शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 108, कुल 280 में से
संदर्भ में पढ़ेंरज्जुबन्धनम् ] अष्टादशोऽध्यायः । ८९
अलम्बुषा मेढ्रमूलान्ता गुदान्ता कुहू भवेत् ।
नाभिमध्यावसानं तु शङ्खिनीलम्बनं भवेत् ॥ २० ॥
तेष्वादौ तु चतुर्नाडी यवत्रयघनान्विता।
शेषनाडीत्रियाणां तु (यवं ?) चतुर्यव(घनं) भवेत् ॥ २१ ॥
दक्षिणावर्तिताः सर्वे द्विवर्त्तन्ते प्रकीर्तिताः (?) ।
प्रधाननाडीत्रितयमूलं मेढ्रस्य मूलके ॥ २२ ॥
तन्नाडिमूलाद् भिन्नास्तु नाड्योऽष्टादश स्मृताः ।
विमला घोषणी पृथ्वी वाहिनी तेजसी तथा ॥ २३ ॥
वायसी गगनी चैव मदनी रोदनी तथा ।
रसवादी मृदङ्गी च संसिनी च तथैव च ॥ २४ ॥
शब्दस्पृशाङ्गी पूर्णा च संहारी च सवारिणी ।
वाहिनी तामसी ख्याता मेढ्रमूलसमुद्भवाः ॥ २५ ॥
तासामाद्यास्तु नाड्यः षड् दक्षिणं पादमाश्रिताः ।
अन्तस्थाः षट् तथा वामपादमेव समाश्रिताः ॥ २६ ॥
अधोमुखगता विष्वक्छूलस्यास्य भवन्ति ताः ।
नलकाग्रे समावृत्य षण्णामग्रं तथैकवत् ॥ २७ ॥
सुषुम्नामूलमाश्रित्य शेषा वंशस्य पार्श्वतः ।
आरुह्य पक्षदण्डोर्ध्वं ततस्ते बाहुमूलगाः ॥ २८ ॥
गगनी मदिनी चैव रोदनी दक्षिणे करे ।
रसवादी मृदङ्गी च संसिनी वामबाहुगा ॥ २९ ॥
बाहुमूलं समावृत्य तदग्रं त्वेकवद् भवेत् ।
तदग्रादष्टशाखाः स्युर्दक्षिणेऽदक्षिणे तथा ॥ ३० ॥