शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
१३६ शिल्परत्नं उत्तरभागः
पीनोरुस्तनभारभङ्गुरतनुः श्यामा प्रसन्नानना
देवी वस्त्वरिता तनोतु विभवानानन्दयन्ती मखः ॥ ११ ॥
अथवा —
मायूरीकृतशेखरप्रविलसद्गुञ्जागुणालङ्कृता
सुस्निग्धा शिखिपिच्छनालवलया वन्यप्रसूनोज्ज्वला ।
नागेन्द्राहितकुण्डलाङ्गदलसत्काञ्चीस्फुरन्नूपुरा
पायाद् वस्त्वरिता गृहीतशबरीवेषा प्रवालांशुका ॥ १२ ॥
धूमावती —
काकारूढातिकृष्णा प्रविरलदशना मुक्तकेशी विरक्ता
धूम्राक्षी क्षुत्तृषार्त्ता प्रतिभयचरिता चञ्चला कामलोला ।
क्लिष्टा पुष्टालसाङ्गी क्लमजलकलिता व्यक्तगर्वार्वेरूढा
भूतिं धूमावती वः प्रदिशतु विधवा धूतशूर्पाग्रहस्ता ॥ १३ ॥
अथ काली —
अतिरौद्रा महादंष्ट्रा भ्रुकुटीकुटिलेक्षणा ।
विवर्तनयना शूरा दीर्घघोणा मदान्विता ॥ १४ ॥
स्निग्धगम्भीरनिर्घोषा नीलजीमूतसन्निभा ।
भ्रुकुटीकूटसन्दीप्ता महावदनभीषणा ॥ १५ ॥
दंष्ट्रोष्ठकोपताम्राक्षी रक्तदीर्घशिरोरुहा ।
त्रिशूलव्यग्रदोर्दण्डनखकीचकवादिनी ॥ १६ ॥
अतिरक्ताम्बरा देवी रक्तमांसासवप्रिया ।
शिरोमालाविचित्राङ्गी चिन्वन्ती शोणितासवम् ॥ १७ ॥
नृत्यन्ती च हसन्ती च पिशाचगणसेविता ।
पिशाचस्कन्धमारुह्य भ्रमन्ती वसुधातलम् ॥ १८ ॥
१. 'ति' क ग. पाठः.
शक्तौ शक्तिप्रणवम् ] चतुर्विंशोऽध्यायः । १३७
इत्थंभूतां भद्रकालीं मातृभिः परिवारिताम् ।
अपिच,
प्रत्यग्राम्भोजवर्णा शशधरशकलोल्लासिदंष्ट्रोज्ज्वलास्या
वज्राकारं कृपाणं चषकमति मधुव्रातपूर्णं दधाना ।
मुण्डस्रङ्मण्डिताङ्गी विविधफणिकणोरत्नजालप्रदीप्तः
भद्रं वो भद्रकाली वितरतु सुमनस्सङ्घसंस्तूयमानाँ
[॥ १९½ ॥]
अथ भेलखी —
भास्वत्सिन्दूरवर्णा द्रुतकनकलसत्पादुका मुक्तकेशी
नानाहृद्याङ्गभद्रा घनगुरुजघना तुङ्गपीन(स्तार्था?स्तनार्ता) ।
धून्वाना लम्बयुग्मं करयुगलधृतं कङ्कणप्रायलम्बा
++++++++++++++ भेलखी + + +
[॥ २०½॥]
अथ मातङ्गी —
बिम्बोष्ठीं नवयौवनार्द्रचरणामाकीर्णकेशालकां
हृद्याङ्गीं सितशङ्खकुण्डलधगलङ्कारवेषोज्ज्वलाम् ॥ २१½ ॥
शक्तिप्रणवः —
प्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् ।
सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि
[॥ २२½ ॥]
१. 'म् । प्र', २. 'ज्ञ' ग. पाठः, ३. 'ना । मे' घ. पाठः,
४. 'शी', ५. 'म् । अथ' क. ग. पाठः.
१८
१३८ शिल्परत्ने [उत्तरभागः
अथ वनदुर्गा—
अरिशङ्खकृपाणखेटबाणान् सधनुश्शूलकतर्जनीर्दधाना ।
भवतां महिषोत्तमाङ्गसंस्था नवदूर्वासदृशी श्रियेऽस्तु दुर्गा
[॥ २३½ ॥
अपिच,
उदयार्कसमप्रख्यां किरणानेकसङ्कुलाम् ।
बन्धूकपुष्पस्तबकसिन्दूरसदृशोज्ज्वलाम् ॥ २४½ ॥
पीतवस्त्रावृतां देवीं सर्वाभरणभूषिताम् ।
नीलकुञ्चितकेशाढ्यां प्रसन्नवदनाम्बुजाम् ॥ २५½ ॥
विचित्ररत्ननिष्ठ्यूतकुण्डलोद्द्योतिताननाम् ।
स्वनेत्रकान्तिनिर्धूतकर्णोत्पलविराजिताम् ॥ २६½ ॥
अर्धचन्द्राकृतिस्पर्धिललाटतिलकोज्ज्वलाम् ।
चतुष्टयभुजाक्लृप्तशङ्खारीष्टाभयोद्यताम् ॥ २७½ ॥
वलित्रयोर्मिसंभिन्नमध्यराजिविराजिताम् ।
तप्तहाटकसंक्लृप्तस्तम्भोरुद्वयशोभिताम् ॥ २८½ ॥
वृत्तजङ्घां गूढगुल्फां रम्यावृतपदाम्बुजाम् ।
रक्ताम्भोजे समासीनामुद्यत्सूर्यायुतप्रभाम् ॥ २९½ ॥
सर्वलोकमयीं देवीं दुर्गां महिषमर्दिनीम् ॥ ३० ॥
यद्वा,
हेमप्रख्यामिन्दुखण्डात्तमौलिं
शङ्खारीष्टाभीतिहस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीतवर्णां प्रसन्नां
देवीं दुर्गां दिव्यरूपां नमामि ॥ ३१ ॥
१. 'कपालखे', २. 'वनदू', ३. 'स्र', ४. 'ल' घ. पाठः.
५. 'मि' क. ग. पाठः. ६. 'मध्यराजितसं' घ. पाठः. ७. 'अपिच,
हे' क. ग. पाठः.
शक्तौ इन्द्राणी] चतुर्विंशोऽध्यायः । १३९
त्रैलोक्यमोहिनी —
पद्मस्थामिक्षुचापं कुसुमशर सृणीपद्मयुग्माक्षमाला-
विद्यापाशान् दधानां कुचभरविनमन्मध्यवल्लीं त्रिनेत्राम् ।
रक्तां रक्ताङ्गरागाम्बरकुसुमयुतां सुप्रसन्नाननाब्जां
त्रैलोक्यक्षोभदात्रीं मुनिविबुधनुतां देवतां तां नमामि ॥३२॥
संवित् —
उद्यद्भास्करसप्रभां त्रिनयनामापीनतुङ्गस्तनीं
पाशं पुस्तकमङ्कुशं जपवटीं चाबिभ्रतीं बाहुभिः ।
रक्ताकल्पदुकूलमाल्यलसितां बालेन्दुचूडामणिं
भक्ताभीप्सितकामधेनुमनिशं वन्दे परां देवताम् ॥ ३३ ॥
इन्द्राणी —
कल्पद्रूद्यानमध्ये विविधमणिलसन्मण्डपान्तर्विराज-
न्मातङ्गारातिपीठप्रविलसितसरोजन्मसंस्थां प्रसन्नाम् ।
पीनोत्तुङ्गस्तनार्तां पृथुजघनभरां पद्मपत्रायताक्षी-
मिन्द्राणीमिन्द्रनीलोत्पलशकलसमां हृद्यभूषां नमामि
अथवा — [॥ ३४ ॥
सञ्चिन्त्य नन्दनोद्यानं मन्दाराद्यैः सुरद्रुमैः ।
कल्पवल्लीशतैश्चापि फलपुष्पभरानतैः ॥ ३५ ॥
अलङ्कृतं तस्य मध्ये रत्नमण्डपमुज्ज्वलम् ।
रत्नसिंहासनगतां तन्मध्ये शक्रवल्लभाम् ॥ ३६ ॥
मन्दारमाल्यमसृणमल्लघम्मिल्लमन्थराम् ।
२मृगाङ्कवल्लीमन्दारमन्दस्मितमनोहराम् ॥ ३७ ॥
मत्तमातङ्गमहितमस्तकोद्यत्स्तनद्वयाम् ।
मृणालतन्तुमृदुलमध्यवल्लीमनोरमाम् ॥ ३८ ॥
१. 'स्या' रु., 'ल' ग. पाठः. २. 'भुजङ्ग' क. ग. पाठः.
१४० [शिल्परत्नं [उत्तरभागः
मनोह्नगभोङ्गभरमन्थरगामिनीम् ।
हाग्रैवेयरशनानूपुराद्यैरलङ्कृताम् ॥ ३९ ॥
उत्तंसितेन मणिना चिन्तापूर्वेण सन्ततम् ।
प्लाव्यमानाङ्गलतिकां रत्नजालानि वर्षता ॥ ४० ॥
आन्दोलयन्तीं हस्तेन लीलापद्मं शनैः शनैः ।
शङ्खपद्मनिधिभ्यां च वामदक्षिणपार्श्वयोः ॥ ४१ ॥
वसुप्रवाहं वर्षद्भ्यां सेव्यमानां सदा मुदा ।
रम्भया च सितच्छत्रं रत्नदण्डं शशिप्रभम् ॥ ४२ ॥
काञ्चनस्रावि संगृह्य सेव्यमानां प्रसन्नया ।
घृताचीसहजन्याभ्यामुभयोः पार्श्वयोरपि ॥ ४३ ॥
सविलासं वीज्यमानां व्यजनाभ्यां शनैः शनैः ।
मन्दं मन्दं दोर्लताभ्यां गृहीत्वा पादपङ्कजम् । ४४ ॥
संवाहयन्ती
शक्तौ स्वयंवरा ] चतुस्त्रिंशोऽध्यायः । १४१
अथवा —
दोर्भिश्चतुर्भिर्विभ्राणं वज्रशक्तिवराभयान् ।
त्रैलोक्यनाथं वरदं देवेन्द्रं मण्डपाश्रितम् ॥ ४८ १/२ ॥
तस्याङ्कसंस्थामिन्द्राणीं मनोहरनगकृतिम् ॥ ४९ ॥
अथ स्वयंवरा —
बालार्कयुतसप्रभां करतले लोलम्बमालाकुलां
मालां सन्दधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् ।
मन्दं मन्दमुपेयुषीं वरयितुं शम्भुं जगन्मोहिनी²
वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां पार्वतीम्³ ॥ ५० ॥
अपिच —
हेमाभां मतिवागतीतगुणशीलानल्पशिल्पाकृतिं
प्रेमारोहमनोहरां करलसत्कल्याणदामाश्रिताम् ।
श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनीं
कामापादनकल्पवल्लिमनिश्ं वन्दे परां देवताम्⁴ ॥ ५१ ॥
अथैच,
करधृतवरमाला सर्वरत्ना¹ङ्गभूषा
निखिलनयनचेतोहारिरूपाग्र्यवेषा ।
भवतु भवदभीष्टप्राप्तये शैलकन्या
पुरुषयुवतिवश्याकृष्टिनित्यप्रगल्भा ॥ ५२ ५
अथवा —
उद्यद्राकाशशाङ्ककान्तरपरिविलसत्पद्मसंस्थां त्रिनेत्रां
दोर्भिः पाशेक्षुचापाङ्कुशकुसुमशरान् बिभ्रतीमिन्दुचूडाम् ।
१. 'ङ्क । स्व', २. 'नं', ३. 'म् । हे' घ. पाठः. ४. 'म् ।
क' ख. पाठः. ५. 'थ, क' क. ग. पाठः. ६. 'क्ता' घ. पाठः.
१४२ शिल्परत्नं [उत्तरभागः
गौरीं गौराङ्गरागाम्बररुचिरतनुं चिन्तयेन्मन्त्रमेनं
जप्यात् कान्त्यै समृद्धयै सुविपुलयशसे लोकसंरञ्जनायै
[॥ ५३ ॥
अथ प्राणशक्तिः —
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराग्रैः
पाशं कोदण्डमिक्षूद्भवमलिगुणमप्यङ्कुशं पञ्च बाणान् ।
बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा वः
[॥ ५४ ॥
अथ अश्वारूढा —
पाशेनाबध्ये साध्यं स्मरशरविवशां वामदोष्णानयन्तीं
सौवर्णीं वेत्रयष्टिं निजकरकमलेनापरेणादधानाम् ।
रक्तां रक्ताङ्गरागाम्बरकुसुमयुतामश्वसंस्थां प्रसन्नां
देवीं बालेन्दुचूडां मनसि मुनिनैतां पार्वतीं भावयामि
[॥ ५५ ॥
वज्रप्रस्तारिणी—
रक्तपयोनिधिगतमणिपोतस्फुरितरविच्छदकमलनिषण्णाम् ।
इक्षुशरासनपुष्पशराभयवरसृणिडाडिमसायकपाशान् ॥५६॥
दधतीमरुणामयुगलनेत्रामरुणविलेपनमाल्यदुकूलाम् ।
हिमकरलेखाकलितकपर्दां हिमगिरितनयामनिशमुपासे
[॥ ५७ ॥
अपिच —
१. 'य + अश्वा', २. 'द्धसाध्यां स' घ. पाठः. ३. 'न' ख. पाठः.
शक्तौ श्रीसूक्तम् ] चतुर्विंशोऽध्यायः । १४३
इन्दुकलाकलनोज्ज्वलमौलिमीरमदाकुलितायुगनेत्रा ।
शोणितसिन्धुतरङ्गितपोतद्योतितभानुदलाम्बुजसंस्था ॥५८॥
दोर्धृतदाडिमसायकपाशा साङ्कुशचापकपालसमेता ।
शोणदुकूलविलेपनमाल्या शोजितग भवतोऽवतु देवी ॥५९॥
नित्यक्लिन्ना —
बन्धूकारुणविग्रहां त्रिनयनां बालेन्दुचूडामणिं
पाशाभीतिकपालसाङ्कुशलसद्वाहूं मनोज्ञाननाम् ।
रक्ताम्भोरुहविष्टरां मदवशादाघूर्णमानेक्षणां
रक्तालेपनवस्त्रदामलसितां वन्दे सदा पार्वतीम् ॥ ६० ॥
अपिच —
मध्येसुधामयपयोविविराजमान-
द्वीपप्रवालमणिभूमितलं विशालम् ।
तस्मिन् मणिप्रवरनिर्मितमण्डपान्तः-
सिंहासनोपरिगते कमले निषण्णाम् ॥
राज--> wait, look at the letter between 'ल' and 'म': it isभाorग्ना? It looks like भा. Wait, look at पीनोत्तुङ्गस्तनार्ता: पी नो त्तुम् ग्ग स्त ना र्ता -> पीनोत्तुङ्गस्तनार्त्ता? It has पीनोत्तुङ्गस्तनार्ता`.
न्मुण्डस्रङ्खण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि^२ ॥ ६७ ॥
Wait, look at न्मुण्ड:
न्मुण्डस्रङ्खण्डिताङ्गीमरुणतरदुकूलानुलेपां नमामि^२ ॥ ६७ ॥
Wait, the footnote २ is above मि:
नमामि² ॥ ६७ ॥
अथ भूमिः —
मुख्याम्भोजे निविष्टारुणचरणतला श्यामलाङ्गी मनोज्ञा
चञ्चच्चाल्यग्रचुम्बच्छुकलसितकरैप्रान्तनीलोत्पला च ।
Wait, करैप्रान्त or करप्रान्त?
Look at करैप्रान्त: above 'र' there is an ai-matra! करैप्रान्तनीलोत्पला च ।
[L21
शक्तौ गायत्री ] चतुर्विंशोऽध्यायः ! १४५
शूलिनी —
बिभ्राणा शूलबाणास्यरिसिदरगदाचापपाशा(ङ्कुशा ? न् करा)-
[ब्जै-
र्मेघश्यामा किरीटोल्लिखितजलधरा भीषणा भूषणाढ्या ।
सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता
कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः
[॥ ६९ ॥
गायत्री —
मन्दाराह्वयरोचनाञ्जनजपाखामैर्मुखैरिन्दुमु-
द्रत्नोद्यन्मकुटाङ्कसन्ततचतुर्विंशार्णचित्रातनुः ।
*म्भोजेऽरिगदाह्वयौ गुणकपालाख्यौ च२ पाशाङ्कुशो-
ष्टाभीतीर्दधती भवेद् भवदभीष्टोत्तारिणी तारे३षी ॥ ७० ॥
गायत्री त्रिष्टुप् —
गायत्री चतुराननेष्टशयना बाला चतुर्भिर्भुजैः
पद्माक्षाक्षिकमण्डलुस्रगभ(व १ य)प्रोद्भासिभिर्भासुरा ।
ब्राह्मी हंसधृताब्जपत्रनिलया बन्धूककान्तस्फुर-
द्भूषा मे हृदि हार ++++++++++ ॥ ७१ ॥
भास्वद्विद्युत्करालाकुलहारिगळसंस्थारिशङ्खासिखेटे-
ष्वास्त्रासाख्यत्रिशूलानरिगणभयदं तर्जनीं चादधाना ।
चर्मास्युद्घूर्णदोर्भिः प्रहरणनिपुणाभिर्वृता कन्यकाभि-
र्दीघात् कार्शानवीष्टाँ५स्त्रिनयनलसिता चापि कात्यायनी
[वः ॥ ७२ ॥
१. 'भा', २. 'चापाङ्कु', ३. 'रिणी । त्रि' घ. पाठः. ४. 'र्णि' क. पाठः. ५. 'ष्टा त्रिन' घ. पाठः
- 'अब्जे चारि' इति प्रपञ्चसारपाठे दृश्यते ।
प
१४६ शिल्परत्ने [उत्तरभागः
सौरी चतुरक्षरी —
भास्वद्रबौघमौलिस्फुरदमृतरुचो रञ्जयच्चारुरेखां
सद्यःसन्तप्तकार्तस्वरकमलजपाभासुराभिः प्रभाभिः ।
विश्वाकाशावकाशं ज्वलयदशिशिरं धेर्तृ पाशाङ्कुशेष्टा-
भीतीनां भें२ङ्गितुङ्गस्तनमवतु जगन्मातुरार्कं वपुर्वः ॥ ७३ ॥
अन्नपूर्णा —
दुग्धाब्धौ रूप्यवाप्रावृतकनकमयै३र्द्वीपवर्ये सुराढ्ये
कल्पद्रूद्यानकेऽधो मणिमयलसिते वित्तपस्याग्रभागे ।
आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संसृजन्त्यौ
मन्त्री सञ्चिन्तयानो जपतु दिनमुखे सम्पदे४ऽभ्यस्य मन्त्रम्
॥ ७४ ॥
अथवा —
रुद्रताण्डवविलोकनलोलां
भद्रैव५कत्रनयनां भवकान्ताम् ।
अन्नदाननिरतां जननीं तां
चिन्तयेदुषसि चित्रदुकूलाम् ॥ ७५ ॥
अथ६ सप्त मातरः —
दण्डं कमण्डलुं बिभ्रत्यक्षसूत्रमथाङ्कुशम् ।
सुवर्णवर्णां ब्रह्माणीं कृष्णाजिनधरां भजेत् ॥ ७६ ॥
शूलं परश्वधं क्षुद्रदुन्दुभिं नृकरोटिकाम् ।
बिभ्रतीमभ्रशुभ्राभां स्मरेन्माहेश्वरीमपि ॥ ७७ ॥
१. 'धातृपा', २. 'भागि तु' क. पाठः. ३. 'यी' क. ख.
ग. पाठः. ४. 'द', ५. 'क्त्व' घ. पाठः. ६. 'थ मा' क. ख. ग. पाठः.
शक्तौ श्रीचक्रप्रस्तारः ] चतुर्विंशोऽध्यायः । १४७
अङ्कुशं पाशखट्वाङ्गं + + + दधतीं भुजैः ।
ध्यायेत् सिन्दूरसङ्काशां कौमारीं शक्तिमालिकाम् ॥ ७८ ॥
चक्रशङ्खपताकाख्यशृङ्खलां च चतुर्भुजाम् ।
कलायश्यामलां ध्यायेद् वैष्णवीं पीतवाससम् ॥ ७९ ॥
मुसलासिलसद्धण्टाहलोद्यत्करपङ्कजाम् ।
-
-
-
-
- संयुक्तां वाराहीं नीरदप्रभाम् ॥ ८० ॥
अङ्कुशं तोमरं वज्रं चक्रं च दधतीं शु³भाम् ।
इन्द्रोपलाभामिन्द्राणीं स्मरेदुज्ज्वलभूषणाम् ॥ ८१ ॥
शूलासिन्तृशिरोराजत्कपालविलसद्भुजाम् ।
मुण्डस्रङ्मण्डितां चण्डीं चामुण्डामपि चिन्तयेत् ॥ ८२ ॥
मृगटङ्कवराभीतिकरो वीरस्त्रिलोचनः ।
नागोपवीताभरणः श्वेतचर्माम्बरो भवेत् ॥ ८३ ॥
गजास्यमेकदन्तं च त्रिनेत्रं नागभूषणम् ।
कनकाभं करासक्तपाशाङ्कुशवरं तथा ॥ ८४ ॥
भक्ष्यं च बिभ्रतं देवं ह्रस्वपादकरद्वयम् ।
शुण्डाग्रग्रस्तचषकं महाकायं विचिन्तयेत् ॥ ८५ ॥
अथ प्रसङ्गाच्छ्रीचक्रप्रस्तारो लिख्यते ।
चक्रार्थमच्छमसृणां चतुरश्रक्लृप्ता-
मुर्वीं षडुत्तरनवत्यभिधाङ्गुलाढ्याम् ।
कृत्वाथ सूत्रयुगलं प्रतिपादयेत् त-
न्मध्येऽथ पूर्वपरदक्षिणसौम्यगाग्रम् ॥ ८६ ॥
१. 'अपाशांश्च द' क. ख. ग. पाठः. २. 'कपालाख्य', ३.
'भुजाम्' घ. पाठः. ४. 'सृ' ख. ग. पाठः
- संयुक्तां वाराहीं नीरदप्रभाम् ॥ ८० ॥
-
-
-
१४८ शिल्परत्ने [उत्तरभागः
अर्धेन वृत्तमथ मध्यभवं विदध्या-
दृष्टोर्ध्ववेददशकाङ्गुलसङ्ख्यकेन ।
चक्रार्थमन्तरमलं पुनराद्यसूत्रे
पूर्वादितो +++ लाञ्छनमत्र कुर्यात् ॥ ८७ ॥
तत्रापि षट्षड्विशिखाभिलोक-
वेदाभिष्टषड्रसकाङ्कुलान्ते ।
अङ्केषु तेष्वन्तकवित्तपाख्य-
देशाग्रगं सूत्रमिदं करोतु ॥ ८८ ॥
एतेषु सूत्रेष्वपि चोभयाग्र-
भागेऽङ्कयेत् तत्र समुक्तरीत्या ।
विहाय रामाङ्गुलमादिमान्त-
स्थयोस्तथा द्व्यष्टगयोश्चतुष्कम् ॥ ८९ ॥
वेदाङ्कषष्ठाङ्कगसूत्रकान्ते
द्यष्टाङ्गुलां¹ पञ्चमगाग्रयोस्तु ।
एकोनविंशाङ्गुलमन्यसूत्रे
वृत्तं गते (तदनु ?) तैश्च परैस्त्रिकोणैम्² ॥ ९० ॥
आवृत्तगे लिखतु पश्चिमपूर्वगाग्रे
रेखे तृतीयमुनिजाग्रसमुद्भवे द्वे ।
षष्ठाङ्कगाग्रयुगलं विलिखेत् पुनस्ते-
ऽथाष्टङ्कजाग्रजनिते च यैथा³ त्रिकोणम् ॥ ९१ ॥
तत्र द्वितीयाङ्कगताग्रजे द्वे
सूत्रे लिखेद्न्तिमचिह्नगाग्रे ।
१. 'द', २. 'ण:', ३. 'त' ब. पाठः.
शक्तौ श्रीचक्रप्रस्तारः ] चतुर्विंशोऽध्यायः । १४९
अष्टाङ्ककाग्रे प्रलिखेच्चतुर्थ-
चिह्नस्थसूत्राग्रसमुद्भवे द्वे ॥ ९२ ॥
एवं लिखेत पञ्चमसूत्रगे द्वे
सूत्रे पुनः पञ्चमलाञ्छनान्तम् ।
तथान्तिमाङ्कस्थसिराग्रजे द्वे
सूत्रे तृतीयान्तमथादिमान्तम् ॥ ९३ ॥
अष्टाङ्कसूत्राग्रसमुद्भवे द्वे
तल्लिखेत् षष्ठगसूत्रसंस्थे ।
सूत्रे द्वितीयान्तमितीरितः स्यात्
त्र्यश्रक्रियायाः क्रम आदिशास्त्रे ॥ ९४ ॥
वृत्तस्य बाह्येऽष्टदलं तथैव
ह्यष्टच्छदं तस्य बहिः पुनश्च ।
अष्टाङ्गुलैरेव पृथग् बहिष्ठै-
र्वृत्तानि स¹द्वारचतुर्भुजानि ॥ ९५ ॥
बिन्दुत्रिकोणवसुकोणदशारयुग्म-
मन्वश्रनागदलषोडशपत्रकाणि ।
वृत्तत्रयं च धरणीस²दनत्रयं च
श्रीचक्रमेतदुदितं परदेवतायाः ॥ ९६ ॥
इति शिल्पिरत्ने उत्तरभागे ध्याने शाक्तेयप्रकरणं नाम
चतुर्विंशोऽध्यायः ॥
१. 'बहार' ख. पाठः. २. 'तदनुत्र' ख. ग. पाठः.
१५० शिल्परत्ने [उत्तरभागः
अथ पञ्चविंशोऽध्यायः ।
अथेन्द्राद्यन्यदैवतध्यानम् । पूर्वमिन्द्रः ।
उपवने मरुतामथ नन्दने
व्र(त)तिगेहलसल्ललनागणे ।
कनकभासितभूतितलेऽञ्चिते
विबुधशालिशतैरखिलार्थदैः ॥ १ ॥
कलितहेमलतानिकरोज्ज्वलैः
कलनिनादविहङ्गमनोरमैः ।
कनकपङ्कजसौरभवाहिना
सुरसरिन्मरुता च मनोरमे ॥ २ ॥
सुरुचिरं मणिमण्डपमुज्ज्वलं
विबुधपादपपञ्चकमध्यगम् ।
मणिमयं च तदन्तरभूतले
द्विरद्वैरिमहासनमद्भुतम् ॥ ३ ॥
उपरिसंस्थितमुज्ज्वलभूषणं
तरुणभास्करकोटिसमप्रभम् ।
महितरत्नकिरीटमनोहरं
मणिमयूखविराजितकुण्डलम् ॥ ४
मसृणकुङ्कुमपङ्कपरिस्फुर-
त्तिलकशोभिललाटतटान्तरम् ।
कमललोचनमुन्नतनासिकं
मुकुरगण्डतलं मधुरस्मितम् ॥ ५ ॥
१. 'देवताध्या' घ. पाठः ।
अधरकान्तिपराजितविद्रुमं
विगलिताङ्कशशाङ्कनिभाननम् ।
विमलकम्बुविराजितकन्धरं
विविधहारलताञ्चितवक्षसम् ॥ ६ ॥
कनकतालगतं वसुसञ्चयं
निजकरैर्दधतं निजसेविनाम् ।
महितरत्नमरीचिचयोल्लस-
ज्जठरबन्धमनोरममध्यमम् ॥ ७ ॥
विविधरत्नलसन्मणिमेखला-
कलितसूक्ष्मदुकूलविराजितम् ।
अमरसिन्धुरबन्धुरनासिका-
सदृशपीनवरोरुमनोहरम् ॥ ८ ॥
प्रपदनिर्जितकच्छपमङ्गुली-
नखमयूखजितेन्दुकराङ्कुरम् ।
मुनिसुरासुरसिद्धमहोरगा-
द्यखिललोकनताङ्घ्रिसरोरुहम् ॥ ९ ॥
त्रिभुवनैकपरायणमिष्टदं
त्रिदशनाथमनारतमाश्रये ॥
अपिच —
मन्दाकिनीतटरुहत्रिदशद्रुमाधो
वृन्दारकैः परिवृतं गजराजसंस्थम् ।
१५२ शिल्परत्ने [उत्तरभागः
दोर्भ्यां सुवर्णचषकस्थमकै१प्यजात-
मादाय साधकवराय समर्पयन्तम् ॥ १० ॥
अथवा —
धवलनलिनमध्ये सन्निषण्णं सिताङ्गं
सुरमुनिपितृसिद्धैः सेवितं सुप्रसन्नम् ।
दशशतभुजदण्डोल्लासिपीयूषकुम्भै३-
रमृतजलमजस्रं स्रावयन्तं निर्जोङ्गे ॥ ११ ॥
सुरपरिवृढमेवं चिन्तयित्वा सहस्रं
जपतु नियमयुक्तो मन्त्रै५(सुर्व्वर्यनयो ?)यः ।
स तु दुरितवियुक्तो विश्वसंवादयुक्तो
गदगणरहितं वै विन्दते दीर्घमायुः ॥ १२ ॥
अपिच, ऐन्द्री गायत्री —
पारिजाततरुमूलबद्धमणिकुट्टिमोपरिस्मास्थितं
पाणिपङ्कजयुगात्तरत्नकलशाभिषिक्तनिजविग्रहम् ।
पाटलाङ्गमरुणाभवस्त्रममलेन्दुसुन्दरमुखश्रियं
पाकशासनमहर्निशं नमत धर्मकामधन मोक्षदम् ॥ १३ ॥
अथवा —
अरुणाम्बुज + + + मध्यगतं
सृणिपाशशक्तिशौत१०कोटिकरम् ।
१. 'क' ख., 'कुर्व्वजा' क. ग. पाठः. २. 'ग', ३. 'न्ती',
४. 'जांशे ॥' घ. पाठः. ५. 'न्त्रबर्य' ख. ग. पाठः. ६. 'युः । ऐ',
७. 'घ', ८. 'दं जपे ॥ अ' क. ख. ग. पाठः. ९. 'ग', १०.
'ष्टीरम्' घ. पाठः.
प्रविचिन्त्य मन्त्रमेमुमेव जपन्
वशयेत् क्षणेन सुरपौरजनम् ॥ १४ ॥
तद्विष्टप् —
मातङ्गारातिपीठे स्थितमतिरुचिरे नन्दने कल्पवृक्षै-
र्मन्दारार्यैर्मनोज्ञैर्विबुधमुनिनतं तप्तकार्तस्वराभम् ।
हस्तोद्यत्स्वर्णकुम्भप्रकरपरिगलद्रत्नधाराप्रवाहान्
वर्षन्तं वाञ्छितार्थप्रदममरपतिं सुप्रसन्नं नमामि ॥ १५ ॥
अँथाग्निः —
त्रिनयनमुरुतंसं बद्धमौलिं सुशुक्ला-
म्बरमरुणमनेकाकल्पमम्भोजसंस्थम् ।
अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं
नमत कनकमालालङ्कृतं तं कृशानुम् ॥ १६ ॥
संवादाग्निः —
धवलनलिनराजच्चन्द्रमध्ये निषण् १ णं
कराविलसितपाशं साङ्कुशं साभयं च ।
(स)वरदममलेन्दुक्षीरगात्रं त्रिनेत्रं
प्रणमत सुरवक्रं मङ्क्षु संवादयन्तम् ॥ १७ ॥
समर्द्धिः —
हैमाश्र्वत्थसुरद्रुमोदरभुवो निर्यान्तमश्राकृतिं
वर्षन्तं धनधान्यरत्ननिचयं रन्ध्रैः स्वकैः सन्ततम् ।
ज्वालापल्लवितस्वरोमविवरं भक्तार्तिसम्भेदनं
वन्दे सर्वसुखार्थमोक्षफलदं दिव्याकृतिं पावकम् ॥ १८ ॥
. १. 'नु' ख. पाठः. २. 'अग्निः' घ. पाठः.
V
१५४ शिल्परत्ने [उत्तरभागः
तद्भेदः —
(अथवा) शक्तिस्वस्तिकदर्भाक्षस्रक्(स्रुव)स्रुगभयवरान् ।
दधदमिताकल्पो वोवसु(र)वतात् कनकम१लिकालसितः
[॥ १९ ॥
रक्षोहाग्निः —
त्रिशूलं परशुं चैव कपालं डमरुं तथा ।
बिभ्राणमुग्रवपुषं त्रिनेत्रं चन्द्रशेखरम् ॥ २० ॥
दंष्ट्राकरालनिनदद्भ्रुकुटीकुटिलाननम् ।
बडबामुखाभिसदृशं दहन्तं भुवनत्रयम् ॥ २१ ॥
भूतप्रेतपिशाचादीन् भक्षयन्तं महाबलम् ।
ध्यात्वाजस्रं जपेन्नित्यं रक्षोहाग्निं समाहितः ॥ २२ ॥
अथ यमः —
द्विभुजः कृष्णवर्णस्तु खड्गखेटकसंयुतः ।
करालदंष्ट्रवदनो रक्तमाल्यानुलेपनः ॥ २३ ॥
रक्तवस्त्रधरश्चोग्रः किरीटमकुटान्वितः ।
दीप्ताभिसदृशाक्षश्च महामहिषवाहनः ॥ २४ ॥
यमस्तु तस्य पार्श्वस्थौ ++++++++ ।
चित्रगुप्तः कलिश्चैव द्वारपार्श्वे तु संस्थितौ ॥ २५ ॥
२कृष्णश्यामानिभौ तौ च रक्तवस्त्रधृतावभौ ।
पीठपार्श्वगतौ मृत्युसहितावु ++++ ॥ २६ ॥
नीललोहितसङ्काशौ द्वौ चामरधृतस्त्रियौ ।
- पुरतः संस्थितौ विप्रौ धर्माधर्मसमाह्वयौ ॥ २७ ॥
१. 'दाः' क. ख. ग. पाठः. २. 'श्यामकृष्णनि' घ. पाठः.
सोमः ] पञ्चविंशोऽध्यायः । १५५
यमः सिंहासनारूढो महिषारोहितस्तु वा ।
अथ निर्ऋतिः —
निर्ऋतिस्तु महावीरो द्विभुजो रक्षसां पतिः ॥ २८ ॥
खड्गं दक्षिणहस्ते तु वामहस्ते तु खेटकम् ।
प्रीतिहस्तधरो रौद्रः करालवदनान्वितः ॥ २९ ॥
सर्वाभरणसंयुक्तो नानापुष्पैरलङ्कृतः ।
अथ वरुणः —
वरुणः शुक्लवर्णस्तु द्विभुजः पाशहस्तकः ॥ ३० ॥
सर्वाभरणसंयुक्तः करण्डमकुटान्वितः ।
पीतवस्त्रधरः शान्तो महाबलसमन्वितः ॥ ३१ ॥
यज्ञसूत्रसमायुक्तो मकरस्थासनासनः ।
अथ वायुः —
कुञ्चितभ्रूयुतो वायुः शबलाम्बरभूषितः ॥ ३२ ॥
नानाभरणसंयुक्तः केशाढ्यः सुविकीर्णकः ।
सिंहासनोपरिष्टात् तु शीघ्रयात्रोत्सुकः स्थितः ॥ ३३ ॥
अथ *धनदः —
अथ सोमः —
प्रालेयामलमात्मदीधितिसुधासङ्क्रान्तलोकत्रयं
मुक्ताजालविराजिरूप्यविलसद्वेषान्तरालङ्कृतम् ।
भास्वत्कैरवचारुबाहुममलक्षौमावदातं परं
वन्दे सोममरा(ज ? ल)नीलविलसत्केशं मनोनन्दनम्
[॥ ३४ ॥
————————————————————————————————
१. 'तः । अथ' ख. ग. पाठः. २. 'तः । सो' घ. पाठः.
- अस्य ध्यानश्लोको मातृकासु न दृश्यते ।