षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पञ्चविंशब्राह्मणम्
अपररात्रे प्रातरनुवाकात् पूर्वमित्यर्थः । सदस्येवोदङ्मुख आसीन उपविष्टो
विश्वरूपा गायति । अगासीत् । सदसीत्येतत् समीपस्थं हविर्धानमण्डपं
लक्षयति । स पूर्वया द्वारा हविर्धाने प्रपद्यत (ष. वि. ब्रा. १. ४. ३)
इति पूर्वत्र विधानात् । सदसि हविर्धानयोरभावात् ॥ ६ ॥
विश्वरूपगाने ज्योतिर्गानं दर्शयितुं कंचिदुपवादं दर्शयति—
तदुपवादोऽस्त्यध्वर्यो किं स्तुतं स्तोत्रं होता प्रातरनु-
वाकेनान्वशंसीदिति स ब्रूयादकार्षमहं तद्यन्मम कर्म होतारं
पृच्छतेति । होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीरिति
स ब्रूयादकार्षमहं तद्यन्मम कर्म उद्गातारं पृच्छतेति ।
उद्गातः किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीदिति स
ब्रूयादकार्षमहं तद्यन्मम कर्मागासिषं यद्ध्येयमिति ॥ ७ ॥
तत्रोपवादोऽन्योन्यस्य संवादः कश्चित् अस्ति । तस्यैव प्रदर्शनम् —
हे अध्वर्यो ! स्तुतं स्तोत्रमनु होता प्रातरनुवाकेन शस्त्रेण किमन्वशंसीत् इति
शंसनमकार्षीदिति । एवमुपवक्तृभिः पृष्टः सोऽध्वर्युः ब्रूयात् यन्मम कर्म
तदहमकार्षं तद् होतारं पृच्छतेति । तेन प्रयुक्ता उपवक्तारो हे होतः किं स्तुतं
स्तोत्रमनु प्रातरनुवाकेन शस्त्रेण त्वमशंसीरिति अपृच्छन् । ततः सः होता
ब्रूयात् यन्मम कर्म तदहमकार्षम् । तदुद्गातारं पृच्छतेति । तेन प्रयुक्ताः
- RJA प्राक् for पूर्वम् .
- MIJK किंचिद् for कंचिद्; R. ०वादनं for ०वादं.
- R Bh JA. अन्योन्यसंवादः for अन्योन्यस्य संवादः.
- Bh. त्वयोक्तं for स्तुतं.
- RJ add ततः before तेन; RJ add वदेयुः after ०वक्तारो०.
- Bh. A add होता before प्रात० ; MKSI om. शस्त्रेण; Bh T तं,
RK किम् for त्वम्; R. किमकार्षीरिति, T किंत्वसाविति, I. किमन्वशंसारिति for
त्वमशंसीरिति; RJA om. अपृच्छन्; IS अपृच्छत for अपृच्छन्; RJ पृष्टः,
A तैरूदित् for ततः; Bh om. किमशंसीरिति...किमशंसीदिति (P. 35. L. 2)• - A om. ब्रूयात्...तैरूदितः स (P. 35. L. 2); R. एवं होत्रा,
for तेन.
सन्तः उद्गातारं पृष्टवन्तः हे उद्गातः स्तुतं स्तोत्रमनु होता प्रातरनुवाकेन
शस्त्रेण किमशंसीदिति । तैरूदितः स उद्गाता ब्रूयात् यन्मम कर्म तदहम-
कार्षम् । तस्यैव प्रदर्शनम् — यद्ध्येयं तदगासिषमिति ॥ ७ ॥
ततः किमित्यत्राह—
तं चेद् ब्रूयुस्तमो वै त्वमगासीर्न ज्योतिरिति ॥ ८ ॥
तम् उद्गातारं चेत् उपवक्तारः एवं ब्रूयुः—हे उद्गातः! त्वं तमो वै
तम एव ज्योतिरहितमेव सामगासीः ज्योतिर्नागासीरिति ॥ ८ ॥
तत्रोद्गात्रा यद्वक्तव्यं तदाह—
स ब्रूयाज्ज्योतिस्तेन येन ज्योतिः ज्योतिस्तेन येन-
र्ग् ज्योतिस्तेन येन गायत्री ज्योतिस्तेन येन च्छन्दो ज्योतिस्तेन
येन साम ज्योतिस्तेन येन देवता ज्योतिरेवाहमगासिषं
न तमो युष्माँस्तु पाप्मना तमसा विध्यानीत्याह
पाप्मनैवैनाँस्तत्तमसा विध्यति ॥ ९ ॥
सः एवं तैः पर्यनुयुक्तः उद्गाता, एवं ब्रूयात् । तेन प्रसिद्धेन येन
ज्योतिषा । ज्योतिः सूर्यात्मकं तेज। ज्योतिः प्रकाशकमभूत् । तेन येन ऋग्
ज्योतिः ऋगपि ज्योतिः अभिव्यक्ताक्षरा भवति । यद्वा, ऋक्शब्देन तदधिष्ठाना-
ग्रिर्लक्ष्यते । किं च, तेन येन गायत्री ज्योतिः । अपि च तेन येन छन्दः
छन्दोमात्रं ज्योतिः । तथा तेन येन सामापि ज्योतिः । तेजो वै सामरूपम्
(तै. सं. ३. २. ९. ३) इति श्रुतेः । यद्वा साम्नामधिष्ठाता सूर्यो लक्ष्यते ।
- R. ते for सन्तः.
- RKIS उक्तः for उदितः.
- Bh T. om. एव.
- S. तत्र तत् for ततः.
- Bh A add तेन प्रसिद्धेन after ब्रूयुः.
- RTSIK om. ऋग् ; M. येन वार्कज्यो० for येनर्ग्ज्यो०.
- Bh MTJA. om. first ज्योतिः ; K रगपि, M. वागपि for ऋगपि ; R तत् ऋक् ०, SI तच् ० for ऋक् .
- JA किंच for अपि च.
- K सामाधिष्ठाता, M. साम्नोऽधिष्ठाता, J साम्नां तद्विशिष्टतया, A साम्नां तदविद्यतया for साम्नामधिष्ठाता ...
किं बहुना । तेन येन गायत्री ज्योतिः । तेन येन सर्वाणि देवता ज्योतिः ।
ज्योतिराख्यं सामैवाहमगासिषं न तम इति । किंच, युष्मांस्तु प्रतिवक्तॄन्
युष्मानेव पाप्मना पापरूपेण तमसा विध्यानि बाधे । युष्मानेव अज्ञान्
करोमीत्याह ब्रूयात् । तत्रैवं सति एनान् प्रतिवक्तॄन् पाप्मनैव तमसा
विध्यतीति । एवमतिप्रशस्तत्वात् विश्वरूपगानपक्षे ज्योतींषि गायेदित्यर्थः ।
यत् स्तूयते तद् विधीयते इति न्यायेन स्तुत्या विधिकल्पनस्य युक्तत्वात् ।
अत एव द्राह्मायणो विश्वरूपगानपक्षे ज्योतिर्गानं कालं प्रकारं च दर्शया-
मास । विश्वरूपाश्चेद्गायेज्ज्योतींष्यपि गायेत् । परिहिते प्रातरनु-
वाकेऽपोनप्त्रीयं नाम सूक्तं पुरा तस्मात्तद्धोतारमारमयित्वाग्रयणस्य
वानुहिंकारं पवित्रं धारयन्नास्तावे वा प्राप्य पुरा स्तोमयोगादग्निर्ज्योतिर्ज्योति-
रग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः सूर्यो ज्योतिर्ज्योतिः सूर्य (सा. १८४१)
इत्येतेषु पादेषु त्रिस्त्रिरेककमभ्यासं मनसा गायत्रं गायेत् (२.४.१८-२२;
ला. १. ८. १३-१४) इति । अस्यार्थः । यदि विश्वरूपा गायेत् तर्हि होत्रा
प्रातरनुवाके शस्त्रे समापिते सति तेनैवानुवक्तव्यमपोनप्त्रीयं नाम किंचित्
सूक्तमस्ति । तदनुवचनात् पूर्वं होतारमारमेत्युक्त्वा उद्गाता ज्योतींषि गायेत् ।
- M. before सर्वाणि adds: किं बहुना गायत्री ज्योतिस्तेन येन
बहुनोक्तेन येन तेन ; Bh AI after ज्योतिः adds: अभवत् । तज्ज्योतिः
and A after तज्ज्योतिः and before सामैव adds: ज्योतिराख्यं साम । - M. ज्योतिर्ज्योतिरवश्यं for ज्योतिराख्यं; JA ॰वक्तृषु for
॰वक्तॄन्. - M. (अ)ज्ञानात् for (अ)ज्ञान्.
- TM. add अत्र after इति ; RA एतान् for एनान्.
- R विध्यानीति for विध्यतीति ; RKSI अतिप्रशस्तानि, Bh JA
अपिपुरा for अतिप्रशस्तत्वात्; R अतिप्रशस्तानि कृत्वा for अतिप्रशस्तत्वात्. - T. परीक्षते for परिहिते; Bh adds अपि after हिते.
- Bh साम for नाम ; RT Bh MJSA om. तद्.
- Bh A add इति after गायेत् ; J. after गायेत् adds: तदा
ज्योतिर्गानमपि कर्तव्यं इत्यर्थ इति विश्वरूपा गायेदिति. - RA ॰वाकाख्ये for ॰वाके ; J. om. प्रातरनुवाके ; Bh JA
वक्तव्यम् for अनुवक्तव्यम् . - R. SI. आरमय्य for आरमेत्युक्त्वा; Bh. संनतानि, JA संततानि for
यद्वा । आग्रयणं गृह्णतोऽध्वर्योः हिंकारवेलायां दशापवित्रं धारयन् तानि
गायेत् । अथवा आस्तावं बहिष्पवमानस्तुतिदेशं प्राप्य स्तोमयोगात् पूर्व-
मग्निर्ज्योतिर्ज्योतिरग्निरित्येवं प्रथमः पादः । इन्द्रो ज्योतिर्ज्योतिरिन्द्र इति
द्वितीयः । सूर्यो ज्योतिर्ज्योतिः सूर्य इति तृतीयः । एवमेतांस्त्रीन् पादान्
प्रत्येकं त्रिरभ्यस्य, प्रथमे पादे त्रिरभ्यस्ते मनसा गायत्रम् [अ] निरुक्तं गायेत् ।
एवमुत्तरयोरपि ॥ ९ ॥
विश्वरूपगानस्य ऋचः प्रथमं पादमनूद्य व्याचष्टे—
युञ्जे वाचं शतपदीम् (सा. १८२९) इत्याह ।
वाग्वाव शतपद्यृक् शतपदी शतसनिमेव तदात्मानं च
यजमानं च करोति ॥ १० ॥
शतपदीं वाचं युञ्जे साम्ना युनज्मीति यदाह वाग्वाव वाचा वै
शतपदी बहुपादयुक्ता ऋगपि शतपदी गायत्र्यादिभेदेन बहुपादोपेता । तदा
तया शतपथा आत्मानं यजमानं च, शतसनिं, सनिः दानं बहुदानमेवोद्गाता
करोतीति ॥ १० ॥
द्वितीयपादमनूद्य व्याचष्टे—
गाये सहस्रवर्तनीति साम वै सहस्रवर्तनि सहस्र-
सनिमेव तदात्मानं च यजमानं च करोति ॥ ११ ॥
- JA अथवा for यद्वा.
- K. आस्तवं for आस्तावं; M. adds प्राप्य after आस्तावं; Bh.
०मानं स्तुतिं for ०मानस्तुति० - KT एकः for. एवं प्रथमः
- T. is blank from सूर्यो upto पादान् and then adds:
[प]ञ्चविंशब्राह्मणे इडान्ताः पवमाना भवन्तीति ज— - T. गायत्री, SK. गायत्रीं for गायत्रं; अनिरुक्तं See CN.
- TK. इति for अपि.
- R. ०गानाश्रय, JA ०गानाश्रयस्य for गानस्य; T. विश्व[—]
र्थमेतत् तनुं यदि गायत्रः प्रथमस्त्रिरात्रः तर्हि प्र[—]पदीमित्याह for विश्वरूपा...
शतपदीम् (सा. १८२९) इत्याह. - Sh M ०वर्तनी for ०वर्तनि.
३८ षड्विंशब्राह्मणम्
सहस्रवर्तनि स्तोभादिभेदेन बहुवर्तनि साम गायेदिति । साम वै
सहस्रवर्तनि, तत् तदा तेन साम्ना आत्मानं च यजमानं च सहस्रसनिमेव
उद्गाता करोतीति ॥ ११ ॥
तृतीयपादमनूद्य व्याचष्टे—
गायत्रं त्रैष्टुभं जगदिति गायत्रं वै प्रातःसवनं
त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनं सवनान्येव
तद्यथास्थानं यथारूपं कल्पयति ॥ १२ ॥
किंच गायत्रं त्रैष्टुभं जगद् (सा. १८२९ᶜ&१८३०ᵃ) इति यदाह
गायत्रमेव प्रातःसवनम् । तच्चुरस्त्वात् । त्रैष्टुभं त्रिष्टुप्छन्दस्कं माध्यंदिनं
सवनम् । त्रिष्टुब्बहुलत्वात् । जागतं तृतीयसवनम् । तच्छन्दोयुक्तत्वात् । तत् तेन
त्रीण्यपि सवनानि यथास्थानं स्वस्वस्थानमनतिक्रम्य यथारूपं गायत्र्याद्यु-
पेतत्वादिरूपमनतिक्रम्य कल्पयति उद्गाता समर्थयति ॥ १२ ॥
चतुर्थं पादमनूद्य व्याचष्टे —
विश्वा रूपाणि संभृता (सा. १८३०ᵇ) इति विश्वमेव
तद्वित्तमात्मने च यजमानाय च संभरति ॥ १३ ॥
विश्वा सर्वाणि रूपाणि धनानि संभृता तैः सवनैः संभृतानि संपा-
दितानि तेष्वेव समस्तकार्यकरणात् इति यदाह तत् तेन विश्वं सर्वम् एव
- Bh IS ॰वर्तिनि, K ॰वर्तिन: for ॰वर्तनि.
- Bh. ॰वर्तिनिनिति, IS ॰वर्तिनी, K. ॰वर्तिनि for ॰वर्तनि.
- Bn. om. गायत्रं...व्याचष्टे (L. 13).
8 JA. om. किं च गायत्रं...समर्थयति (L. 12) - M. after ॰चुरस्त्वात् adds प्रातःसवनस्य । तथा.
- RIS om. त्रिष्टुब ॰ ; M. after ॰बहुलत्वात् adds माध्यंदिनस्य । तथा; M. after ॰युक्तत्वात् adds तृतीयसवनस्य ।
- R. समर्द्वयति for समर्थयति; M. after समर्थयति adds इत्यर्थः.
- Bh. om. विश्वा; KMIS. om. रूपाणि; J निधनानि for धनानि; M. om. संभृता तैः सवनै; IA संभृतानि सवनानि for संभृता; JA संभृतैः for तैः;
- M. adds सवनेषु after तेषु ; Bh A add अपि and J एव after विश्वम् ; J. अपि for एव.
[Header]
प्रथमोऽध्यायः (४) ३९
वित्तम् आत्मने च यजमानाय च संभरति उद्गाता संपादयति ॥ १३ ॥
पञ्चमं पादमनुवदति—
देवा ओकांसि चक्रिरे इति ॥ १४ ॥
देवा इन्द्रादयश्च एतानि सत्राणि ओकांसि स्थानानि चक्रिरे
कृतवन्तः ॥ १४ ॥
इति वेदितारं प्रशंसति—
ओको हास्मिन् यज्ञः कुरुते य एवं वेद ॥ १५ ॥
यः पुमान् एवम् उक्तप्रकारेण विश्वरूपागानं वेद अस्मिन् यज्ञो
ज्योतिष्टोमादिः ओकः स्थानमेव कुरुते । तत्रैव प्रतितिष्ठतीत्यर्थः ॥ १५ ॥
पुनराख्यायिकया विश्वरूपागानं स्तौति—
असितमृगा ह स्म वै पुरा कश्यपा उद्गायन्त्यथ ह
युवानमनूचानं कुसुरुबिन्दमौद्दालकिं ब्राह्मणा उद्गीथाय
वव्रे । ते होचुः परि वै नोऽयमार्त्विज्यमादत्ते हन्तेममनु-
व्याहरामेति तं हानुव्याहरिष्यन्त उपनिषेदुः । स होवाच
ब्राह्मणा नमो वो अस्तु प्राह्णे वा अहं यज्ञं समस्थापयं
यथा तु वै ग्रामस्य यातस्य शीर्णं वा भग्नं वा अनु
समावहेदेवं वा अहं यज्ञस्यातोऽधिकरिष्यामीति । ते ह
हिंकृत्योत्तस्थुः क इदमस्मा अवोचदिति ॥ १६ ॥
पुरा पूर्वं कश्यपाः तद्गोत्रोत्पन्ना ऋषयः असितमृगाः सन्तः विश्वरूपाः
उद्गायन्ति स्म खलु । अथ पुनस्तत्र युवानमनूचानं साङ्गवेदाध्यायिनम्
- M. adds धनम् after वित्तं; Bh IA om. च after आत्मने;
M. adds स्वस्मै स्वात्मने after आत्मने च. - Bh JA om. स्थानानि.
- R Bh IS. यज्ञे for यज्ञो.
- Bh ०बिन्दुं for बिन्दं; TIA ब्राह्मण० for ब्राह्म०.
- Bh. om. ब्राह्मणा; Bh TSK. संस्था० for समस्था०.
- J. असितमृग० for सन्तः विश्व०.
- J. साम० for साङ्ग०. •
४० षड्विंशब्राह्मणम्
औद्दालकिम् उद्दालकस्यापत्यं कुसुरुबिन्दनामानमृषिं ब्राह्मणाः केचि-
दुद्गीथाय उद्गीथभक्तिगानाय वव्रे वव्रिरे वृतवन्तः । ततः ते ब्राह्मणा ऊचुः
परस्परमेवमवोचन् किल । अयं कुसुरुबिन्दः नः अस्माकम् आर्त्विज्यम्
ऋत्विक्कर्म पर्यादत्त एव । हन्तेति प्रश्ने । इमं कुसुरुबिन्दम् अनुव्याहराम
यत्किंचित् पृच्छाम इति । ते पुनः अनुव्याहरिष्यन्तः सन्तः
तमुपनिषेदुः समीपं प्राप्ताः । स पुनस्तेषामभिप्रायं ज्ञात्वा एवमुवाच—हे
ब्राह्मणाः ! वः युष्मभ्यं नमः नमस्कारः अस्तु । प्राह्णे वै प्रातरेव अहं यज्ञं
समस्थापयं परिसमापयामि । यथा तु वै यथा तु खलु यातस्य गतस्य
ग्रामस्य शीर्णं कीटाद्युपहतं वाहनं वा गृहादिकं वा भग्नम् अनुसमादधेत्
(०वहेत् ?) । कश्चित् समर्थः समादधीत एवं वै एवमेव अहं यज्ञस्य
अतोः वैकल्यपरिहाराय । अनेन यजमानेन अधिकरिष्यामि नियुक्तोऽस्मीति ।
तेनोक्तास्ते ब्राह्मणाः अस्मै कुसुरुबिन्दाय इदम् अस्मन्मनसि स्थितम्
अभिप्रायजातं कः खलु अवोचदिति ब्रुवाणाः हिंकृत्य हिंकारं कृत्वा
उत्तस्थुरिति । इतिशब्दो वाक्यसमाप्तिद्योतनार्थः ॥ १६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये चतुर्थः खण्डः ॥
- Bh TSK. कुसुविन्द० for कुसुरुबिन्द०; JA ब्राह्मणः कश्चिद् for ब्राह्मणाः केचित् ।
- JA अग्रणीरित्यर्थः for आर्त्विज्यं.
- ISK add ऋत्विजं before ऋत्विक्कर्म; Bh. ०बिन्दुं for बिन्दं.
- Bh T यं, JA वयं for यत्; SI. तेन for ते.
- Bh SI. संस्था० for समस्था०.
- JA om. वाहनं, Bh TI ग्रहा० for गृहा०; Bh TAJ om. वा भग्नं.
- Bh JA किंचित् for कश्चित्; JA ०धत्ते for ०दधीत.
- JA अर्थिना० for अतो०.
- Bh JA तस्मै for अस्मै; TK कुसुविन्दाय for कुसुरुबिन्दाय; JA om. इदम् अस्मन् ० K Bh. अस्मिन् ० for अस्मन् ०.
- KT ०जातकं for ०जातं; JA कश्चित् for खलु.
- Bh A ins परि before समाप्ति०.
पञ्चमः खण्डः
वाङ्मनसस्वरूपविदं वासिष्ठं वा ब्रह्माणं कुर्यादिति विधातुमादौ
तत्प्रशंसार्थमिदमाम्नायते—
इन्द्रो ह वै विश्वामित्रायोक्थमुवाच । वसिष्ठाय ब्रह्म ।
वागुक्थमित्येव विश्वामित्राय । मनो [वाव] ब्रह्म वसिष्ठाय ॥१॥
इन्द्रो ह इन्द्रः किल विश्वामित्रायैवोक्थमुवाच । वसिष्ठाय ब्रह्म
उक्तवान् । कथम् ? वागेवोक्थमिति विश्वामित्राय । मनो वाव ब्रह्मेति
वसिष्ठाय ॥ १ ॥
तद्वा एतद्वासिष्ठं ब्रह्म ॥ २ ॥
तद्वै तस्मादेव । एतद्ब्रह्म वासिष्ठं वसिष्ठस्यैवासाधारणम् । स एव ब्रह्म-
विदामग्रणीरित्यर्थः ॥ २ ॥
एवं वाङ्मनसे वसिष्ठं च प्रशस्य इदानीं तद्विदं वासिष्ठं वा ब्रह्माणं
कुर्वीतेति विधत्ते—
अपि हैवंविदं वा वासिष्ठं वा ब्रह्माणं कुर्वीत ॥ ३ ॥
- SIA ०मनः, T ०मनसः for ०मनस; AJ om. वाङ्मनस...
०माम्नायते. - S. ०योक्थ्यम् T ०योऽर्थम् for ०योक्थम् .
- मनो वाव See CN.
- J. वाङ्मनसस्वरूपविदे खलु for इन्द्रो ह इन्द्रः किल.
- R. वागेव कथम्, J. कथं चोक्तम् । वागित्येवम् उक्थम् for कथं
वागेवोक्थम् ; I मन इति J एवं for मनो वाव. - JA विन्दति for विदाम् and om. अग्रणीरित्यर्थः.
- JA ०मनसयोर्वेदितारं वासिष्ठं for वाङ्मनसे...
- KTJA Bh. ब्राह्मणं for ब्रह्माणं.
४२ षड्विंशब्राह्मणम्
अपि ह अत एव एवंविदं यथोक्तप्रकारेण वाङ्मनसयोर्वेदितारं, वासिष्ठं
वसिष्ठगोत्रोत्पन्नं वा त्रयीविदं ब्रह्माणं कुर्वीत ॥ ३ ॥
सोदाहरणं वाङ्मनसयोर्यज्ञनिर्वाहकत्वं दर्शयति --
तद्यथोभयवर्तनिना रथेन यां यां दिशं प्रार्थयते
तां तामभिप्राप्नोत्येवमेतेनोभयवर्तनिना यज्ञेन यं कामं
कामयते तमभ्यश्नुते ॥ ४ ॥
तत्रैवं सति यथा लोके कश्चित् समर्थ उभयवर्तनिना उभे वर्तन्यौ
चक्रे यस्य तेन रथेन यां यां दिशं गन्तुं प्रार्थयते कामयते तां तां
दिशम् अभिमुखं प्राप्नोति, एवं तथैव उभयवर्तनिना,-उभे वाङ्मनसे वर्तन्यौ
चक्रस्थानीये यस्य तेन-, एतेन यज्ञेन यं कामम् इष्टं पदार्थं कामयते
यजमानः तमभ्यश्नुते अभितः प्राप्नोति । तथा च बह्वृचब्राह्मणे पठ्यते-
अथ केन ब्रह्मत्वं क्रियत इति त्रय्या विद्ययेति ब्रूयात् । अयं वै यज्ञो योऽयं
पवते तस्य वाक् च मनश्च वर्तन्यौ वाचा हि मनसा च यज्ञो वर्तते
(ऐ. ब्रा. ५. ३३. २) इति ॥ ४ ॥
ब्रह्मकर्तव्यं वाग्यमनं विधातुं तत्प्रशंसार्थं तस्य वाग्व्यवहारं
निन्दति-
अथार्धभाग्वै मनः । प्राणानां स यद्व्याहरति वाचि
तन्मनः प्रतिष्ठापयति । तद्यथैकवर्तनिना रथेन न कांचन
दिशं व्यश्नुते तादृगेतत् ॥ ५ ॥
- JA स्वत० for अत०; RI. ०मनसो० for ०मनसयो०.
- TR. Bh यशे for यज्ञ.
- T. एवमेव तेन for एवमेतेन.
- R यद्युभे, Bh JAK यद्यो for यथा.
- Bh JA om. कामयते.
- Bh JA add कामम् after तम्.
- RS. कथं for अथ.
- Bh MTKSA वर्तन्या for वर्तन्यौ; R Bh JA add च after वाचा.
अथैति ब्रह्मकर्तव्यविध्युपक्रमे । प्राणानाम् इन्द्रियाणां मध्ये मनो
यज्ञस्यार्धमार्गवै । तद्वर्त्तन्यात्मकत्वात् । तथा च सति स ब्रह्मा यद्व्याहरति
वाग्विसर्जनं करोति तत् तदा वाचि मनः प्रतिष्ठापयति । वाङ्मनसे
एकीकुर्यादित्यर्थः । मनःपूर्वकत्वाद्वाक्प्रवृत्तेः । तत् तत्रैवं सति यथा लोके
कश्चित् एकवर्तनिना एकचक्रेण रथेन कांचन कामपि दिशं न व्यश्नुते न
प्राप्नोति । एतद् वाचा व्याहरणमपि तादृक् । तेन यज्ञफलं न सिध्येत ।
वैकल्यादित्यर्थः ॥ ५ ॥
एवं प्रशस्य वाग्यमनं विधत्ते—
यावदृचा यजुषा साम्ना कुर्युस्तावद् ब्रह्मा वाचंयमो
बुभूषेत् ॥ ६ ॥
ऋग्यजुःसामभिर्होत्राध्वर्युद्गातारो यावत् स्वस्वकर्म कुर्युः तावत्
तावन्तं कालं ब्रह्मा वाचंयमो वाग्यमनवान् बुभूषेद्भवेत् । अत्र विशेषमाह
द्राह्यायणः—प्रणीतासु प्रणीयमानासु वाचं यच्छेदा तासां विमोचनात् ।
तास्वेव प्रणीयमानास्वाहविष्कृतस्तम्बयजुषश्चाध्यासमिधः प्रस्थानीयाया
इति वा । यत्राध्वर्युर्बह्वृचौ चेष्टेतां यत्र न चेष्टेतां वाग्यतः प्रायस्त्वेव
स्यात् (१२.२.३२-३४; ला.४.११.१-३) इति । अस्यार्थः—प्रणीताप्रण-
यनमारभ्य तद्विमोचनपर्यन्तम् । अथवा । प्रणीताप्रणयनप्रभृति आहविष्कृतः
हविष्कृदेहीति संप्रैषपर्यन्तम् । यद्वा, स्तम्बयजुरारभ्य आसमिधः प्रस्थानीयायाः—
प्रस्थानम् अनुयाजप्रचारः तदर्था समित् प्रस्थानीया तस्या आधानपर्यन्तं वा ।
2. RSI om. तद्; RKTMJ om. स; Bh JA यद्वाचा
व्या० for यद्व्या०.
3. RS add वाक् before मनः.
4. S. om. मनः...वैकल्यादित्यर्थः (L. 7).
5. RJAK. add न after रथेन.
6. R Bh M. व्याप्नोति for प्राप्नोति.
12. MSI om. बुभूषेत् ; RJSIK तत्र for अत्र.
14. R. ०श्चाराध्या for ०श्चाध्या०.
17. T. adds तत् before तद्विमो० ; RJ ०णयनमारभ्य for ०णयनप्रभृति.
अथवा, अध्वर्युहोत्रोः यावत्कर्म तावत् । यद्वा, उभयोः कर्माभावेऽपि ब्रह्मवाचो
न कामचारः । किंतु, तत्रापि ब्रह्मा प्रायेण वाग्यत एव स्यादिति ॥ ६ ॥
ऋग्वेदादिविहितकर्मन्यूनातिरेके प्रायश्चित्तत्वेन ब्रह्मणा कर्तव्यं व्याहृति-
होमं विधातुमादौ वेदत्रयसारत्वेन लोकत्रयसारत्वेन च व्याहृतीः प्रशंसति—
प्रजापतिर्वा इमांस्त्रीन् वेदानसृजत । त एनं सृष्टा
नाधिन्वन् तानभ्यपीडयत् । तेभ्यो भूर्भुवःस्वरित्यक्षरत् ।
भूरित्यृग्भ्योऽक्षरत् । सोऽयं लोकोऽभवत् । भुवरिति
यजुर्भ्योऽक्षरत् । सोऽन्तरिक्षलोकोऽभवत् । स्वरिति
सामभ्योऽक्षरत् । स स्वर्गो लोकोऽभवत् ॥ ७ ॥
प्रजापतिः ब्रह्मा सर्गादौ इमान् प्रसिद्धान् ऋगादीन् त्रीन् वेदान्
असृजत । तेन सृष्टास्ते वेदाः एनं प्रजापतिं नाधिन्वन् नाप्रीणयन् । ततः
प्रजापतिः तेभ्यः सारजिघृक्षया तानभ्यपीडयत् । तेभ्यः पीडितेभ्यः
भूर्भुवःस्वरिति व्याहृतित्रयमक्षरत् निरगच्छत् । तस्य विवरणम्—ऋग्भ्यः
ऋग्वेदात् भूरित्यक्षरत् । सः व्याहृतिरूपः रसः अयं भूलोकोऽभवत् ।
यजुर्भ्यो यजुर्वेदाद् भुव इत्यक्षरत् । सः रसो अन्तरिक्षलोकोऽभवत् ।
सामभ्यः सामवेदात् स्वरित्यक्षरत् । स रसः स्वर्गो लोकोऽभवत् ॥ ७ ॥
प्रथमं व्याहृतिहोमं सस्तुतिकं विधत्ते—
- T अध्वर्युहोत्रेः for उभयोः; Bh. ०वयो, T ०वर्चो for ०वाचो.
- IS. om. ब्रह्मा; R Bh JA om. एव.
- Bh J स्वर्ग० for स्वर्गो०.
- Bh JA om. सर्गादौ; SK स्वर्गादौ for सर्गादौ; RJA ऋग्वेदा०
for ऋगा०. - Bh A add किल after अक्षरत्.
- I सस्तुतिं for सस्तुतिकं.
प्रथमोऽध्यायः (५)
४५
तद्यदृक्त उल्बणं क्रियेत गार्हपत्यं परेत्य भूः स्वाहेति
जुहुयात् । अयं वै लोको गार्हपत्योऽयं लोक ऋग्वेदस्तद्वा
इमं च लोकमृग्वेदं च स्वेन रसेन समर्द्धयति ॥ ८ ॥
तत्र यदृक्तः ऋग्वेदविहितात् कर्मण उल्बणं न्यूनमधिकं वा
होत्रादिभिः क्रियेत तर्हि ब्रह्मा गार्हपत्यम् अग्निं परेत्य भूःस्वाहेति अनया
व्याहृत्या जुहुयात् । अयं वै अयमेव भूलोको गार्हपत्यः । अयम् एव लोकः
ऋग्वेदः । तद्वै तेनैव होमेन इमं च लोकम् ऋग्वेदं च स्वेन स्वकीयेन
रसेन सारेण समर्द्धयति समृद्धं करोति ॥ ८ ॥
द्वितीयव्याहृतिहोमं सप्रशंसं विधत्ते—
अथ यदि यजुष्ट उल्बणं क्रियेतान्वाहार्यपचनं परेत्य
भुवः स्वाहेति जुहुयात् । अन्तरिक्षलोको वा अन्वाहार्य-
पचनोऽन्तरिक्षलोको यजुर्वेदः । तद्वा अन्तरिक्षलोकं च
यजुर्वेदं च स्वेन रसेन समर्द्धयति ॥ ९ ॥
अथेत्यवान्तरवाक्योपक्रमे । यजुष्टो यजुर्वेदविहितात् कर्मणो
यद्युल्बणं न्यूनमधिकं वा अध्वर्वादिभिः क्रियेत तर्हि अन्वाहार्यपचनं
दक्षिणाग्निं परेत्य भुवः स्वाहेति ब्रह्मा जुहुयात् । अन्तरिक्षलोको वै अन्त-
रिक्षलोक एव अन्वाहार्यपचनः । अन्तरिक्षलोक एव यजुर्वेदः । तद्वै तेनैव
होमेन अन्तरिक्षं च यजुर्वेदं च स्वेन रसेन सारेण समर्द्धयति ॥ ९ ॥
तृतीयव्याहृतिहोमं सप्रशंसं विधत्ते—
अथ यदि सामत उल्बणं क्रियेताहवनीयं परेत्य स्वः
स्वाहेति जुहुयात् । स्वर्गो वै लोक आहवनीयः । स्वर्गो
- TI. क्रियते for क्रियेत.
- Bh. adds वै after अयं.
- I. क्रियते for क्रियेत; Bh K तत्र for ब्रह्मा; TISA. om. ब्रह्मा;
KTS add तत्र I. अत्र after परेत्य. - Bh TISAK add च after लोकं.
- R. om. सारेण; Bh समृद्धि०, T समृद्धी० for समृद्धं.
- RK om. सारेण; JA om. रसेन.
- Bh. (आ) हवनीय० for व्याहृति०.
लोकः सामवेदः । तद्वै स्वर्गं च लोकं सामवेदं च स्वेन
रसेन समर्धयति ॥ १० ॥
स्पष्टमेतत् ॥ १० ॥
एवं विशेषेण प्रायश्चित्तं विधायेदानीं साधारणेन दर्शयति—
अतो वाव यतमस्मिन्नेव कतमस्मिंश्चोल्बणं क्रियेत
सर्वेष्वेवानुपर्यायं जुहुयात् । तथा हास्य यज्ञोऽस्कन्नः
स्वगाकृतो भवतीति ॥ ११ ॥
अतो वाव अग्नौ वा यतमस्मिन् कतमस्मिन् च कर्मणि उल्बणं
न्यूनमधिकं वा क्रियेत तदा सर्वेषु अग्निषु अनुपर्यायं क्रमेण व्याहृतिभिः ब्रह्मा
जुहुयात् । तथा च अस्य यजमानस्य यज्ञः अस्कन्नः अन्यथाकृतो न
भवति । किं तु, स्वगाकृतो यथोक्तमार्गेणैव कृतो भवति ॥ ११ ॥
हविषः स्कन्दने पात्रादीनां च भेदने प्रायश्चित्तं विधातुम् आदौ दोषं
दर्शयति—
अथ स्कन्नाद्वा भिन्नाद्वा त्रेधा यज्ञ उत्क्रामति देवान् दिवं
तृतीयमन्तरिक्षं मनुष्यांस्तृतीयं पृथिवीं पितॄंस्तृतीयम् ॥ १२ ॥
अथ पुनः स्कन्नाद् हविषः स्कन्दनाद् वा भिन्नात् पात्रादीनां
भेदनाद् वा यज्ञस्त्रेधा त्रिप्रकारेण उत्क्रामति । कथम्? देवान् दिवं
3. R Bh JA add अथ यदि सामत इत्यादि समर्द्धयतीति before
स्पष्टमेतत् .
4. Bh T. विशेषणं for विशेषेण; SIK साधारण्येन for साधारणेन
R Bh JA प्रदर्शयति for दर्शयति.
5. S. क्रियते for क्रियेत.
7. Bh. स्वागा० for स्वगा०.
8. Bh T अथो० for अतो०; TJA add कस्मिंश्चित् after
कतमस्मिन्.
10. M. आहविष्कृतः for यज्ञः अस्कन्नः.
11. Bh. स्वागा० for स्वगा०.
12. R Bh JA हविषां KM हविष् ० for हविषः; MTIKS ०स्कन्दे
for स्कन्दने; TMIKS भेदे for भेदने.
16. R Bh IJSAMs अध for अथ.
17. S. अयं for कथं; I om. कथम्.
तदधिष्ठितद्युलोके(कं ?) चेति । तृतीयं गगनं, त्रित्वसंख्यापूरकत्वात् । एवमन्यदपि
व्याख्येयम् ॥ १२ ॥
तत्र प्रायश्चित्तं विधत्ते—
तदभिमृशेद्दे॒वान् दि॒वं य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑ण-
मष्टु । अ॒न्तरि॑क्षं मनु॒ष्या॒न्य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । पृथि॒वीं
पि॒तॄन् य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । यत्र॑ क्व च
य॒ज्ञोऽगा॒त्ततो॒ मा द्रवि॑णमष्टु । इति । तद्वा आ॒त्मानं॑ च॒
यज॑मानं च॒ स्वेन॒ रसे॑न॒ समर्ध॑यति ॥ १३ ॥
देवान् इन्द्रादीन् दिवं च यज्ञोऽगात् अगमत् । ततः तत्सकाशात्
मा मां द्रविणम् अष्टु प्राप्नोतु । एवमन्यदपि व्याख्येयम् । देवानित्यारभ्य यत्र
क्व च यज्ञोऽगात्ततो मा द्रविणमष्ट्वित्यन्तेन मन्त्रेण तत् स्कन्नं हविर्बर्हिः
च पात्रादिकमभिमृशेत् । तद्वै तेनैव अभिमर्शनेन आत्मानं च यजमानं च
स्वेन रसेन यज्ञफलेन समर्द्धयति ॥ १३ ॥
यज्ञहविरुल्बणे वैष्णववारुण्यार्चा अपामुपनिनयनं प्रायश्चित्तत्वेन
विधातुं तदर्थवादत्वेनेदमाम्नायते—
वरुणो वा एतद्विष्णौ यज्ञमुपार्पयति ॥ १४ ॥
वरुणो वै अपां पतिः वरुण एव । एतत्,--लिङ्गव्यत्ययः,--
विष्णावुपार्पयति स्थापितवानिति ॥ १४ ॥
- ISK. तदधिष्ठितद्विलोके, R Bh MTIA तदधिष्ठितद्युके यदधिष्ठितं
for तदधिष्ठितद्युलोकं See CN; MTSK त्रिक० for त्रित्व०. - Bh MTJA om. इन्द्रादीन् Bh JA उदगमत्, M अक्रामत् for
अगमत्; T Bh तत्काशाच्च मां, JA तत्कारणं मा मां, RSI तत्सकाशात् आत्मा
for तत्सकाशात् मा मां. - BhA add ततः and J तद् after द्रविणं.
- Bh JA om. तत्; M. एतत for तत्.
- R Bh JA om. first च; SIK om. एव.
- Bh JA ०हविषाम् for हविः; Bh JA om. उल्बणे; M.
०वारुण्याभ्याम्, for ०वारुण्यार्चा; Bh JA. नयनं for नि नयनम्. - IS. om. एव; MT तल्लि० for एतल्लि०; Bh. adds दृष्ट्वा
after यज्ञम्.
अथ प्रायश्चित्तं विधत्ते—
यद्यज्ञ उल्बणं क्रियते तदप उपनिनयेद्ययोरोजसा
स्कभिता रजांसि वीर्यैर्भिर्वीरतमा शविष्ठा या पत्येते अप्रतीता
सहोभिर्विष्णू अगन्वरुणा पूर्वहूतौ स्वाहेति तद्वा आत्मानं
च यजमानं च स्वेन रसेन समर्द्धयति ॥ १५ ॥
यद् यदि यज्ञे उल्बणं क्रियते तत् तर्हि ययोरोजसा इत्यादिना
स्वाहान्तेन मन्त्रेण अपः उदकानि तस्मिन् हविषि उपनिनयेत् पाकवेलायां
हविर्द्रुतं चेत् । तद्वै तेनैव अपामुपSecondaryनिनयेन आत्मानं च यजमानं च स्वेन रसेन
यज्ञफलेन समर्द्धयति इति । वरुणेन यज्ञस्य विष्णौ समर्पितत्वात् वैष्णववा-
रुण्यर्चा अपामुपSecondaryनिनयने कृते यज्ञः समाहितो भवतीत्यर्थः । अस्य मन्त्रस्यायमर्थः ।
ययोः विष्णुवरुणयोरोजसा तेजसा च रजांसि लोकाः स्कभिता स्कभितानि
यथावत् स्थापितानि । किं च । [या] यौ वीर्यैभिः वीर्यैः बलैः वीरतमा
अतिशयेन वीरौ तथा शविष्ठा शविष्ठौ अतिशयेन बलवन्तौ । अपि च या यौ
सहोभिः अन्यदीयैः बलैः अप्रतीता अप्रतिगतौ पत्येते ईश्वरौ भवतः ।
पत्यतिरीश्वर्यकर्मा । पूर्वहूतौ पूर्वं प्रथमम् आह्वातव्यौ विष्णू वरुणौ । उभयत्र
द्विवचनं परस्परसाहित्यापेक्षया । विष्णुवरुणावित्यर्थः । तावगन् यज्ञोऽगमत् ।
गमेर्लुङि लेर्लुकि मो नो धातोः (पा. ८. २. ६४) इति नकारे कृते रूपम् ।
स्वाहा सुहुतमस्त्विति ॥ १५ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये पञ्चमः खण्डः
- Bh K. क्रियेत for क्रियते.
- A मन्त्रेण स्कन्नं हविर्भिन्नं for स्वाहान्तेन मन्त्रेण; J om. स्वाहान्तेन
and adds स्कन्नं हविर्भिन्नं पात्रादि after मन्त्रेण. - Bh K उद्गच्छेत् for उद्गतं चेत् ; Bh ०नयने, TIA ०निनयने for ०निनयेन.
- JA विष्णोः for विष्णौ.
- JA पात्राणम् for अपाम् ; RSI. समर्पितो० for समाहितो०.
- RJSIA om. स्कभिता; MTSI•
- यद्यावत् for यथावत्.
- IS. add इति after ०वरुणौ.
षष्ठः खण्डः
विराजोऽतिरेके तन्न्यूनतायां च प्रायश्चित्तं दर्शयितुमाह—
ये विराजमतियजन्ते विराजमेव त ईप्सन्तोऽमुष्मिन्
लोके श्राम्यन्ति । अथ य एनामर्वाग्दम्भ्नुवन्ति विराजमेव त
ईप्सन्तोऽमुष्मिन् लोके श्राम्यन्ति । तेषां तथा श्राम्यतां सुकृतं
क्षीयते । न हि तदमुष्मिन् लोके शक्नुवन्ति यदस्माल्लोकाद्-
कृत्वा प्रयन्ति ॥ १ ॥
ये ऋत्विजः विराजं दशसंख्याम्, दशाक्षरा विराड् (श. ब्रा.
१.१.२२, ऐ. ब्रा. ३.४१.४) इति श्रुतेः । चतुष्टोमस्य ज्योतिष्टोमस्य
तस्य नवतिशतं स्तोत्रीया (तां ब्रा. १६.१.८) इति स्तोत्रीयाणां संख्या-
संपत्तिर्ब्राह्मणेऽभिहिता । ताश्च विराजा संपाद्यन्ते । अतस्तत्संपत्तिहेतुर्दशसंख्या
विराट् । तां यदि अतियजेरन् अतिक्रम्य
५० षड्विंशब्राह्मणम्
अथ पुनः ये ऋत्विजः एनां विराजं अर्वाग् दम्भ्नुवन्ति [ते] उक्तस्तोत्रीया-
संख्यां न्यूनां कुर्युरित्यर्थः । अन्यत् समानम् । किं च, तथा श्राम्यतां
व्यर्थमास्यतां तेषां सुकृतं पूर्वार्जितमपि पुण्यं क्षीयते । तथा हि—यत्
कर्म अकृत्वास्माल्लोकात् प्रयन्ति परलोकं, तत्कर्मफलं प्राप्तुममुष्मिन् लोके
न शक्नुवन्ति इति विराजोऽतिरेकन्यूनत्वे प्रत्यवायहेतुत्वात् प्रायश्चित्तनिमित्ते ।
तत्र प्रायश्चित्तविशेषस्यानुक्तत्वात् पूर्ववत् सामोल्बणे यत् आहवनीये स्वः
स्वाहा (ष.विं.ब्रा.१.५.१०) इति प्रायश्चित्तमुक्तं तदेवात्रापीत्युपगन्तव्यम् ॥ १ ॥
होत्रादीनां व्यापाराभावेऽपि ब्रह्मणो वाग्यमनलोपे प्रायश्चित्तविधानाय
तत्रापि ब्रह्मणो वाग्यमनमाख्यायिकापूर्वं विधातुम् उपक्रमते—
एतद्ध स्माहोद्दालक आरुणिः कथं ते यजेरन् कथं
वा याजयेयुर्ये यज्ञस्य व्यृद्धेन न नन्दन्ति । नन्दन्ति
यत्समृद्धेनेति ॥ २ ॥
एतत् वक्ष्यमाणम् आरुणिः अरुणपुत्रः उद्दालकनामा ऋषिः [ह] एव
आह स्म उक्तवान् किल । ये ऋत्विजः यज्ञस्य व्यृद्धेन समृद्धयभावेन ।
अङ्गवैकल्येनेत्यर्थः । न नन्दन्ति दुःखिता भवन्ति । यत्समृद्धेन यस्य
यज्ञस्य संपूर्त्या नन्दन्ति हृष्टा भवन्ति । ते कथं केन प्रकारेण कस्मिन् काले
यजेरन् वा अथवा कथं याजयेयुरिति ॥ २ ॥
- MSI. om. ऋत्विजः; Bh. एनं for एनां; MSI स्तुवन्ते for
दम्भ्नुवन्ति. - RK Bh MS कृत्वा for अकृत्वा; RJ om. परलोकं.
- Bh M add तन्० before न्यूनत्वे.
- Bh J ०श्चित्तेति for ०श्चित्त०.
- RKJSI. ०त्यव० for ०त्युप०.
- R Bh MJ add स्व० before व्यापार; MJ om. ०ऽपि.
- K. वृद्धयै for व्यृद्धेन.
- J उद्दालको नाम for उद्दालकनामा; R J Bh om. एव.
- R. समृद्धाङ्गाभावेन for समृद्धयभावेन.
प्रथमोऽध्यायः (६) ५१
ततः किमित्यत्र आह—
अहं वाव काले यजेय । अहं काले याजयेयम् । योऽहं
यज्ञस्य व्यृद्धेन न नन्दामि । नन्दामि यत्समृद्धेनेति ॥ ३ ॥
अहं वाव अहमेव काले यजेय । अहमेव काले याजयेयम् ।
मत्तोऽन्यः कः काले यजेत याजयेद्वा । अन्यदतिरोहितार्थम् ॥ ३ ॥
कथमित्यत्राह—
अपि ह स्वादेव कामाद्यज्ञस्य व्यर्द्धयति । भूयसी-
रुपाप्सीरुपाप्स्यामि भिषक्कृत्वा ॥ ४ ॥
यो ब्रह्माणमकृत्वा काले न यजेत याजयेद्वा। स यज्ञस्य संबन्धिनः
स्वात् स्वीयात् कामादपि व्यर्द्धयत्येव हीयते एव खलु । अतोऽहं भिषक्कृत्वा
ब्रह्माणं भिषजं प्रायश्चित्तविदं कृत्वा भूयसीरुपाप्सीः प्राप्तव्यान् बहून् कामान्
उपाप्स्यामीति ॥ ४ ॥
ब्रह्मकरणे विद्वत्संमतिं दर्शयति—
एतद्ध स्म वै तद्विद्वानाह— यावद्वा ऋचा होता
करोति होतृष्वेव तावद्यज्ञः । यावद्यजुषाध्वर्युराध्वर्युष्वेव
तावत् । यावत्साम्नोद्गातोद्गातृष्वेव तावद् । ब्रह्मण्येव
तावद्यज्ञो यत्रोपरताः ॥ ५ ॥
तदेतत् वक्ष्यमाणं विद्वानाह स्म उक्तवान् किल । यावद्वै यावत्येव काले
होता ऋचा करोति शस्त्रादिकं पठति तावद्धोतृष्वेव यज्ञस्तिष्ठति । यावदेव
पादटिप्पण्यः (Footnotes)
- MSIK किं तत्र for किमित्यत्र
- RSI. अन्यो, J अपि for मत्तो०.
- R उक्त्वा, T कृत्वा for अकृत्वा ; J om. यो ब्रह्माणम् ... याजयेद्वा;
Bh T. यज्ञसं० for यज्ञस्य सं; J यजमानसंबन्धिनः स यज्ञफलानि सत्त्वान्नाश्रीयात् स्वस्मात् for यज्ञस्य...स्वीयात् . - Bh. सत्त्वान्नाश्रीयात् for स्वीयत् .
- R. विद्वत्त्वम् अङ्गं, J विद्वत्सज्ञां, SI विवर्थङ्गम for विद्वत्संमतिम . see CN.
- SK om. एव; M. adds यत्र यस्मिन् काले before यावदेव
L. om. यावदेव...यज्ञस्तिष्ठति (P. 52. l. 1)
५१ षड्विंशब्राह्मणम्
अध्वर्युर्यजुषा यजुर्वेदविहितं कर्म करोति तावदध्वर्युष्वेव यज्ञस्तिष्ठति ।
यावदुद्गाता साम्ना स्तोत्रादिकं पठति तावदुद्गातृष्वेव यज्ञस्तिष्ठति । यत्र
यस्मिन् काले उपरता होत्रादयः कर्मरहितास्तिष्ठन्ति तावद् ब्रह्मण्येव यज्ञ-
स्तिष्ठतीति ॥ ५ ॥
अस्त्वेवम्, ततः किम्? तत्राह—
तस्मात्तस्मिन्नन्तर्धौ ब्रह्मा वाचंयमो बुभूषेत् ॥ ६ ॥
यस्मादेवं तस्मात्तस्मिन्नन्तर्धौ होत्रादीनां व्यापाराभावकाले ब्रह्मा
वाचंयमो बुभूषेत् सावधानो भवेदेवेत्यर्थः ॥ ६ ॥
एवं वाग्यमनं विधाय तल्लोपे प्रायश्चित्तमाह—
स यदि प्रमत्तो व्याहरेदेता वा व्याहतीर्मनसानु-
द्रवेत् । भूर्भुवःस्वरिति ॥ ७ ॥
यदि ब्रह्मा प्रमत्तः अनवहितः सन् व्याहरेत् मौनं परित्यजेत् तर्हि
भूर्भुवःस्वरिति एता व्याहृतीः मनसा अनुद्रवेत् चिन्तयेत् ॥ ७ ॥
वाशब्दसूचितं प्रायश्चित्तान्तरमाह—
वैष्णवीं वर्चम् ‘इदं विष्णुर्विचक्रमे’ (सा. २२२) ॥ ८ ॥
यदि प्रमादाद् ब्रह्मा तदा व्याहरेत्तर्हि इदं विष्णुर्विचक्रमे (सा. 222)
इति वैष्णवीमृचं वा मनसा अनुद्रवेदित्यनुषङ्गः ॥ ८ ॥
अथ सर्वप्रायश्चित्ततया महाव्याहृतिभिः होमं विधातुम् उपक्रमते—
- J adds करोति after साम्ना.
- Bh MI. om. तावद्.
- R. किं तत इत्यत्राह for ततः किं ? तत्राह...
- SI. om. यस्मादेवं; Bh T. ०भावात् for ०भाव०.
- Bh एवेत्यवधारणो, M साधारणो० J एवेत्यवधारणं, T अवधारणे
for सावधानो०. - M. तस्य लोपे for तल्लोपे.
- M प्रमादेन सः for अनवहितः सन .
- MKSI. om. ब्रह्मा तदा.
- TJ ०व्याहृत्या होमं SK ०व्याहृति होमं for ०व्याहृतिभिः होमं,
Bh JR add होमम् after विधातुम्.
प्रथमोऽध्यायः (६) ५३
राज्ञो ह मितस्य मर्कटोऽशूनादाय वृक्षमपुप्लुवे ॥ ९ ॥
मितस्य मुष्टिभिः परिमितस्य राज्ञः सोमस्य अंशून् अवयवान् आदाय
मर्कटः मर्कटवेषधारी इन्द्रः । उत्तरत्र मघवन्निति मर्कटस्य संबोध्यमानत्वात् ।
वृक्षमपुप्लुवे उदपतत् ॥ ९ ॥
ततः किमित्यत्राह—
स हारुणिराहुतिमुद्यत्योवाच पुनः वैनान्निवप्स्यस्यतो
वाव मृतोऽवपप्स्यस इति ॥ १० ॥
पश्चाव् आरुणिः उद्दालकः प्रायश्चित्तं कर्तुम् आहुतिमुद्यत्य एवम्
उवाच—हे मर्कट ! त्वम् एनान् अंशून् पुनः निवप्स्यसि प्रक्षेप्स्यसि वा,
अथवा मृतः सन् अतो वृक्षाद् अवपप्स्यसे अवपत्स्यसीति ॥ १० ॥
मर्कटस्योत्तरं दर्शयति—
स होवाच किं होष्यसीति ॥ ११ ॥
पुनरारुणेर्वचनं दर्शयति—
प्रायश्चित्तमिति ॥ १२ ॥
प्रायश्चित्तं होष्यामीति ॥ १२ ॥
पुनर्मर्कटस्य प्रश्नमाह--
किं प्रायश्चित्तमिति ॥ १३ ॥
आरुणिरुत्तरमाह—
सर्वप्रायश्चित्तमिति ॥ १४ ॥
- K Bh MT आपुप्लुवे for अपुप्लुवे.
- R. ०रूपः, MK. ०रूपी for ०वेषधारी.
- Bh MTSK. om. ह; T. आहुतीः for आहुतिम् ; Bh निवप्स्य
ह्यवः प्रपश्यते, for निवप्स्यस्यतो. - MJSTK. om. प्रायश्चित्तं.
- RJS add क्त्वा before निवप्स्यति; Bh MJ. om. प्रक्षेप्स्यसि.
- J om. अवपत्स्यसीति.
- J मर्कटः for मर्कटस्य and om. प्रश्नम्.