोरन्तरं प्रोक्तमूर्ध्वभागे षडङ्गुलम् ॥ ९ ॥
- इत ऊर्ध्वं क-ख-मातृकयोः सष्टाष्टश्लोकलेखनपर्याप्तं तालपत्रमलेखं
दृश्यते ।