शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)
Shilparatnam of Shrikumara with Commentary
श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा
पृष्ठ 123, कुल 280 में से
संदर्भ में पढ़ेंदेवीदक्षिणहस्तेन शम्भोर्दक्षिणपार्श्वतः ।
कटिसूत्रोपरि तथा वामे पुष्पधृता करे ॥ २४ ॥
अथवा प्राग्वद्देवेशो देवी रक्तोत्पलान्विता ।
करे तु दक्षिणे वामहस्तमत्र प्रलम्बयेत् ॥ २५ ॥
एवमालिङ्गनमूर्तिं तु त्रिधा मार्गेण कल्पयेत् ।
एवं पञ्चविधं प्रोक्तं चन्द्रशेखरमूर्तिनम् ॥ २६ ॥
अथ वृषारूढमूर्तिः ।
दक्षिणं सुस्थितं वामपादं तु कुञ्चितम् ।
वृषस्य मस्तकोर्ध्वे तु न्यसेद् वै वामकोर्परम् ॥ २७ ॥
तस्य दक्षिणहस्तं तु वक्रदण्डमुदाहृतम् ।
कनिष्ठाङ्गुलिपरिणाहमग्रे वक्रत्रयान्वितम् ॥ २८ ॥
लोहजं दारुजं वापि वक्रदण्डं प्रकीर्तितम् ।
परहस्तद्वयोश्चैव टङ्कं कृष्णमृगं न्यसेत् ॥ २९ ॥
जटामकुटयुक्तं वा जटाभारं तु लम्बितम् ।
जटाबन्धशिरो वापि कर्तुरिच्छानुसारतः ॥ ३० ॥
सर्वाभरणसंयुक्तं रक्ताभं रक्तवाससम् ।
वामपार्श्वे तु वा देवी दक्षिणे वा विशेषतः ॥ ३१ ॥
सुस्थितं दक्षिणं पादं वामपादं तु कुञ्चितम् ।
उत्पलं दक्षिणे हस्ते वामहस्तं प्रलम्बितम् ॥ ३२ ॥
अथ नृत्तम् ।
नृत्तमष्टशतविधं तत्रादौ नव कथ्यते ।
भानुरुद्रदशांशं वा तुङ्गं नृत्तनतं भवेत् ॥ ३३ ॥