सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 159, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 159

१४० [शिल्परत्नं [उत्तरभागः
मनोह्नगभोङ्गभरमन्थरगामिनीम् ।
हाग्रैवेयरशनानूपुराद्यैरलङ्कृताम् ॥ ३९ ॥
उत्तंसितेन मणिना चिन्तापूर्वेण सन्ततम् ।
प्लाव्यमानाङ्गलतिकां रत्नजालानि वर्षता ॥ ४० ॥
आन्दोलयन्तीं हस्तेन लीलापद्मं शनैः शनैः ।
शङ्खपद्मनिधिभ्यां च वामदक्षिणपार्श्वयोः ॥ ४१ ॥
वसुप्रवाहं वर्षद्भ्यां सेव्यमानां सदा मुदा ।
रम्भया च सितच्छत्रं रत्नदण्डं शशिप्रभम् ॥ ४२ ॥
काञ्चनस्रावि संगृह्य सेव्यमानां प्रसन्नया ।
घृताचीसहजन्याभ्यामुभयोः पार्श्वयोरपि ॥ ४३ ॥
सविलासं वीज्यमानां व्यजनाभ्यां शनैः शनैः ।
मन्दं मन्दं दोर्लताभ्यां गृहीत्वा पादपङ्कजम् । ४४ ॥
संवाहयन्ती