सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 160, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 160

शक्तौ स्वयंवरा ] चतुस्त्रिंशोऽध्यायः । १४१
अथवा —
दोर्भिश्चतुर्भिर्विभ्राणं वज्रशक्तिवराभयान् ।
त्रैलोक्यनाथं वरदं देवेन्द्रं मण्डपाश्रितम् ॥ ४८ १/२ ॥
तस्याङ्कसंस्थामिन्द्राणीं मनोहरनगकृतिम् ॥ ४९ ॥
अथ स्वयंवरा —
बालार्कयुतसप्रभां करतले लोलम्बमालाकुलां
मालां सन्दधतीं मनोहरतनुं मन्दस्मितोद्यन्मुखीम् ।
मन्दं मन्दमुपेयुषीं वरयितुं शम्भुं जगन्मोहिनी²
वन्दे देवमुनीन्द्रवन्दितपदामिष्टार्थदां पार्वतीम्³ ॥ ५० ॥
अपिच —
हेमाभां मतिवागतीतगुणशीलानल्पशिल्पाकृतिं
प्रेमारोहमनोहरां करलसत्कल्याणदामाश्रिताम् ।
श्यामामीश्वरमुद्यतां वरयितुं त्रैलोक्यसम्मोहिनीं
कामापादनकल्पवल्लिमनिश्ं वन्दे परां देवताम्⁴ ॥ ५१ ॥
अथैच,
करधृतवरमाला सर्वरत्ना¹ङ्गभूषा
निखिलनयनचेतोहारिरूपाग्र्यवेषा ।
भवतु भवदभीष्टप्राप्तये शैलकन्या
पुरुषयुवतिवश्याकृष्टिनित्यप्रगल्भा ॥ ५२ ५
अथवा —
उद्यद्राकाशशाङ्ककान्तरपरिविलसत्पद्मसंस्थां त्रिनेत्रां
दोर्भिः पाशेक्षुचापाङ्कुशकुसुमशरान् बिभ्रतीमिन्दुचूडाम् ।
१. 'ङ्क । स्व', २. 'नं', ३. 'म् । हे' घ. पाठः. ४. 'म् ।
क' ख. पाठः. ५. 'थ, क' क. ग. पाठः. ६. 'क्ता' घ. पाठः.