सामग्री पर जाएँ
सर्वकोश
शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

शिल्परत्नम् (श्रीकुमार - प्राचीन भारतीय चित्रकला, धातुकर्म, यन्त्र एवं स्थापत्य सटीक)

Shilparatnam of Shrikumara with Commentary

श्रीकुमार (सम्पादक: टी. गणपति शास्त्री) द्वारा

DevanagariSanskritpublished280 पृष्ठ

पृष्ठ 129, कुल 280 में से

संदर्भ में पढ़ें
पृष्ठ 129

११० शिल्परत्ने [उत्तरभागः
कुण्डिकां पद्मपाशं च वामहस्तद्वयोद्धृतम् ।
रथस्य मुकुलाधस्ताद् वृषभं श्वेतवर्णकम् ॥ ८९ ॥
अथ कल्याणमूर्तेस्तु लक्षणं सर्वमङ्गलम् ।
सुस्थितं वामपादं तु दक्षिणं कुञ्चितं भवेत् ॥ ९० ॥
दक्षिणः पूर्वहस्तस्तु गौरीदक्षिणहस्तधृक् ।
वरदं वामहस्तं तु परहस्तद्वये तथा ॥ ९१ ॥
दक्षिणे परशुं वामे तथा कृष्णमृगं परम् ।
जटामकुटसंयुक्तं सर्वाभरणसंयुतम् ॥ ९२ ॥
देहं प्रवालवर्णाभं देवेशस्य विशेषतः ।
तत्र श्यामनिभा देवी प्राग्वन्मानादिसंयुता ॥ ९३ ॥
उत्पलं वामहस्ते तु धृत्वा दक्षिणहस्तकम् ।
शम्भोर्हस्तेन संग्राह्यं लज्जाभरसमन्वितम् ॥ ९४ ॥
पार्वतीमनुगा श्रीर्भूः सर्वाभरणभूषिता ।
हस्ताभ्यां संस्पृशेद्देवं गौरीमपि करद्वये ॥ ९५ ॥
देवाग्रे कारयेत् कुण्डे तत्र होमं प्रजापतिः ।
शम्भोर्वै स्तनसीमन्तं प्रजेशस्योदयं तथा ॥ ९६ ॥
चतुर्भुजं चतुर्वक्त्रं सर्वाभरणभूषितम् ।
प्रागग्रौ देविदेवेशौ देवी देवस्य दक्षिणे ॥ ९७ ॥
दक्षिणाभिमुखो विष्णुर्होमस्योत्तरदिक्स्थितः ।
शम्भोर्वै नाभिसीमन्तं श्रेष्ठं स्तनतलोन्नतम् ॥ ९८ ॥
कन्यसं तु तयोर्मध्ये पूर्ववन्नवधा स्मृतम् ।
श्यामवर्णसमायुक्तं शङ्खचक्रौ परे करे ॥ ९९ ॥
१. 'णसंयुत घ. पाठः.