सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 169, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 169

१५० शिल्परत्ने [उत्तरभागः
अथ पञ्चविंशोऽध्यायः ।
अथेन्द्राद्यन्यदैवतध्यानम् । पूर्वमिन्द्रः ।
उपवने मरुतामथ नन्दने
व्र(त)तिगेहलसल्ललनागणे ।
कनकभासितभूतितलेऽञ्चिते
विबुधशालिशतैरखिलार्थदैः ॥ १ ॥
कलितहेमलतानिकरोज्ज्वलैः
कलनिनादविहङ्गमनोरमैः ।
कनकपङ्कजसौरभवाहिना
सुरसरिन्मरुता च मनोरमे ॥ २ ॥
सुरुचिरं मणिमण्डपमुज्ज्वलं
विबुधपादपपञ्चकमध्यगम् ।
मणिमयं च तदन्तरभूतले
द्विरद्वैरिमहासनमद्भुतम् ॥ ३ ॥
उपरिसंस्थितमुज्ज्वलभूषणं
तरुणभास्करकोटिसमप्रभम् ।
महितरत्नकिरीटमनोहरं
मणिमयूखविराजितकुण्डलम् ॥ ४
मसृणकुङ्कुमपङ्कपरिस्फुर-
त्तिलकशोभिललाटतटान्तरम् ।
कमललोचनमुन्नतनासिकं
मुकुरगण्डतलं मधुरस्मितम् ॥ ५ ॥
१. 'देवताध्या' घ. पाठः ।