शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 107, कुल 280 में से
संदर्भ में पढ़ें८८ शिल्परत्न [उत्तरभागः
श्रीवेष्टकं चतुर्भागं कुन्दुरिक्षं गुणांशकम् ।
गुग्गुलुं पञ्चभागं तु गुल्मेकांशमानकम् ॥ ९ ॥
मर्जारसं तु वस्त्वंशं गैरिकं तु गुणांशकम् ।
संयोज्य चूर्णयेत् सम्यङ् मृत्पात्रे निक्षिपेत् पुनः ॥ १० ॥
आसिच्य घृततैलाभ्यां मन्दाग्नौ पच्यतामिदम् ।
यदा क्षौद्रमिवायाति तदा शूले विलिम्पयेत् ॥ ११ ॥
अष्टबन्धमिदं ख्यातमिदं शिल्पविशारदैः ।
नालिकेरफले पक्के तच्चर्म तु जलोषिते ॥ १२ ॥
यत्नाद् गृहीत्वा तत्सारं सारादन्यं व्यपोह्य च ।
तत्सारैर्नाडयः सम्यक्कार्यास्तत्तत्प्रमाणतः ॥ १३ ॥
रज्जुवर्त्म तु नाभौ स्यान्मूलाधारात्त्रयोर्ध्वगाः ।
सुषुम्ना मध्यगा ख्याता पिङ्गला दक्षपार्श्वगा ॥ १४ ॥
इडा वै तस्य वामस्था प्रधाना नाडयस्त्विमे ।
द्विद्व्यङ्गुलपरीणाहयुतास्ता वै त्रिवर्तिकाः ॥ १५ ॥
तेषां नाडित्रयाणां तु योगं भ्रूमध्यमे भवेत् ।
तदधोविग्रहास्त्विष्टवंशदण्डपुराश्रिताः ॥ १६ ॥
भ्रूमध्यान्मूर्धिनपर्यन्तं त्रिनाडी चैकवद् भवेत् ।
सा मूर्धानोपरिगता सप्तशाखाविभेदिता ॥ १७ ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनीत्यभिधानकाः ॥ १८ ॥
गान्धारी सर्वगात्रान्ता हस्तिजिह्वान्तरान्तका ।
पूषा दक्षिणकर्णान्ता वामकर्णा यशस्विनी ॥ १९ ॥