सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 116, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 116

अश्वलक्षणम् ] एकविंशोऽध्यायः । ९७
चतुर्मात्रमधोभागे तत्र लेखात्रयं भवेत् ।
तस्याधः (प्रौढ ? प्रोथ)देशः स्याच्चतुरङ्गुलसम्मितः ॥ २० ॥
चतुरङ्गुलविस्तारः पीनत्वं चतुरङ्गुलम् ।
मुखराजे(:) पुटस्यापि मध्यं स्याच्चतुरङ्गुलम् ॥ २१ ॥
मुखरेखाबहिर्भागे हनुः स्याच्चतुरङ्गुलः ।
चिबुकं तत्र कर्तव्यं पञ्चाङ्गुलमितं बुधैः ॥ २२ ॥
(प्रौढा ? प्रोथा)च्च सृक्वपर्यन्तमास्यरेखा स्वराङ्गुला ।
मस्तकात् काकसां यावच्चतुस्तालमितं भवेत् ॥ २३ ॥
स्यात् केसरस्य विस्तारः शीर्षदेशेऽङ्गुलत्रयम् ।
चतुरङ्गुलं भवेन्मध्ये प्रान्ते मात्रमितो भवेत् ॥ २४ ॥
कृत्तकेसरकः स्कन्धः कर्तव्यः काकसावधि ।
काकसायां तथा कार्याः केसरा दैर्घ्यशालिनः ॥ २५ ॥
मस्तके चं तथा केशा द्वादशाङ्गुलदैर्घ्यकाः ।
तरङ्गिता घनाः स्निग्धाः श्लक्ष्णाः कार्या मनोहराः ॥
नि(गपा ? गाला)दंसपर्यन्तं ग्रीवा तालद्वयायता ।
अङ्गुलत्रयविस्तारा कार्या निखिलघोटके ॥ २७ ॥
स्कन्धदेशपरीणाहः षट्तालः साङ्गुलत्रयः ।
स्कन्धमध्यपरीणाहश्चतुष्पञ्चदशाङ्गुलः ॥ २८ ॥
ग्रीवासन्धिपरीणाहस्त्रितालश्च नवाङ्गुलः ।
वक्षोदेशस्य विस्तारो द्वादशाङ्गुलसम्मितः ॥ २९ ॥
अष्टादशाङ्गुलं दैर्घ्यं वक्षोदेशस्य कल्पितम् ।
वक्षःकाकसयोर्मध्यं द्विचत्वारिंशदङ्गुलम् ॥ ३० ॥