शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 124, कुल 280 में से
संदर्भ में पढ़ेंशैवे नृत्तम् । ] द्वाविंशोऽध्यायः । १०५
हिक्कासमं समुन्नम्य दक्षहस्ताङ्गुलाग्रकम् ।
तद्धस्ततलमध्ये वा मध्यमाङ्गुलिकाग्रके ॥ ३४ ॥
तन्मध्यपर्वगं वाथ वह्निपात्रगतं तु वा ।
पात्रं विनाथवा कुर्यादपरे डमरुं तथा ॥ ३५ ॥
दक्षिणे त्वन्यहस्ते स्यादभयं पूर्वमुक्तवत् ।
अभये कोष्ठमध्ये तु भुजङ्गवलयं न्यसेत् ॥ ३६ ॥
डोलायमानं तद् वामहस्तं कुर्याद् यथोचितम् ।
स्थिताङ्घ्रिजानोर्वामाङ्घ्रिजानुनीप्रं कलाङ्गुलम् ॥ ३७ ॥
सुविकीर्य जटाभारं नानानागविचित्रितम् ।
करोतिकाभिर्धत्तूरकुसुमैश्च भुजङ्गमैः ॥ ३८ ॥
भूषितं मकुटं कुर्याद् दक्षिणेऽर्धेन्दुशेखरम् ।
सिन्दूरालंकृतोत्तंसमक्षमालावलम्बितम् ॥ ३९ ॥
भस्मोद्धूलितदिव्याङ्गं किञ्चित् प्रहसिताननम् ।
यज्ञोपवीतादियुतं व्याघ्रचर्माम्बरान्वितम् ॥ ४० ॥
दक्षिणं कुञ्चितं पादमपस्मारोपरि स्थितम् ।
चतुस्तालेन कर्तव्यमपस्मारं प्रमाणतः ॥ ४१ ॥
शम्भोः सव्यगतं तस्य शिरः कुर्यादधोमुखम् ।
पादौ विकीर्णहस्ताभ्यां व्यालीलीलामुदान्वितम् ॥ ४२ ॥
व्यालं वै वामहस्ते वा दक्षिणं मुद्रयान्वितम् ।
सस्यश्यामनिभं कुर्यादपस्मारं विशेषतः ॥ ४३ ॥
पद्मपीठमधः कुर्यात् कलाङ्गुलसमुच्छ्रयम् ।
तच्चतुर्गुणविस्तारं प्रभामण्डलसंयुतम् ॥ ४४ ॥