सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 114, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 114

९५
अथैकविंशोऽध्यायः ।
अथ वाहलक्षणम्—तत्र पूर्वं वृषलक्षणम् ।
तुङ्गे पञ्चदशांशे तु एकांशं त्वङ्गुलं भवेत् ।
चत्वारिंशाङ्गुलायामं मुखात् पृष्ठावसानकम् ॥ १ ॥
मूर्तेस्त्वध उपर्यन्तं धर्ममात्रमुदाहृतम् ।
तस्माद् ग्रीवाञ्चमष्टांशमुरोन्तं षोडशाङ्गुलम् ॥ २ ॥
ऊरुदीर्घं तु षण्मात्रं जानुमानं द्विमात्रकम् ।
जङ्घामानं षडंशं म्यात खुरमानं द्विमात्रकम् ॥ ३ ॥
शृङ्गान्तरं तु वस्वंशं शृङ्गोच्चं चतुरङ्गुलम् ।
शृङ्गमूलविशालं तु चतुरङ्गुलमेव च ॥ ४ ॥
तदग्रव्यासमधार्ंशं मूलादग्रं क्रमात् कृशम् ।
किञ्चिद् वक्रसमायुक्तौ शृङ्गावभ्यन्तरे क्रमात् ॥ ५ ॥
ललाटतारं नन्दांशं मुखव्यासं शरांशकम् ।
घनं तु तत्समं ख्यातं नेत्रायं द्व्यङ्गुलं भवेत् ॥ ६ ॥
अध्यर्धाङ्गुलमुत्सेधं शफराकृति कारयेत् ।
नेत्रमध्यान्मुखायाममष्टाङ्गुलमुदाहृतम् ॥ ७ ॥
तस्माद् वै पृष्ठग्रीवान्तं षण्मात्रं परिकीर्तितम् ।
नेत्रमध्याल्ललाटोच्चं वेदमात्रमुदाहृतम् ॥ ८ ॥
नेत्रात् कर्णान्तरं तद्वत् कर्णायामं शरांशकम् ।
कर्णमूलविशालं तु द्विमात्रमिति कथ्यते ॥ ९ ॥
मध्यव्यासं चतुर्मात्रमग्रमङ्गुलविस्तृतम् ।
घनमर्धाङ्गुलं ख्यातं गण्डं तत्सममुच्यते ॥ १० ॥