शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
मृल्लेपनम् ।] एकोनविंशोऽध्यायः । ९१
कृष्णवालुकसंयुक्तमक्लेशात् खननक्षमम् ।
(हस्तेमरोरमाहस्तं दृढक्रियतद्नूपकम् ?)॥ २ ॥
तयोर्मिश्रमिवाकारं मिश्रभूस्तदुदाहृतम् ।
तेष्वशोष्यजलोपेते शुद्धे देशे मनोरमे ॥ ३ ॥
नदीदीर्घतटाकादौ जातं पङ्कं समाहरेत् ।
श्वेतवर्णं तु वा रक्तवर्णं हारिद्रमेव वा ॥ ४ ॥
विप्रादिवर्णभेदेन कृष्णवर्णमथापि वा ।
संगृह्यालोड्य पात्रेषु स्रावयेन्नववाससा ॥ ५ ॥
तत् स्रावं तोयनिर्मुक्तं पात्रस्थं घर्मशोषितम् ।
लाक्षाक्षीरत्वचोद्भूतक्वाथतोयेषु मर्दयेत् ॥ ६ ॥
शोषयित्वा पुनः क्वाथैः खदिरार्जुनसम्भवैः ।
सम्मर्द्य शोषयेद् यावत् तत् पङ्कं पिण्डतां ययौ ॥ ७ ॥
पुनः फलत्रयक्वाथमर्दितं शोषयेद् बुधः ।
ईषद् द्रवसमायुक्तं पिण्डं कृत्वा तु तन्मृदम् ॥ ८ ॥
पिण्डे हस्ततले रेखा दृश्येत् पिण्डं* तदा कुरु ।
मृदं वेदकृतैकांशं योजयेत्तु मृदा सह ॥ ९ ॥
त्रिफलाम्भसा तु संमर्द्य सप्ताष्टदशरात्रकम् ।
यवगोधूममाषांश्चाप्यतसीपत्रकं तथा ॥ १० ॥
यथा समांशं संयोज्य चूर्णितं सुतरां पुनः ।
मृदष्टांशं समायोज्य नालिकेरफलोदकैः ॥ ११ ॥
- इत उपरि ग-चिह्निते तालपत्रकोशे एकादशपत्राणि लुप्तानि ।
९२ शिल्परत्ने [उत्तरभागः ।
पात्रेषु मर्दयेत् सम्यग् दशाहादिक्रमेण तु ।
श्रीवेष्टं गुल्गुलुं चैव कुन्दुरिकं तथैव च ॥ १२ ॥
सर्जरसं च तुल्यांशानेतान् संचूर्ण्य योजयेत् ।
मृत्कलांशं मृदौ तस्मिन् दधिना मर्दयेत् पुनः (?) ॥ १३ ॥
शुण्ठी च पिप्पली चैव मरिची रजनी तथा ।
समांशं चूर्णयेद् विद्वान् तच्चूर्णं तु मृदा सह ॥ १४ ॥
मृत्तिकाचतुर्विंशांशं योजयित्वा तु मर्दयेत् ।
मधुक्षीरघृतैरेवं मर्दयेच्च पुनस्तथा ॥ १५ ॥
कपित्थबिल्वनिर्यासचूर्णौ द्वौ समतां कुरु ।
मृदः पञ्चदशांशेन तच्चूर्णेन विमर्दयेत् ॥ १६ ॥
तैलेनासिच्य संमर्च्य पुनः कुङ्कुमचन्दनौ ।
हरितालकुष्ठकर्पूरागरुगोरोचनानि च ॥ १७ ॥
समं संचूर्ण्य मृत्स्नायां त्रिंशांशं योजयेत् पुनः ।
अतसीकाष्ठजस्नेहसंयुक्तं तु विमर्दयेत् ॥ १८ ॥
स्वर्णरजतचूर्णं च नदीसागरसम्भवम् ।
कुलीरावासवल्मीकहल्लस्थलसमुद्भवम् ॥ १९ ॥
सस्यमूलोक्षशृङ्गेभदन्तजामृत्तिकारजः ।
यथालाभं तु संगृह्य नानागन्धसमन्वितम् ॥ २० ॥
संयोज्याथ मधूकत्वक्कषायजलसंयुतैः ।
कपित्थबिल्वनिर्यासैः सम्मर्च्य दिनपञ्चकम् ॥ २१ ॥
नीत्वा पश्चान्नालिकेरफलपक्वत्वचां पुनः ।
सारमेकाङ्गुलायामं सार्धं वा द्व्यङ्गुलं तु वा ॥ २२ ॥
मृल्लेपनम् ] एकोनविंशोऽध्यायः । ९३
छित्वा तु मृच्चतुर्थांशं युक्त्वा सम्मर्दयेन्मुहुः ।
रज्ज्वावृतास्थिबाह्ये तु तन्मृदालेपयेत् पुनः ॥ २३ ॥
तस्मिञ्छुष्के रज्जुबन्धं ततो मृल्लेपनं पुनः ।
मृद्धनं चन्द्रनेत्राग्निमात्रं योग्यवशाद् भवेत् ॥ २४ ॥
एवं निरीक्ष्य कर्तव्यं मृल्लेपनमतः शनैः ।
तत्तदङ्गप्रदेशेषु शूलबाह्यगतं घनम् ॥ २५ ॥
चतुरंशैर्विभज्यात्र प्रथमांशावसानकम् ।
मृल्लेपं त(द)नूपं तत्तद्बाह्येंऽशं तु मिश्रकम् ॥ २६ ॥
तद्बा(हु ? ह्य)गतमेकांशं जाङ्गलाख्यमुदाहृतम् ।
तत्तद्देशमृदेनैव तत्तदङ्गं समालिपेत् ॥ २७ ॥
कल्केन पूरयेच्छेषं कल्कनिर्माणमाचरेत् ।
अतिकृष्णतारनदीशर्करया समम्(?) ॥ २८ ॥
नदीवालुकमायोज्य सुसूक्ष्मं चूर्णयेद् बुधः ।
कपित्थनिर्यासजलैर्मर्दयित्वा विशोषयेत् ॥ २९ ॥
पुनः कार्पासतूलेन संयुक्तं परिवेष्टयेत् ।
शिलापृष्ठे पुनः शोषं कृत्वा पश्चात्तु पेषयेत् ॥ ३० ॥
त्रिवारं पेषयित्वैवं तेन शेषं प्रपूरयेत् ।
अङ्गोपाङ्गानि संपूर्य भूषावस्त्रादिकान्यपि ॥ ३१ ॥
कल्केनैव विधायात्र सम्यक् संशोषणे सति ।
त्रिफलोत्थक्वाथजलैः सम्यगालिप्य सर्वतः ॥ ३२ ॥
शुष्के तु स्वर्णपिष्टेन लेपं कृत्वा पुनः क्रमात् ।
चित्रोक्तमार्गमाश्रित्य वर्णलेपं च कारयेत् ॥ ३३ ॥
९४ शिल्परत्ने [उत्तरभागः
मुक्ताफलस्य चूर्णस्य पिष्टः स्यात् सितवर्णके ॥ ३३½ ॥
इति शिल्परत्ने उत्तरभागे मृल्लेपनविधिर्नाम
एकोनविंशोऽध्यायः ॥
अथ विंशोऽध्यायः ।
अथ देवीकुमारलक्षणम् ।
स्थानकानां तु देवानां देव्यः स्युः स्थानकास्तथा ।
आसीनास्त्वासिते देवे विपरीतं विपत्करम् ॥ १ ॥
देवस्य वामपार्श्वे तु देवी तत्पीठगा भवेत् ।
पीठान्तरगता वापि देवमालिङ्ग्य वा भवेत् ॥ २ ॥
देवस्य नासिकान्तं वा ललाटान्तमथापि वा ।
हन्वन्तं वा प्रकर्तव्यं देव्यायाममिहोदितम् ॥ ३ ॥
क्रीडापद्मं वामहस्ते कटिबन्धं तु वान्यतः ।
सर्वाभरणसंयुक्ता तत्तद्युक्तविभूषणैः ॥ ४ ॥
किञ्चिद्देवाश्रितं वक्त्रं प्रसन्नमधुरं भवेत् ।
देवीदेवेशयोर्मध्ये कुमारं स्थापयेत्तु वा ॥ ५ ॥
हिक्कान्तं वा स्तनान्तं वा तयोर्मध्येऽष्टभाजिते ।
एकैकांशकहीनेन नवधा तुङ्गमाचरेत् ॥ ६ ॥
देवीबिम्बोच्चमानेन कुमारप्रतिमोन्नतम् ॥ ६½ ॥
इति शिल्परत्ने उत्तरभागे देवीकुमारलक्षणं नाम
विंशोऽध्यायः ॥
९५
अथैकविंशोऽध्यायः ।
अथ वाहलक्षणम्—तत्र पूर्वं वृषलक्षणम् ।
तुङ्गे पञ्चदशांशे तु एकांशं त्वङ्गुलं भवेत् ।
चत्वारिंशाङ्गुलायामं मुखात् पृष्ठावसानकम् ॥ १ ॥
मूर्तेस्त्वध उपर्यन्तं धर्ममात्रमुदाहृतम् ।
तस्माद् ग्रीवाञ्चमष्टांशमुरोन्तं षोडशाङ्गुलम् ॥ २ ॥
ऊरुदीर्घं तु षण्मात्रं जानुमानं द्विमात्रकम् ।
जङ्घामानं षडंशं म्यात खुरमानं द्विमात्रकम् ॥ ३ ॥
शृङ्गान्तरं तु वस्वंशं शृङ्गोच्चं चतुरङ्गुलम् ।
शृङ्गमूलविशालं तु चतुरङ्गुलमेव च ॥ ४ ॥
तदग्रव्यासमधार्ंशं मूलादग्रं क्रमात् कृशम् ।
किञ्चिद् वक्रसमायुक्तौ शृङ्गावभ्यन्तरे क्रमात् ॥ ५ ॥
ललाटतारं नन्दांशं मुखव्यासं शरांशकम् ।
घनं तु तत्समं ख्यातं नेत्रायं द्व्यङ्गुलं भवेत् ॥ ६ ॥
अध्यर्धाङ्गुलमुत्सेधं शफराकृति कारयेत् ।
नेत्रमध्यान्मुखायाममष्टाङ्गुलमुदाहृतम् ॥ ७ ॥
तस्माद् वै पृष्ठग्रीवान्तं षण्मात्रं परिकीर्तितम् ।
नेत्रमध्याल्ललाटोच्चं वेदमात्रमुदाहृतम् ॥ ८ ॥
नेत्रात् कर्णान्तरं तद्वत् कर्णायामं शरांशकम् ।
कर्णमूलविशालं तु द्विमात्रमिति कथ्यते ॥ ९ ॥
मध्यव्यासं चतुर्मात्रमग्रमङ्गुलविस्तृतम् ।
घनमर्धाङ्गुलं ख्यातं गण्डं तत्सममुच्यते ॥ १० ॥
९६ शिल्परत्ने [उत्तरभागः
अङ्गुलं नासिकादीर्घं* + + + + + + ++॥ १०१/२॥
अथाश्वलक्षणम् ।
मुखं तालत्रयं प्रोक्तमायामेन तुरङ्गमे ।
तन्मध्यवर्तिनो वक्ष्ये प्रदेशान्मात्रया मितान् ॥ १॥
वर्त्तुलं मस्तकं कार्यं षडङ्गुलमितं पुनः ।
त्र्यङ्गुलं कर्णमूलान्तमुत्सेधेन व्यवस्थितम् ॥ २ ॥
कर्णमूलात्तथा कर्णौ कार्यावष्टाङ्गुलायतौ ।
ना(ग)वल्लीदलप्रख्यौ चतुरङ्गुलविस्तृतौ ॥ ३ ॥
कर्णमूलस्य नेत्रस्य मध्यं कार्यं नवाङ्गुलम् ।
नेत्रे गोलद्वयायामे सार्धद्व्यङ्गुलविस्तृते ॥ ४ ॥
भ्रुवौ द्व्यङ्गुलविस्तारे षडङ्गुलसमायते ।
भ्रुवोर्मध्यप्रदेशस्तु द्वादशाङ्गुलसम्मितः ॥ ५ ॥
षडङ्गुलं भवेत् फालं केशान्ते मध्यदेशतः ।
अष्टाङ्गुलं ततश्चाधो द्वादशाङ्गुलविस्तृतम् ॥ ६ ॥
एकतालो भवेद् दैर्घ्यं ललाटस्य प्रमाणतः ।
नयनाद् गण्डविस्तारः षोडशाङ्गुल इष्यते ॥ ७ ॥
नासावंशस्य दैर्घ्यं स्यात् षोडशाङ्गुलमिष्यते ।
विस्तारस्त्र्यङ्गुलः प्रोक्तो नासिका चतुरङ्गुला ॥ ८ ॥
नासापुटस्य विस्तारो द्व्यङ्गुलः परिकीर्तितः ।
पुटयोरन्तरं प्रोक्तमूर्ध्वभागे षडङ्गुलम् ॥ ९ ॥
- इत ऊर्ध्वं क-ख-मातृकयोः सष्टाष्टश्लोकलेखनपर्याप्तं तालपत्रमलेखं
दृश्यते ।
अश्वलक्षणम् ] एकविंशोऽध्यायः । ९७
चतुर्मात्रमधोभागे तत्र लेखात्रयं भवेत् ।
तस्याधः (प्रौढ ? प्रोथ)देशः स्याच्चतुरङ्गुलसम्मितः ॥ २० ॥
चतुरङ्गुलविस्तारः पीनत्वं चतुरङ्गुलम् ।
मुखराजे(:) पुटस्यापि मध्यं स्याच्चतुरङ्गुलम् ॥ २१ ॥
मुखरेखाबहिर्भागे हनुः स्याच्चतुरङ्गुलः ।
चिबुकं तत्र कर्तव्यं पञ्चाङ्गुलमितं बुधैः ॥ २२ ॥
(प्रौढा ? प्रोथा)च्च सृक्वपर्यन्तमास्यरेखा स्वराङ्गुला ।
मस्तकात् काकसां यावच्चतुस्तालमितं भवेत् ॥ २३ ॥
स्यात् केसरस्य विस्तारः शीर्षदेशेऽङ्गुलत्रयम् ।
चतुरङ्गुलं भवेन्मध्ये प्रान्ते मात्रमितो भवेत् ॥ २४ ॥
कृत्तकेसरकः स्कन्धः कर्तव्यः काकसावधि ।
काकसायां तथा कार्याः केसरा दैर्घ्यशालिनः ॥ २५ ॥
मस्तके चं तथा केशा द्वादशाङ्गुलदैर्घ्यकाः ।
तरङ्गिता घनाः स्निग्धाः श्लक्ष्णाः कार्या मनोहराः ॥
नि(गपा ? गाला)दंसपर्यन्तं ग्रीवा तालद्वयायता ।
अङ्गुलत्रयविस्तारा कार्या निखिलघोटके ॥ २७ ॥
स्कन्धदेशपरीणाहः षट्तालः साङ्गुलत्रयः ।
स्कन्धमध्यपरीणाहश्चतुष्पञ्चदशाङ्गुलः ॥ २८ ॥
ग्रीवासन्धिपरीणाहस्त्रितालश्च नवाङ्गुलः ।
वक्षोदेशस्य विस्तारो द्वादशाङ्गुलसम्मितः ॥ २९ ॥
अष्टादशाङ्गुलं दैर्घ्यं वक्षोदेशस्य कल्पितम् ।
वक्षःकाकसयोर्मध्यं द्विचत्वारिंशदङ्गुलम् ॥ ३० ॥
६८ शिल्परत्ने [उत्तरभागः
तथा चरणयोर्दैर्घ्यं द्विचत्वारिंशदङ्गुलम् ।
बाहु(दीर्घ ? दैर्घ्यं) भवेत् त्रयं प्रोक्तं पञ्चदशाङ्गुलम् ॥ ३१॥
बाहुमूलपरीणाहस्त्रिंशदङ्गुलसम्मितः ।
बाहुमध्यपरीणाहो वितस्तिद्वयवेष्टनात् ॥ ३२ ॥
बाहुप्रान्तपरीणाहो भवेदष्टादशाङ्गुलम् ।
(अष्टादशाङ्गुलो) जानुनाह एकोनविंशतिः ॥ ३३ ॥
जङ्घानलकदैर्घ्यं स्यान्नाहो द्वादशमात्रकः ।
पलिहस्तस्य दैर्घ्यं तु षडङ्गुलमुदीरितम् ॥ ३४ ॥
पलिहस्तपरीणाहो भवेदष्टादशाङ्गुलः ।
कुष्ठिकाया भवेद् दैर्घ्यं षडङ्गुलमुदीरितम् ॥ ३५ ॥
कुष्ठिकायाः परीणाहो द्वादशाङ्गुलसम्मितः ।
खुरदैर्घ्यं समुद्दिष्टं षडङ्गुलमितं बुधैः ॥ ३६ ॥
भवेत् खुरपरीणाहो विंशत्यङ्गुलसम्मितः ।
पृष्ठप्रदेशदैर्घ्यं च चतुस्तालमुदाहृतम् ॥ ३७ ॥
कक्षदेशपरीणाहः शताङ्गुलमितो भवेत् ।
रन्ध्रस्थानपरीणाहः ससप्तालं खराङ्गुलम् ॥ ३८ ॥
रन्ध्रोपरन्ध्रयोर्मध्यं विंशत्यङ्गुलमायतम् ।
त्रिकस्थानस्य विस्तारस्त्रिगुणैः षोडशाङ्गुलैः ॥ ३९ ॥
(ज्वल ? जघ)नस्य तु विस्तारः षट्चत्वारिंशदङ्गुलः ।
सक्थिप्रान्तपरीणाहस्तालद्वितयसम्मितः ॥ ४० ॥
नवाङ्गुलायता स्थू(ला ? रा) ना(भे ? हे)न त्रिंशदङ्गुला ।
गजलक्षणम् ] एकविंशोऽध्यायः । ९९
चतुरङ्गुलायतः कोशो मुष्कावष्टाङ्गुलायतौ ।
(स्व ? स्थू)रायां बुघ्नमागस्थे जङ्घे च परिहस्तकौ ॥ ४२ ॥
रुष्टिके च खुरद्वन्द्वं कार्यं पौ(ल ? र)स्त्यपादवत् ।
स्कन्धोऽङ्गुष्ठं च मध्यं च कृशं कार्यं प्रमाणतः ॥ ४३ ॥
ब(न्धा ? डवा)यां महत् वक्षो जघनं च सुविस्तृतम् ।
खुरपृष्ठान्तमालम्ब्य लाङ्गूलं चामराकृति ॥ ४४ ॥
यान्यनुक्तानि तान्यत्र कुर्यादङ्गानि युक्तितः ।
अथ गजलक्षणम् ।
गजस्य लक्षणं वक्ष्ये ज्ञानार्थं चित्रवेदिनाम् ॥ ४५ ॥
केशान्ततः समारभ्य यावत् स्यात् प्रतिमान(त ? क)म् ।
(सु ? मु)खं तत् कथितं तज्ज्ञैर्गजानां चित्रवेदिभिः ॥
ऊर्ध्वं केशान्ततः शीर्षं यावत् कुम्भसमुद्भवः ।
शीर्षस्योपरि कुम्भौ द्वौ कर्तव्यौ कुचसन्निभौ ॥ ४७ ॥
वायुकुम्भस्य शीर्षस्य सन्धेरा प्रतिमानतः ।
पिप्पलीदन्तवेष्टाभ्यां वेष्टितं मुखमीरितम् ॥ ४८ ॥
त्रिधा विभज्य तत्तालांस्त्रीन् भागान् परिकल्पयेत् ।
त्रिधा विभज्य तद्वक्त्रं त्रितालं परिकल्पयेत् ॥ ४९ ॥
यावत्प्रमाणकं नागं कर्तुमिच्छति शिल्पिराट् ।
चतुर्धा भाजिते तस्मिन् माने तालस्ततोऽङ्गुलम् ॥ ५० ॥
ऋजूनि लम्बसूत्राणि विधेयानि त्रयोदश ।
एकैकतालभिन्नानि चित्रकर्मविशारदैः ॥ ५१ ॥
तत्तत्प्रमाणकान्येव तिर्यक्सूत्राणि कारयेत् ।
एकाऽशैव तानि स्युः करिणां चित्रकर्मणि ॥ ५२ ॥
१०० शिल्परत्ने [उत्तरभागः
सविंशच्छतमुद्दिष्टाः (सूत्रा ? कोष्ठा)स्तत्सूत्रमध्यगाः ।
तत्र सूत्रेषु वक्ष्यामि प्रदेशान् नागसम्भवान् ॥ ५३ ॥
लम्बसूत्रं बहिष्ठं यत्तच्छिष्टं प्रतिमानके ।
निदा(ने ? नं) वायुकुम्भाग्रे दन्तमूले द्वितीयकम् ॥ ५४ ॥
बिन्दुमध्ये मदच्छिद्रे सृक्कदेशे तृतीयकम् ।
कण्ठे च पिप्पलीदेशे कुम्भप्रान्ते तुरीयकम् ॥ ५५ ॥
आसने कर्णमध्ये च पुरोनखपश्चिमे ।
द्वितीये नखरे लग्नं कार्यं सूत्रं तु पञ्चमम् ॥ ५६ ॥
*अंसे कर्णतलस्याग्रे पश्चान्नखपश्चिमे ।
सूत्रं षष्ठं प्रकुर्वीत सूत्रन्यासविशारदः ॥ ५७ ॥
मध्यदेशे प्रयुञ्जीत लम्बसूत्रचतुष्टयम् ।
सूत्राणां दशकं चैवं कथितं सूत्रवेदिभिः ॥ ५८ ॥
पेचकं पाचरांजितं (?) पाश्चात्यनखमध्यगम् ।
एकादशं भवेत् सूत्रं द्वादशं जघनस्पृशम् ॥ ५९ ॥
त्रयोदशं बहिष्ठं तु पुच्छमूले सुघट्टितम् ।
मस्तके वंशपृष्ठे च तिर्यक्सूत्रमथादिमम् ॥ ६० ॥
वायुकुम्भस्य शीर्षस्य सन्धौ पिप्पलिदेशतः ।
पेच्चके च विधातव्यं सूत्रमत्र द्वितीयकम् ॥ ६१ ॥
वायुकुम्भस्य मध्ये च नेत्रकर्णदलश्रतः ।
पेचकस्याप्यधोभागे सूत्रं कार्यं तृतीयकम् ॥ ६२ ॥
मुखमध्ये सृक्कदेशे पुच्छमध्यसुसङ्गतम् ।
चतुर्थं कल्पयेत् सूत्रं चित्रकल्पनकोविदः ॥ ६३ ॥
शैव सुखासनमूर्तिः] द्वाविंशोऽध्यायः । १०१
तदधः पञ्चमं सूत्रं षष्ठं तु जठरान्ततः ।
सप्तमं बाहुमध्ये स्यादष्टमं जानुमध्यगम् ॥ ६४ ॥
जङ्घामध्ये च नवमं दशमं गुल्फ(तो ? को)र्ध्वतः ।
एकादशं तु पादानां तलस्पृष्टं विधीयते ॥ ६५ ॥
मुखस्य त्रिगुणं दैर्घ्यं कण्ठात् पुच्छावसानकम् ।
जठरेण समं गात्रं कलाहीनं तु वा भवेत् ॥ ६६ ॥
गात्रतुङ्गसमं पादं पुच्छमागुलफलम्बितम् ।
पुच्छमूलपरीणाहं तालमात्रं निरूपितम् ॥ ६७ ॥
तदर्धमग्रं कर्तव्यं कृशाग्रं वर्तुलाकृति ।
तदग्रस्योभये पार्श्वे स्थूलरोमाणि कारयेत् ॥ ६८ ॥
श्रोत्रकुम्भाक्षदन्तोष्ठहस्तादीनि विशेषतः ।
विघ्नेशप्रोक्तमालोच्य कारयेत् सुमनोहरम् ॥ ६९ ॥
एवमन्यानि वाहानि तत्तद्देवोचितान्यपि ।
युक्त्या सम्यक् प्रकुर्वीत तत्तच्छास्त्रानुसारतः ॥ ७० १/२ ॥
इति शिल्परत्ने उत्तरभागे वाहनलक्षणं नाम
एकविंशोऽध्यायः ॥
अथ द्वाविंशोऽध्यायः ।
अथ ध्यानं — तत्र पूर्वं शैवे सुखासनमूर्तिः ।
आर्जवं राजराजाभं भद्रपीठोपरि स्थितम् ।
वामाङ्घ्रिं शाययेत् पीठे दक्षिणाङ्घ्रिं तु लम्बयेत् ॥ १ ॥
जागतं(?) तु सुखासीनं प्रवालसदृशप्रभम् ।
त्रिनेत्रं तु प्रसन्नास्यं सम्पन्नं राजसैर्गुणैः ॥ २ ॥
१०२ शिल्परत्ने [उत्तरभागः .
व्याघ्राजिनवरोपेतं दुकूलवसनान्वितम् ।
दक्षिणे परशुं वामे कृष्णां हस्ते ममुद्धृतम् ॥ ३ ॥
अभयं दक्षिणे वामे कटकं सिंहकर्णवत् ।
दक्षिणे मकराख्यं वा कुण्डलं सिंहमेव वा ॥ ४ ॥
पत्रकुण्डलमन्यत्र वामकर्णे विशेषतः ।
अथवा कर्णयुगले वृत्तकुण्डलकं न्यसेत् ॥ ५ ॥
जटामकुटसंयुक्तं नानाभरणभूषितम् ।
यज्ञोपवीतसंयुक्तं सर्पराट्कङ्कणान्वितम् ॥ ६ ॥
एवं सुखासनं प्रोक्तं राजराष्ट्रसुखावहम् ।
अथ सोमास्कन्देश्वरः ।
अथ वक्ष्ये विशेषेण सोमास्कन्देश्वरं वरम् ॥ ७ ॥
सुखासनं यथा प्रोक्तं तथा देवो विधीयते ।
देवस्य वामपार्श्वे तु पार्वती च सहासने ॥ ८ ॥
शाययेद् दक्षिणं पादं वामपादं प्रलम्बयेत् ।
वरदं वामहस्ते तु दक्षिणे चोत्पलं करे ॥ ९ ॥
दूर्वाश्यामनिभा देवी सर्वाभरणभूषिता ।
रक्ताम्बरधरा हारैकिरीटमकुटान्विता ॥ १० ॥
वामोरुबाह्ये पीठे तु वामहस्ततलं न्यसेत् ।
प्रह्वदुत्पलसंयुक्तमन्यमे³वं करोतु वा ॥ ११ ॥
देवीदेवेशयोर्मध्ये स्थापयेत् स्कन्दमूर्तिनम् ।
केशान्ते वा(पि ? चि)कोपेतैकरण्डमकुटान्वितम् ॥ १२ ॥
१ 'नि' २ 'व' ३ 'तम्' घ. पाठः.
शैवे चन्द्रशेखरः ] द्वाविंशोऽध्यायः । १०३
उभयोर्हस्तयोः पुष्पं वाभे वरदमेव वा ।
कटकं वाथ तद्धस्ते सिंहकर्णमथापि वा ॥ १३ ॥
अथवा पुस्तकं दक्षहस्ते वामे पुरोक्तवत् ।
कटिसूत्रयुतं नग्नं बाहुभूषणभूषितम् । १४ ॥
आसीनं वा स्थितं वाथ नृत्तं वा स्कन्दमाचरेत् ।
नृत्तं चेत् फलवद्वामहस्तमन्यत्र सूचिकम् ॥ १५ ॥
अथवा वामहस्तं तु फलं त्यक्त्वा प्रसारयेत् ।
वक्ष्यमाणविधानेन स्कन्दं नृत्तं समाचरेत् ॥ १६ ॥
अथ चन्द्रशेखरः ।
केवलं गौरिसहितमालिङ्गं च त्रिधा भवेत् ।
केवलं समपादं तु स्थानकं परिकल्पयेत् ॥ १७ ॥
अभयं दक्षिणं हस्तं वरदं वाममुच्यते ।
हरिणीं वामहस्ते तु टङ्कं वै दक्षिणे करे ॥ १८ ॥
जटामकुटसंयुक्तं दक्षिणेऽर्धेन्दुशेखरम् ।
वामेन्दुशेखरं वाथ प्रवालसदृशप्रभम् ॥ १९ ॥
त्रिनेत्रं सौम्यवदनं सर्वाभरणभूषितम् ।
पीताम्बरधरं देवं वस्त्राग्रा नलकान्तगौ ॥ २० ॥
उभयोः पार्श्वयोरेव मध्यतश्चोरुमध्यगम् ।
केवलं त्वेवमाख्यातं वामे गौरीसमन्वितम् । २१ ॥
भिक्षपीठेऽविशेषेण तद् गौरीसहितं विदुः।
देवो वरदहस्तेन देवीं तत्पार्श्वमाश्रिताम् ॥ २२ ॥
स्त(न)नाभ्यन्तरे वामपार्श्वमालिङ्गनं कुरु ।
पार्श्वसूत्रात् परे वामबाहुमालिङ्गनं तु वा ॥ २३ ॥
देवीदक्षिणहस्तेन शम्भोर्दक्षिणपार्श्वतः ।
कटिसूत्रोपरि तथा वामे पुष्पधृता करे ॥ २४ ॥
अथवा प्राग्वद्देवेशो देवी रक्तोत्पलान्विता ।
करे तु दक्षिणे वामहस्तमत्र प्रलम्बयेत् ॥ २५ ॥
एवमालिङ्गनमूर्तिं तु त्रिधा मार्गेण कल्पयेत् ।
एवं पञ्चविधं प्रोक्तं चन्द्रशेखरमूर्तिनम् ॥ २६ ॥
अथ वृषारूढमूर्तिः ।
दक्षिणं सुस्थितं वामपादं तु कुञ्चितम् ।
वृषस्य मस्तकोर्ध्वे तु न्यसेद् वै वामकोर्परम् ॥ २७ ॥
तस्य दक्षिणहस्तं तु वक्रदण्डमुदाहृतम् ।
कनिष्ठाङ्गुलिपरिणाहमग्रे वक्रत्रयान्वितम् ॥ २८ ॥
लोहजं दारुजं वापि वक्रदण्डं प्रकीर्तितम् ।
परहस्तद्वयोश्चैव टङ्कं कृष्णमृगं न्यसेत् ॥ २९ ॥
जटामकुटयुक्तं वा जटाभारं तु लम्बितम् ।
जटाबन्धशिरो वापि कर्तुरिच्छानुसारतः ॥ ३० ॥
सर्वाभरणसंयुक्तं रक्ताभं रक्तवाससम् ।
वामपार्श्वे तु वा देवी दक्षिणे वा विशेषतः ॥ ३१ ॥
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् ॥ ३२ ॥
अथ नृत्तम् ।
नृत्तमष्टशतविधं तत्रादौ नव कथ्यते ।
भानुरुद्रदशांशं वा तुङ्गं नृत्तनतं भवेत् ॥ ३३ ॥
शैवे नृत्तम् । ] द्वाविंशोऽध्यायः । १०५
हिक्कासमं समुन्नम्य दक्षहस्ताङ्गुलाग्रकम् ।
तद्धस्ततलमध्ये वा मध्यमाङ्गुलिकाग्रके ॥ ३४ ॥
तन्मध्यपर्वगं वाथ वह्निपात्रगतं तु वा ।
पात्रं विनाथवा कुर्यादपरे डमरुं तथा ॥ ३५ ॥
दक्षिणे त्वन्यहस्ते स्यादभयं पूर्वमुक्तवत् ।
अभये कोष्ठमध्ये तु भुजङ्गवलयं न्यसेत् ॥ ३६ ॥
डोलायमानं तद् वामहस्तं कुर्याद् यथोचितम् ।
स्थिताङ्घ्रिजानोर्वामाङ्घ्रिजानुनीप्रं कलाङ्गुलम् ॥ ३७ ॥
सुविकीर्य जटाभारं नानानागविचित्रितम् ।
करोतिकाभिर्धत्तूरकुसुमैश्च भुजङ्गमैः ॥ ३८ ॥
भूषितं मकुटं कुर्याद् दक्षिणेऽर्धेन्दुशेखरम् ।
सिन्दूरालंकृतोत्तंसमक्षमालावलम्बितम् ॥ ३९ ॥
भस्मोद्धूलितदिव्याङ्गं किञ्चित् प्रहसिताननम् ।
यज्ञोपवीतादियुतं व्याघ्रचर्माम्बरान्वितम् ॥ ४० ॥
दक्षिणं कुञ्चितं पादमपस्मारोपरि स्थितम् ।
चतुस्तालेन कर्तव्यमपस्मारं प्रमाणतः ॥ ४१ ॥
शम्भोः सव्यगतं तस्य शिरः कुर्यादधोमुखम् ।
पादौ विकीर्णहस्ताभ्यां व्यालीलीलामुदान्वितम् ॥ ४२ ॥
व्यालं वै वामहस्ते वा दक्षिणं मुद्रयान्वितम् ।
सस्यश्यामनिभं कुर्यादपस्मारं विशेषतः ॥ ४३ ॥
पद्मपीठमधः कुर्यात् कलाङ्गुलसमुच्छ्रयम् ।
तच्चतुर्गुणविस्तारं प्रभामण्डलसंयुतम् ॥ ४४ ॥
रविमण्डलवृत्तं तु प्रभामण्डलमत्र तु ।
तत्र वामेऽप्युमादेवीं प्रागुक्तविधिना कुरु ॥ ४५ ॥
एतत् स्यात् प्रथमं नृत्तं सर्वलोकहितावह्म् ।
तदेव दक्षिणे पार्श्वे जटाग्रे जाह्नवी भवेत् ॥ ४६ ॥
शम्भोरर्च्चाङ्गुलेनैव षोडशाङ्गुलमुन्नता ।
स्त्रीमानोत्तुङ्गसम्पूर्णा हृदयेऽञ्जलिसंयुता ॥ ४७ ॥
एवं जाह्नविसंयुक्तं नृत्तं यत्तद् द्वितीयकम् ।
तदेव वामपादं तदपस्मारोपरि स्थितम् ॥ ४८ ॥
उद्धृतं दक्षिणं पादं तृतीयेऽन्य(द् य)थापुरम् ।
अनुकीर्णजटाभारं जटामकुटमण्डितम् ॥ ४९ ॥
जटामण्डलयुक्तं वा चतुर्थेऽन्यद् यथादिमम् ।
उष्णीषोर्द्ध्वैकमात्रान्तं सव्यपादं समुद्धरेत् ॥ ५० ॥
सवक्रं वामपादं तदपस्मारोपरि स्थितम् ।
उपभुजाष्टकसंयुक्तमेतत् पञ्चममुच्यते ॥ ५१ ॥
अभयं शूलपाशौ च डमरुं दक्षिणे करे ।
कपालं चाग्निपात्रं च तालि + ण्डकरोपमम् ॥ ५२ ॥
दोर्भिः षडङ्गसंयुक्तं वामे गौरीसमायुतम् ।
स्कन्दो भयात् कराभ्यां तु मातुः स्तनहृदोदरात् ॥ ५३ ॥
निपीड्य वा कराभ्यां तु वामभागोद्धृताञ्जलिम् ।
एवं गौरी निरीक्षेशं भीत्यातिस्नेहविस्मयात् ॥ ५४ ॥
अभयं डमरुं चैव वज्रं शूलं तथैव च ।
पाशं ट¹ङ्कं तथा दण्डं नागं वै दक्षिणे करे ॥ ५५ ॥
१. 'घटं त' क. पाठः.
शैवे गङ्गाधरः ।] द्वाविंशोऽध्यायः । १०७
सजानुगकरं डोलं वामं गजकरोपमम् ।
अनलं मिथुनं चैव वलयं केतुमेव च ॥ ५६ ॥
घण्टां चैव कपालं च वामपार्श्वेऽष्टहस्तके ।
पादौ पञ्चमनृत्तस्य विधिवत् तद् विधीयते ॥ ५७ ॥
त्रिनेत्रं चाष्टहस्तं च सुविकीर्णजटान्वितम् ।
कुञ्चितं वामपादं तदपस्मारोपरि स्थितम् ॥ ५८ ॥
उद्धृतं दक्षिणं पादमङ्गुष्ठाब्जाग्रसीमकम् ।
अभयं शूलपाशौ च डमरुं दक्षिणे करे ॥ ५९ ॥
कपालं चाग्निपात्रं च तथा विस्मयहस्तकम् ।
गजहस्तोपमं हस्तं सव्यासव्यानुगं तु वा ॥ ६० ॥
वामे गौरीसमायुक्तं सप्तमं नृत्तमेव हि ।
तदेव षड्भुजोपेतमभयं डमरुं तथा ॥ ६१ ॥
शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ।
गजहस्तोपमं वामे पार्श्वे स्याद् यत् तदष्टमम् ॥ ६२ ॥
पञ्चमस्य च षष्ठस्य नृत्तस्याक्षिद्वयं विदुः ।
तच्छेषाणां तु नृत्तानां नेत्रत्रयमुदाहृतम् ॥ ६३ ॥
चतुर्भुजं त्रिनेत्रं च जटामण्डलसंयुतम् ।
अभयं डमरुं सव्ये दक्षेऽग्निं गजहस्तवत् ॥ ६४ ॥
अपस्मारं विना पीठे वामाङ्घ्रिं कुञ्चितं स्थितम् ।
ततः पुरःस्थिता पीठे सव्यपादकनिष्ठिका ॥ ६५ ॥
तत्पादं कुञ्चितं युक्त्या नवमं नृत्तमाचरेत् ।
गङ्गाधरमहं वक्ष्ये सर्वलोकसुखावहम् ॥ ६६ ॥
१०८ शिल्परत्ने [उत्तरभागः
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
विश्लिष्यं स्याज्जटाबन्धं वामे त्वीषन्नताननम् ॥ ६७ ॥
दक्षिणे पूर्वहस्ते तु वरदं दक्षिणेन तु ।
देवीमुखाश्रितेनैव देवीमालिङ्ग्य कारयेत् ॥ ६८ ॥
दक्षिणापरहस्तेन उद्धृत्योष्णीषसीमकम् ।
स्पृशेज्जटागतां गङ्गां वामेन मृगमुद्धरेत् ॥ ६९ ॥
देवस्य वामपार्श्वे तु देवी विरहितानना ।
सुस्थितं वामपादं तु कुञ्चितं दक्षिणं भवेत् ॥ ७० ॥
प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृक् ।
सर्वाभरणसंयुक्तौ सर्वालङ्कारसंयुतौ ॥ ७१ ॥
भगीरथं दक्षिणे तु पार्श्वे मुनिवरान्वितम् ।
अथाष्टधा प्रवक्ष्यामि त्रिपुरान्तकमूर्तिनम् ॥ ७२ ॥
दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् ।
दक्षिणे पूर्वहस्तं तु नाभिसूत्रावसानके ॥ ७३ ॥
सिंहकर्णं तु तद्धस्तं बाणमध्यनिपीडितम् ।
वामहस्ते धनुर्धृत्वा कक्षान्तोर्ध्वं समुद्धृते ॥ ७४ ॥
कर्तरी परहस्तौ द्वौ टङ्ककृष्णमृगान्वितौ ।
टङ्कं तु दक्षिणे वामे कृष्णसारङ्गमेव हि ॥ ७५ ॥
जटामकुटसंयुक्तं सर्वाभरणभूषितम् ।
प्रवालसदृशप्रख्यं वामे गौरीसमायुतम् ॥ ७६ ॥
इदं प्रथममाख्यातं द्वितीयं तु ततः परम् ।
तदेव वामपादं तदपस्मारोपरि स्थितम् ॥ ७७ ॥
° 'प्रसार्येत' इति क. ख. पाठः
शैवे त्रिपुरान्तकः ।] द्वाविंशोऽध्यायः । १०९
शेषं प्रथमतुल्यं हि तृतीयमथ वक्ष्यते ।
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ७८ ॥
शेषं प्रागिव कर्तव्यं चतुर्थं तु ततः परम् ।
तदेव वामपादं तदपस्मारोपरि स्थितम् ॥ ७९ ॥
तदेव पूर्वहस्तौ द्वौ कटको हृद्दि सीसगौ ।
वामं दक्षिणकं हस्तं क्रमादूर्ध्वमधोमुखम् ॥ ८० ॥
बाणमूलधृतं सव्यमन्यं बाणाननोद्धृतम् ।
परे दक्षिणके टङ्कं धनुषं वामहस्तके ॥ ८१ ॥
तद्धस्ते तु मृगं वाथ वामे गौरीसमायुतम् ।
अपस्मारं विना कार्यं पञ्चमं समुदाहृतम् ॥ ८२ ॥
षष्ठमिष्टं चैं बाणं च पाशं खड्गं च दक्षिणे ।
धनुषं विस्मयं खेटं कुक्कुटं वामहस्तके ॥ ८३ ॥
यथाशोभं तथा कुर्याद् वामे गौरीसमायुतम् ।
सप्तमे दक्षिणे बाणं चक्रं शूलं ततः परम् ॥ ८४ ॥
टङ्कं वज्रं तथा वामे धनुषं सूचिविस्मये ।
-
-
-
-
- खेटानि सर्वं पूर्ववदाचरेत् ॥ ८५ ॥
एवमेवाष्टमं कुर्याद् वसुधोपरि विन्यसेत् ।
दक्षिणाङ्घ्रेस्तथा जानु वामपादतलं पुनः ॥ ८६ ॥
पुरःस्थितरथस्योर्ध्वे विन्यसेत्तु यथोचितम् ।
रथं तु मुकुलोपेतं मुकुलं कञ्जनावृतम्(?) ॥ ८७ ॥
मुकुलाभ्यन्तरे ब्रह्मा चतुर्वक्त्रश्चतुर्भुजः ।
तस्य दक्षिणहस्तौ द्वौ वेणुदण्डं कमण्डलुम् ॥ ८८ ॥
- खेटानि सर्वं पूर्ववदाचरेत् ॥ ८५ ॥
-
-
-
११० शिल्परत्ने [उत्तरभागः
कुण्डिकां पद्मपाशं च वामहस्तद्वयोद्धृतम् ।
रथस्य मुकुलाधस्ताद् वृषभं श्वेतवर्णकम् ॥ ८९ ॥
अथ कल्याणमूर्तेस्तु लक्षणं सर्वमङ्गलम् ।
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ९० ॥
दक्षिणः पूर्वहस्तस्तु गौरीदक्षिणहस्तधृक् ।
वरदं वामहस्तं तु परहस्तद्वये तथा ॥ ९१ ॥
दक्षिणे परशुं वामे तथा कृष्णमृगं परम् ।
जटामकुटसंयुक्तं सर्वाभरणसंयुतम् ॥ ९२ ॥
देहं प्रवालवर्णाभं देवेशस्य विशेषतः ।
तत्र श्यामनिभा देवी प्राग्वन्मानादिसंयुता ॥ ९३ ॥
उत्पलं वामहस्ते तु धृत्वा दक्षिणहस्तकम् ।
शम्भोर्हस्तेन संग्राह्यं लज्जाभरसमन्वितम् ॥ ९४ ॥
पार्वतीमनुगा श्रीर्भूः सर्वाभरणभूषिता ।
हस्ताभ्यां संस्पृशेद्देवं गौरीमपि करद्वये ॥ ९५ ॥
देवाग्रे कारयेत् कुण्डे तत्र होमं प्रजापतिः ।
शम्भोर्वै स्तनसीमन्तं प्रजेशस्योदयं तथा ॥ ९६ ॥
चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् ।
प्रागग्रौ देविदेवेशौ देवी देवस्य दक्षिणे ॥ ९७ ॥
दक्षिणाभिमुखो विष्णुर्होमस्योत्तरदिक्स्थितः ।
शम्भोर्वै नाभिसीमन्तं श्रेष्ठं स्तनतलोन्नतम् ॥ ९८ ॥
कन्यसं तु तयोर्मध्ये पूर्ववन्नवधा स्मृतम् ।
श्यामवर्णसमायुक्तं शङ्खचक्रौ परे करे ॥ ९९ ॥
१. 'णसंयुत घ. पाठः.