शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 161, कुल 280 में से
संदर्भ में पढ़ें१४२ शिल्परत्नं [उत्तरभागः
गौरीं गौराङ्गरागाम्बररुचिरतनुं चिन्तयेन्मन्त्रमेनं
जप्यात् कान्त्यै समृद्धयै सुविपुलयशसे लोकसंरञ्जनायै
[॥ ५३ ॥
अथ प्राणशक्तिः —
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराग्रैः
पाशं कोदण्डमिक्षूद्भवमलिगुणमप्यङ्कुशं पञ्च बाणान् ।
बिभ्राणासृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा वः
[॥ ५४ ॥
अथ अश्वारूढा —
पाशेनाबध्ये साध्यं स्मरशरविवशां वामदोष्णानयन्तीं
सौवर्णीं वेत्रयष्टिं निजकरकमलेनापरेणादधानाम् ।
रक्तां रक्ताङ्गरागाम्बरकुसुमयुतामश्वसंस्थां प्रसन्नां
देवीं बालेन्दुचूडां मनसि मुनिनैतां पार्वतीं भावयामि
[॥ ५५ ॥
वज्रप्रस्तारिणी—
रक्तपयोनिधिगतमणिपोतस्फुरितरविच्छदकमलनिषण्णाम् ।
इक्षुशरासनपुष्पशराभयवरसृणिडाडिमसायकपाशान् ॥५६॥
दधतीमरुणामयुगलनेत्रामरुणविलेपनमाल्यदुकूलाम् ।
हिमकरलेखाकलितकपर्दां हिमगिरितनयामनिशमुपासे
[॥ ५७ ॥
अपिच —
१. 'य + अश्वा', २. 'द्धसाध्यां स' घ. पाठः. ३. 'न' ख. पाठः.