सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 158, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 158

शक्तौ इन्द्राणी] चतुर्विंशोऽध्यायः । १३९
त्रैलोक्यमोहिनी —
पद्मस्थामिक्षुचापं कुसुमशर सृणीपद्मयुग्माक्षमाला-
विद्यापाशान् दधानां कुचभरविनमन्मध्यवल्लीं त्रिनेत्राम् ।
रक्तां रक्ताङ्गरागाम्बरकुसुमयुतां सुप्रसन्नाननाब्जां
त्रैलोक्यक्षोभदात्रीं मुनिविबुधनुतां देवतां तां नमामि ॥३२॥
संवित् —
उद्यद्भास्करसप्रभां त्रिनयनामापीनतुङ्गस्तनीं
पाशं पुस्तकमङ्कुशं जपवटीं चाबिभ्रतीं बाहुभिः ।
रक्ताकल्पदुकूलमाल्यलसितां बालेन्दुचूडामणिं
भक्ताभीप्सितकामधेनुमनिशं वन्दे परां देवताम् ॥ ३३ ॥
इन्द्राणी —
कल्पद्रूद्यानमध्ये विविधमणिलसन्मण्डपान्तर्विराज-
न्मातङ्गारातिपीठप्रविलसितसरोजन्मसंस्थां प्रसन्नाम् ।
पीनोत्तुङ्गस्तनार्तां पृथुजघनभरां पद्मपत्रायताक्षी-
मिन्द्राणीमिन्द्रनीलोत्पलशकलसमां हृद्यभूषां नमामि
अथवा — [॥ ३४ ॥
सञ्चिन्त्य नन्दनोद्यानं मन्दाराद्यैः सुरद्रुमैः ।
कल्पवल्लीशतैश्चापि फलपुष्पभरानतैः ॥ ३५ ॥
अलङ्कृतं तस्य मध्ये रत्नमण्डपमुज्ज्वलम् ।
रत्नसिंहासनगतां तन्मध्ये शक्रवल्लभाम् ॥ ३६ ॥
मन्दारमाल्यमसृणमल्लघम्मिल्लमन्थराम् ।
२मृगाङ्कवल्लीमन्दारमन्दस्मितमनोहराम् ॥ ३७ ॥
मत्तमातङ्गमहितमस्तकोद्यत्स्तनद्वयाम् ।
मृणालतन्तुमृदुलमध्यवल्लीमनोरमाम् ॥ ३८ ॥
१. 'स्या' रु., 'ल' ग. पाठः. २. 'भुजङ्ग' क. ग. पाठः.