सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 104, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 104

लेप्यबिम्बे शूललक्षणम् ] सप्तदशोऽध्यायः । ८५
ऊरुमध्ये त्रिभागैकमूरुशूलस्य विस्तृतम् ।
तस्याग्रं तन्त्रिभागं स्याज्जङ्घामूलस्य तत्समम् ॥ २० ॥
जङ्घामूलत्रिभागैकहीनं जङ्घाग्रविस्तृतम् ।
जान्वग्रे योजयेज्जङ्घामथवा स्थानके पुनः १॥ २१ ॥
सन्धि विनाङ्घ्रिशूलं तु एक एव विधीयते ।
जङ्घादीर्घोपरिष्टात्तु तलशूलं तु रो(च ? प)येत् ॥ २२ ॥
त्रिधा पादतलायामं कृत्वा भागद्वयायतम् ।
तलाग्रविस्तृतस्यापि त्र्यंशं विस्तृतं तथा ॥ २३ ॥
व्यासार्धं वाथ विस्तारं तन्मूलाद् द्व्यङ्गुले पुनः ।
कर्तव्यं सुषिरं तस्मिञ्जङ्घाग्रशिखां न्यसेत् ॥ २४ ॥
बाहुशूलविशालं तु गुणाङ्गुलमुदाहृतम् ।
अग्रं तद्द्व्यङ्गुलं व्यासं प्रकोष्ठं चैव तत्समम् ॥ २५ ॥
मूलतारार्धमग्रस्य व्यासं कुर्यात् प्रकोष्ठयोः ।
बाहुप्रकोष्ठयोर्मध्ये कूर्परं जानुवद् भवेत् ॥ २६ ॥
द्व्यङ्गुलं तु शिखामानं योजयेत्तु दृढं यथा ।
पार्श्वयोर्वंशदण्डस्य पार्श्वदण्डं तु योजयेत् ॥ २७ ॥
कटिपेशान्तरं दीर्घं तद्व्यासं तु गुणाङ्गुलम् ।
वंशदण्डसमं तीव्रमूर्ध्वाधस्ताच्छिखान्वितम् ॥ २८ ॥
गुणाङ्गुलान्तरे वंशपुच्छयोर्योजयेद् दृढम् ।
हस्तपादतलं श्रोत्रं ताम्रपट्टेन योजयेत् ॥ २९ ॥
आर्जवे त्वार्जवं शूलं वक्रबिम्बे तु कुञ्चितम् ।
देवानां शूलमेवं स्याद् देवीनां तु भिदा त्वियम् ॥ ३०॥
१. 'क' ख. पाठः.