सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 127, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 127

१०८ शिल्परत्ने [उत्तरभागः
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
विश्लिष्यं स्याज्जटाबन्धं वामे त्वीषन्नताननम् ॥ ६७ ॥
दक्षिणे पूर्वहस्ते तु वरदं दक्षिणेन तु ।
देवीमुखाश्रितेनैव देवीमालिङ्ग्य कारयेत् ॥ ६८ ॥
दक्षिणापरहस्तेन उद्धृत्योष्णीषसीमकम् ।
स्पृशेज्जटागतां गङ्गां वामेन मृगमुद्धरेत् ॥ ६९ ॥
देवस्य वामपार्श्वे तु देवी विरहितानना ।
सुस्थितं वामपादं तु कुञ्चितं दक्षिणं भवेत् ॥ ७० ॥
प्रसार्य दक्षिणं हस्तं वामहस्तं तु पुष्पधृक् ।
सर्वाभरणसंयुक्तौ सर्वालङ्कारसंयुतौ ॥ ७१ ॥
भगीरथं दक्षिणे तु पार्श्वे मुनिवरान्वितम् ।
अथाष्टधा प्रवक्ष्यामि त्रिपुरान्तकमूर्तिनम् ॥ ७२ ॥
दक्षिणं सुस्थितं पादं वामपादं तु कुञ्चितम् ।
दक्षिणे पूर्वहस्तं तु नाभिसूत्रावसानके ॥ ७३ ॥
सिंहकर्णं तु तद्धस्तं बाणमध्यनिपीडितम् ।
वामहस्ते धनुर्धृत्वा कक्षान्तोर्ध्वं समुद्धृते ॥ ७४ ॥
कर्तरी परहस्तौ द्वौ टङ्ककृष्णमृगान्वितौ ।
टङ्कं तु दक्षिणे वामे कृष्णसारङ्गमेव हि ॥ ७५ ॥
जटामकुटसंयुक्तं सर्वाभरणभूषितम् ।
प्रवालसदृशप्रख्यं वामे गौरीसमायुतम् ॥ ७६ ॥
इदं प्रथममाख्यातं द्वितीयं तु ततः परम् ।
तदेव वामपादं तदपस्मारोपरि स्थितम् ॥ ७७ ॥
° 'प्रसार्येत' इति क. ख. पाठः