सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पत्क्तास्मि तदागच्छतेति । एवमेव अनेन प्रकारेण यद् ब्रूयात्तदेतद् देवेभ्यः
श्रुत्यामेव प्राहेति ॥ २७ ॥
निगदशेषं प्रतीकेनोपादत्ते —
देवा ब्रह्माण इति ॥ २८ ॥
देवा ब्रह्माण आगच्छतागच्छतागच्छत (ला. श्रौ. सू. १.३.३) इति
निगदशेषः । हे देवाः हे ब्रह्माणः हे ब्राह्मणाः आगच्छत । त्रिरुक्तिरादरार्था
वा ॥ २८ ॥
एतद् व्याचष्टे—
देवा हैव देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः
शुश्रुवांसोऽनूचानास्ते मनुष्यदेवाः ॥ २९ ॥
देवाः प्रसिद्धा वस्वादय एव देवाः । अथ पुनः एते ह वक्ष्यमाणा एव
मनुष्यदेवाः ये ब्राह्मणाः परिवृढा इति कीर्त्यन्ते इति शेषः । के ते मनुष्यदेवा
इत्यत उक्तम्—शुश्रुवांसः [इति] । श्रुतवन्तः अर्थविदः अनूचानाः
साङ्गवेदाध्यायिनो ये ब्राह्मणाः ते मनुष्यदेवाः ॥ २९ ॥
किं देवानां भागधेयं किंच ब्राह्मणानां य[द्]दानेन प्रीणयितुं तानु-
भयानाह्वयतीत्यत्राह—
आहुतय एव [भागधेयं] देवानां दक्षिणा मनुष्य-
देवानाम् । आहुतिभिर्ह देवान् प्रीणाति । दक्षिणाभिर्मनुष्य-
देवान् शुश्रुवुषोऽनूचानान् ब्राह्मणान् प्रीणाति ॥ ३० ॥

  1. R. om. एतद् .
  2. TK. ब्राह्मणाः for ब्रह्माणः.
  3. T. ब्राह्मण[ाः] for ब्रह्माणः; Bh. आगच्छतेति for आगच्छता०...
  4. T. ब्राह्मणाः for ब्रह्माणः; Bh. om. हे ब्राह्मणाः.
  5. T. ब्राह्मणदेवाः for ब्राह्मणाः
  6. Bh JA combine this and the following text and
    reproduce आहुतय एव....ब्राह्मणान् प्रीणाति after आत्राह (L. 16) again in
    the commentary.
  7. R Bh BTSI कीर्नांते P कीर्त्यन्ते; Bh T हे JA अथ है for के.
  8. Bh JA om. अर्थविदः
  9. T. सतत, JA तत्र, for य[द्]; B अनेन for दानेन.
  10. KTI. शुश्रूषो० for शुश्रुवुषो०

प्रथमोऽध्यायः (१) ११
देवानां वस्वादीनाम् आहुतय एव भागधेयम् । मनुष्यदेवानां
ब्राह्मणानां दक्षिणा गवादिरूपा भागधेयम् । तस्यैव विवरणम्--हि यस्मात्
आहुतिभिः देवान् प्रीणाति प्रीणयति यजमानः । तथा मनुष्यदेवान्
शुश्रुषुषः श्रुतवतः । श्रु श्रवणे इत्यस्मात् कसुः । तदन्तस्य द्वितीयाबहुवचने
वसोः संप्रसारणे कृते रूपम् । अनूचानान् साङ्गवेदाध्यायिनो ब्राह्मणान् ५
दक्षिणाभिः प्रीणाति प्रीणयति ॥ ३० ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
१. A देवादीनां for देवानां ; Bh JA add इति after वस्वादीनाम् .
३. R. adds हि, JSA ह after आहुतिभिः; R. om. प्रीणाति.
४. BTIAK शुश्रूषः for शुश्रुषुषः; Bh JA तस्य for तदन्तस्य.

द्वितीयः खण्डः
सुब्रह्मण्याशब्दो देवताया नामधेयमुत मन्त्रस्येति जिज्ञासायामुभयोर्नाम-
धेयमित्याख्यायिकया प्रतिपादयितुं प्रथमं देवतानामधेयत्वं दर्शयितुमुपक्रमते—
अथ यत्र सुब्रह्मण्यः सुब्रह्मण्यामाह्वयत्येतस्मिन् ह
कालेऽसुररक्षांसि देवानां यज्ञमजिघांसन् ॥ १ ॥
अथ-शब्दः आख्यायिकोपक्रमलक्षणार्थः । यत्र देवेषु यजमानेषु ।
यस्मिन् काले सुब्रह्मण्यः एतन्नामा ऋत्विक् सुब्रह्मण्यामाह्वयति तस्मिन्ना-
ह्वानकाले देवानां संबन्धिनं यज्ञमसुराश्च रक्षांसि च असुररक्षांसि देवयोनयः
क्रूरकर्माणः । अत एव यास्कः असुरा रक्षांसीत्येके (नि. ३. २. ८) इति ।
अजिघांसन् हन्तुमैच्छन् किल ॥ १ ॥
ततः किमित्यत्राह—
ते देवा निहवमेवा(०वाम् ?)कुर्वत ब्रह्मो३म् सुब्रह्मो३म्
इति ॥ २ ॥
2. RBJSIA देवता for देवतायाः
3. Bh A ०ख्यायिका, J ०ख्यायिकां, T ०ख्यायिकाश्च for
०ख्यायिकया.
5. R BBh (आ)जिघांसन् for (अ)जिघांसन्.
6. RBSBh ०कोपलक्षणार्थः for ०कोपक्रमलक्षणार्थः; K. यज्ञमायन्सु,
यजमानसु, B. यज्ञमजिघांसन् for यजमानेषु; SI om. यजमानेषु.
8. Bh. om. असुराश्च रक्षांसि च; TJ असुररक्षांसि असुरा (०राश्च J)
रक्षांसि च । रक्षांसि for असुराश्च रक्षांसि च.
9. JA घतका गन्धर्वाः पितरो देवाः असुररक्षांसीत्येके for असुरा रक्षांसीत्येके
12. Bh. निहतम for निहवम्.

प्रथमोऽध्यायः (२) १३
देवाः परस्परं निह्नवं देवताया नीचैरुपाह्वानम् एव आम् अनुनासिकः
छान्दसः । आभिमुख्येन अकुर्वत । ब्रह्मों सुब्रह्मण्यम् इति एवम् । सुब्रह्मण्यो-
मित्यर्थः । वर्णलोपश्चान्दसः ॥ २ ॥
ततः परं किमभूदित्यत्राह—
तानादित्यः पर्जन्यः पुरोबलाको भूत्वाभिप्रेत् । तान्
वृष्ट्याशन्या विद्युताहन् ॥ ३ ॥
तैरेवमाहूत आदित्य आदित्यात्मक इन्द्रः पर्जन्यः वर्षोन्मुखो मेघः
सन् । तत्रापि पुरोबलाकः सर्वेषां पुरोगामी मेघो भूत्वा तान् देवान् अभिप्रेत्
अभिमुखं प्रागच्छत् । आगत्य च तान् यज्ञविघ्नकारिणोऽसुरान् राक्षसांश्च
अशन्या अहितया वृष्ट्या विद्युता विद्योतनेन स्वप्रकाशेन अहन् अहंसीत् ।
एतत्तु वक्ष्यमाणविचारार्थत्वेनाभिहितमिति मन्तव्यम् ॥ ३ ॥
सुब्रह्मण्यायाः स्त्रीपुंनपुंसकात्मकत्वं विमर्शपूर्वकं व्युत्पादयितुं संशयं
तावद्दर्शयति—
तदाहुः स्त्री सुब्रह्मण्या३पुमाञ्न्नपुंसका३मिति ॥ ४ ॥

  1. J. om. आम्...छान्दसः; SI. आङ् for आम्.
  2. J. adds अनुनासिकः छान्दसः ofter ब्रह्मों.
  3. JA ०्यर्थवन्न लोपः for ०्यर्थः । वर्णलोपः; JA om. छान्दसः
  4. BBh. om. ततः; JA अतः for ततः; J om. अभूत्; BBh
    JIA om. अत्र; A अन्विच्छेत् for अभूत्.
  5. T. आहृतः for आहूतः; JA वर्षांमुखः for वर्षोन्मुखः; T om. मेघः.
  6. KT ०प्रेतः for प्रैत्.
  7. Bh. आश्रित्य, JA यज्ञमाश्रित्य for आगत्य; Bh TJA. om. राक्षसांश्च.
  8. BSI. अहितभीतया for अहितया ; K. विद्योतनैः for विद्योतनेन;
    Bh JA ०काशनेन for ०काशेन.
  9. R. om. तु; Bh IJA विचारत्वेन for विचारार्थत्वेन.
  10. Bh J पुंसकत्वं. for पुंनपुंसकात्मकत्वं ; Bh JA ०पूर्वै for पूर्वकं ;
    Bh. संभ्रवं, K. संवादा for संशयं.
  11. JA combine this and the following text. R Bh JA om. तत्.

१४ षड्विंशब्राह्मणम्

तत्तत्र सुब्रह्मण्याया देवताविषयत्वे सुब्रह्मण्या किं स्त्री उत पुमान्
आहोस्विन्नपुंसकम् ? [इति ।] विचारार्थे प्लुतः । स्वार्थिकस्तद्धितः । सुब्रह्मै
सुब्रह्मण्येति । आहुः ब्रह्मवादिनः ॥ ४ ॥
उत्तरं दर्शयति—
सर्वमेवेति ब्रूयात् ॥ ५ ॥
यद्येवं विचारं कुर्युः तर्हि सर्वं स्त्रीपुंनपुंसकात्मकमेव सुब्रह्मण्येत्युत्तरं
ब्रूयात् ॥ ५ ॥
कथम् एकस्य स्त्रीपुंनपुंसकात्मकत्वमित्यत्राह—
यत्पर्जन्यः पुरोबलाको भूत्वाभिप्रेत्तेन पुमान् ।
यद् वृष्ट्या यदशन्या तेन स्त्री । यद्विद्युता तेन नपुंसकं ।
तस्मात् सर्वमेवेति ब्रूयात् ॥ ६ ॥
यद् येनेन्द्रः पर्जन्यो वर्षोन्मुखो मेघः सन् पुरोगामी बलाको भूत्वा
अभिप्रेत् देवान् तेन पुंरूपपर्जन्यात्मकत्वेन पुमान् । यत् येन वृष्ट्या यत्
येन वाशन्या असुरानवधीत् तेन स्त्रीरूपवृष्ट्यशन्यात्मकत्वेन स्त्री भवति ।
यत् येन विद्युताहन् । विद्युच्छब्दो नपुंसकलिङ्गोऽप्यस्ति । औणादिकः
क्विप् बहुलवचनान्नपुंसकलिङ्गेऽपि भवतीति । तेन नपुंसकविद्युदात्मकत्वेन
नपुंसकम् । तस्मात् सुब्रह्मण्या सर्वमेव भवतीति ब्रूयादिति सूक्तमेव ॥ ६ ॥


पादटिप्पणी (Footnotes):

  1. JA. पुंनपुंसकात्मकत्वम् एव सुब्रह्मण्येति । उत्तरं ब्रूयात् । सर्वमेवेति
    for तत्तत्र...उत्तरं ब्रूयात् (ll. 1-7); Bh. om. उत पुमान्...सर्वं स्त्री (ll. 1-6).
  2. T. ब्रह्मणः for ब्रूयात्.
  3. Bh JA om. इति; Bh JA तत्र for अत्र.
  4. Bh. ०प्रेतेन for ०प्रैत्तेन.
  5. Bh JA वर्षामुखो० for वर्षोन्मुखो०.
  6. JA adds तान् and Bh तद् after ०प्रैत ; J om. वृष्ट्या यत् येन.
  7. J च for वा; J adds च after तेन.
  8. Bh BJ ०लिङ्गोऽपि for लिङ्गेऽपि.
  9. Bh. नपुंसकत्वं for नपुंसकं; Bh JB. add इति च after सर्वमेव;
    BJ Bh. सर्वमेव for सूक्तमेव.

अथ सुब्रह्मण्याया मन्त्रविषयत्वेऽपि स्त्रीपुंनपुंसकात्मकत्वं व्युत्पादयितुं
विमर्शपूर्वकम् ऋग्यजुःसामात्मकत्वं दर्शयति—
तदाहुर्कक् सुब्रह्मण्या३यजूर३स्सामा३इति । सर्वमेवेति
ब्रूयात् । ऋच इवास्या नामधेयं सुब्रह्मण्येति । तस्मादृक् ।
मन्त्र एव खल्वयं निगदभूतो भवति । तस्माद्यजुः ।
सामकारिणः कुर्वन्ति यथान्यैः सामभिः । तस्मात् साम ।
तस्मात् सर्वमेवेति ब्रूयात् ॥ ७ ॥
तत्र सुब्रह्मण्याशब्दस्य मन्त्रनामधेयत्वे सुब्रह्मण्या किम् ऋक् किं वा यजुः
उत साम । विचारार्थः प्लुतः । इति यद्याहुः तर्हि सर्वमेव ऋग्यजुःसामानि
सर्वाण्यपि सुब्रह्मण्येत्युत्तरम् । तस्य विवरणम् । ऋच इव यथा ऋग्रूपस्य
मन्त्रस्य स्त्रीलिङ्गः ऋक्शब्दो नामधेयम्, तथास्याः सुब्रह्मण्यस्य मन्त्रस्य,
सुब्रह्मण्येति स्त्रीलिङ्गं नामधेयम् । तस्माल्लिङ्गसाम्यात् ऋक् सुब्रह्मण्या ।
अयं सुब्रह्मण्याशब्दवाच्यो मन्त्रो निगदभूत एव भवति खलु । निगदो
नाम यजुर्विशेषः तस्माद्यजुः । यथा यस्मात् सामकारिणः सामगाः अन्यैः
सामभिः सह कुर्वन्ति एवं पठन्ति तस्मात् साम । तैः पठ्यमानत्वात् । तस्मात्
सर्वमेव ऋग्यजुःसामेति ब्रूयात् । ऋङ्निगदसामात्मकत्वेन मन्त्रविषयेऽपि
स्त्रीपुंनपुंसकत्वमित्यभिप्रायः ॥ ७ ॥
एवं सुब्रह्मण्याह्वानं दर्शयित्वा ततो यत् कर्तव्यं तदाह—

  1. T ०ण्ययोगं च, BJ Bh ०ण्यायोगित्वं० for ०ण्याया मन्त्र०;
    J BhB. ०विषयत्वेन for विषयत्वे.
  2. B. विमत० for विमर्श०.
  3. S om. यजू३ स्सामा३...त्तासुब्रह्मण्या० (ll. 3—8.)
  4. J अथवा for किंवा; J adds वा after यजुः.
  5. J before विचारार्थः adds (इ)त्याशङ्क्य सर्वमेवेत्युक्तम्। ऋग्यजुः-
    साम०; Bh A. यथा०, J यदा० for यद्या०; JA add तत् before सर्वम्.
  6. Bh JA om. तस्य विवरणम्...सुब्रह्मण्यस्य मन्त्रस्य.
  7. Bh JA om. नामधेयम्। तस्माल्लिङ्ग; Bh. सामान्यात् for साम्यात्.
  8. JA om. अन्यैः.
  9. Bh A. सामगैः for साम तैः; J सामगैः for तैः.
  10. Bh JA ०विषयेष्वपि for विषयेऽपि.

१६ षड्विंशब्राह्मणम्
तद्वा एतत्सुब्रह्मण्यामाहूय यजमानं वाचयति
रक्षसामपहत्यै ॥ ८ ॥
सुब्रह्मण्यामाहूय तत् तदा एतद् वक्ष्यमाणं यजुः यजमानं वाचयति
वाचयेत् । रक्षांसां सुब्रह्मण्यादेवताधिष्ठितेष्टकेषु संचरतामपहत्यै अपहननाय ।
यजमानवचनं स्तुत्यर्थम् ॥ ८ ॥
वाचनीयमन्त्रभागाननूद्यानूद्य व्याचष्टे—
सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पाद इत्याह ।
यान्येव पृथिव्यामसुररक्षांसि तान्येव तेनापहते । सासि
सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पाद इत्याह । यान्येवान्तरिक्षे-
ऽसुररक्षांसि तान्येव तेनापहते । सासि सुब्रह्मण्ये तस्यास्ते
द्यौः पाद इत्याह । यान्येव दिव्यसुररक्षांसि तान्येव
तेनापहते । सासि सुब्रह्मण्ये तस्यास्ते दिशः पाद इत्याह ।
यान्येव दिक्ष्वसुररक्षांसि तान्येव तेनापहते । परोरजास्ते
पञ्चमः पाद इत्याह । परं रजसो वै ब्रह्मणः स्थानम् । तदेतदाह
सा न इषमूर्जं धुक्ष्वेत्याह । इषमेवास्मा ऊर्जं दुग्धे । वीर्यमन्नाद्यं
धेहीत्याह । वीर्यमेवास्मा अन्नाद्यं दधाति ॥ ९ ॥


  1. RSIKM. तद्वैतदेव एतत् सर्वात्मकां सुब्रह्मण्याम् इन्द्रं सुब्रह्मण्य-
    शब्दवाच्यम् आहूय सुब्रह्मण्य (M. om. hereafter) ऋत्विक् यजमानं वाचयति
    सासीत्यादिवक्ष्यमाणान् मन्त्रान् । for सुब्रह्मण्यामाहूय...वाचयेत्; Bh A om.
    तत्, J वा for तदा; J Bh A. om. यजुः.
  2. KSI om. ॰देवताधिष्ठितेष्टकेषु संचरता०; RJA ॰धिष्ठितेषु for
    ॰धिष्ठितेष्टकेषु.
  3. J Bh तत्सर्वम् for मन्त्रभागान् ; R. om. one अनूद्य; A om.
    मन्त्रभागान्...व्याचष्टे.
  4. M. om. सासि सुब्रह्मण्ये...वीर्यमन्नाद्यं धेहि. (ll. 8-16)
  5. BSIKM परां for परं.

प्रथमोऽध्यायः (२) १७
हे सुब्रह्मण्ये त्वं सा प्रसिद्धा सर्वदेवतात्मकेन्द्ररूपा असि भवसि ।
तस्यास्ते पृथिवी प्रथमः पाद इति यजुर्भागम् आह यजमानः पठेत् । तेन
मन्त्रपाठेन यान्येव असुररक्षांसि असुराश्च रक्षांसि च पृथिव्यां सन्ति तानि
सर्वाण्येवापहते विनाशयति । एवमन्यदपि व्याख्येयम् । तत्ते तव परोरजाः
रजसो लोकात् परः उत्कृष्टो ब्रह्मणो लोकः स परोरजाः । स एव पञ्चमः
पादः इति तदाह । रजसः परं ब्रह्मणः स्थानम् । तदेतत् स्थानं परोरजाः
इत्येतत् पदमाह । तथा सा प्रसिद्धा त्वं नः अस्मभ्यम् इषम् अन्नम् ऊर्जं
तद्रसं च धुक्ष्व प्रपूरय इति यदाह तेन सा देवता अस्मै यजमानाय
इषमूर्जं च दुग्धे । किं च वीर्यं बलम् अन्नाद्यम् अन्नादिकं धनं च धेहि
प्रयच्छेति यदाह तेन सा अस्मै यजमानाय वीर्यम् अन्नाद्यं च दधाति ॥ ९ ॥
निगदप्रशंसापूर्वकं सुब्रह्मण्याह्वानस्य कालं दर्शयति—
ब्रह्मश्रीर्वै नामैतत् साम यत्सुब्रह्मण्या तस्मात् प्रात-
रनुवाक उपाकृते विसंस्थिते च यज्ञे सुब्रह्मण्यः सुब्रह्मण्या-
माह्वयति ॥ १० ॥
अयं सुब्रह्मण्यानिगदो ब्रह्मश्रीर्वै ब्रह्मणा वेदेन श्रीयते । ब्रह्म वेदं
श्रयतीति वा ब्रह्मश्रीरेव । किंच । सुब्रह्मण्येति यत् [एतत्]त्साम नाम । नाम
प्रसिद्धं साम । सामगैः क्रियमाणत्वात् । यस्मादेवं तस्मात् प्रातरनुवाके
उपाकृते प्रारब्धे विसंस्थिते असमाप्ते च यज्ञे प्रत्यहमहर्गणेषु सुब्रह्मण्यः
सुब्रह्मण्यामाह्वयति ॥ १० ॥
प्रशंसापूर्वकं सुब्रह्मण्याय अनडुद्युक्तस्य अनसो दानं विधत्ते—
2. Bh JA नाम TM. भागः for भागम्.
3. B. मन्त्रेण for मन्त्रपाठेन; M. om. असुररक्षांसि.
4. BR सर्वाण्येवास्यैव०, M सर्वाण्येव तना०, SI सर्वाण्येवाह्यैवा०
for सर्वाण्येवा०; Bh JA व्याख्यायते for व्याख्येयम्.
5. Bh. ब्राह्मलोकः for ब्रह्मणो लोकः.
6. R om. तदेतत् स्थानं.
7. Bh JA परम् for पदम् ; BI. तदा for तथा.
9. Bh JA add च after बलं ; RSI add गाः after धनं.
20. I om. सुब्रह्मण्याय; BIS अनडुहस्तद्युक्तस्य M. अनडुहं तस्य for
अनडुद्युक्तस्य.
प० 2

१८ षड्विंशब्राह्मणम्
एष वै ब्रह्म सुब्रह्म चाप्नोति य एतदनो युक्तं
सुब्रह्मण्याय ददाति ॥ ११ ॥
एष वै अयमेव यजमानः ब्रह्म अग्निं सुब्रह्म इन्द्रं च आप्नोति । यो
युक्तम् अनडुद्द्वयम् एतदनः सुब्रह्मण्याय ददाति ॥ ११ ॥
यथोक्तलक्षणायाः सुब्रह्मण्याया वेदितारं स्तौति—
ब्रह्मणा चैवास्य श्रिया च यज्ञं समर्द्धयति य एवं वेद ॥ १२ ॥
यः सुब्रह्मण्य एवं यथोक्तप्रकारेण वेद जानाति सोऽस्य यजमानस्य
यज्ञं ब्रह्मणा ऋग्यजुःसामात्मकेन वेदेनैव च श्रिया अन्नपशुपुत्रादीनां
समृद्ध्या च समर्द्धयति समृद्धं करोति ॥ १२ ॥
पुनरपि सुब्रह्मण्यां प्रशंसति—
अथो खल्वाहुर्यच्चावगतं यच्चानवगतं सर्वस्यैषैव प्रायश्चित्तिरिति
तस्मादेवंविदं सुब्रह्मण्यं कुर्वीत नानेवंविदम् ॥ १३ ॥
अथो इत्यवान्तरवाक्योपक्रमार्थम् । आहुः खलु प्रायश्चित्तविदः । यद् -
यज्ञे यच्च यदपि अवगतम् अन्यथा ज्ञातम् । यच्च अनवगतम् अपरिज्ञातम् ।
तस्य सर्वस्यैषैव प्रायश्चित्तिः । विदुषा सुब्रह्मण्येन कृतं सुब्रह्मण्याह्वानमेव
प्रायश्चित्तम् । तस्मादेवंविदं यथोक्तप्रकारेण ज्ञातारं ब्राह्मणं सुब्रह्मण्यं कुर्वीत
यजमानः । अनेवंविदं न कुर्वीत इति ॥ १३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥
3. Bh JA. om. अयमेव.
4. BIS. अनो० for यो०, M. च एतदनो युक्तम् for यो युक्तम्.
10. Bh MT सुब्रह्मण्यं for सुब्रह्मण्यां.
12. Bh. ०विधं for ०विदं.
13. RTIJSA ०क्रमार्थः for ०क्रमार्थम् ; JA om. यद्यज्ञे.
14. R. यद्यपि for यदपि; JA. परिज्ञातं for अन्यथा ज्ञातं; R adds
परिज्ञातं after अन्यथा ज्ञातं; Bh om. अपरिज्ञातं; KM. परिज्ञातं for अपरिज्ञातं.
16. ( Bh T ०विधं for ०विदं; Bh. om. सुब्रह्मण्यं.
17. R. अन्यथा एवं, Bh AT. अन्यथैवंविदं for अनेवंविदं; SK add
अन्यम् before अनेवं.

तृतीयः खण्डः
अथ सर्वयज्ञाव्याप्तानि विज्ञातव्यानि दर्शयितुं प्रथमं प्रातःसवने
विज्ञेयं दर्शयति—
एकच्छन्दः प्रातःसवनं तस्मादेकपात् पुरुषो हरत्यन्यं
प्रत्यन्येन तिष्ठति ॥ १ ॥
प्रातःसवनमेकच्छन्दः एकं गायत्रमेव छन्दो यस्य तत् तथोक्तम् ।
बहिष्पवमानीयानाम् आज्यस्तोत्रीयाणां च ऋचां सर्वांसामपि गायत्रच्छन्दस्कत्वात् ।
तस्मात् तत एव पुरुष एकपाद् भवति । कथमेकपात् पुरुषः ? द्विपाद्धि
सर्वत्र दृश्यते । श्रूयते च द्विपाद्वै पुरुषः (ऐ. ब्रा. ५. २३. २) इति ।
अत[एवम]उक्तम् यद्यपि द्विपात् पुरुषः तथापि पथि गच्छन् अन्यमेकं
पादमन्यत्र पुरोदेशे हरति क्षिपति अन्येनैकेन पादेन भूमौ प्रतितिष्ठति । अत
एकपात् पुरुष इति ॥ १ ॥
अथ माध्यंदिने सवने विज्ञेयं दर्शयति—
त्रिच्छन्दा माध्यंदिनः पवमानस्तस्मात् त्रयोऽधःप्राणाः॥ २ ॥
माध्यंदिनो मध्यंदिनसवनसंबन्धी पवमानः त्रिच्छन्दाः त्रीणि
गायत्रीबृहतीत्रिष्टुबाख्यानि छन्दांसि यस्य सः तथोक्तः । तस्मात् तत एव
2. BK Bh ०यज्ञस्याप्तानि, RJA ०यज्ञस्य for ०यज्ञाव्याप्तानि;
RJA. विज्ञेयानि for विज्ञातव्यानि.
4. M. एकं for एक०.
6. M. om. एकं; M. एकं for एव.
7. BMAK बहिष्पवमानिनाम्, बहिष्पवमानम् for बीहष्पवमानी-
यानाम; Bh A add भवति after सर्वासां; MIS ०च्छन्दस्त्वात्, K. ०छन्दत्वात्
for ०छन्दस्कत्वात् .
10. RB Bh JA add इति after अतः; JA अयुक्तम् for उक्तम्;
RSI. अन्यम् for अग्रम् .
11. Bh (ऐ) कैकेन पादेन for (ए) केन पादेन.
15. Bh MJA माध्यं० for मध्यं०.
16. Bh JA om. तस्मात्...अधः.

पुरुषस्य अधः अवाञ्चः प्राणास्त्रयः । एको मूत्रविसर्जनस्य हेतुः । अपरः
पुरीषविसर्जनस्य । अन्यो रेतोविसर्जनस्य इति । त्रयोऽवाञ्चो रेतस्यो
मूत्र्यः पुरीष्य (ऐ. ब्रा. १. ४. ३.) इति श्रुतेः ॥ २ ॥
तत्रैव विज्ञेयान्तरमाह--
द्वे गायत्र्यां सामनी । तस्माद् द्वयमधरेण प्राणेन
करोति ॥ ३ ॥
माध्यंदिने पवमाने गायत्र्यां गायत्रीछन्दस्कायाम् ऋचि द्वे सामनी
गायत्र्यामहीयवनामधेये क्रियेते । तस्मात् तत एव द्वयं मूत्रविसर्जनं
पुरीषविसर्जनं चेत्येतद् द्वयम् अधरेण अधोवर्तिना प्राणेन करोति पुमान् ।
यद्यपि रेतोविसर्जनं तृतीयमपि कर्म अधरेण प्राणेन करोति तथापि
रेतोमूत्रयोरेकीकरणेन द्वयमधरेण करोतीत्युच्यते ॥ ३ ॥
तत्रैव विज्ञेयान्तरमाह—
द्वे बृहत्यां सामनी । तस्माद् द्वयमुत्तरेण ॥ ४ ॥
बृहत्यां बृहतीछन्दस्कायामृचि द्वे सामनी रौरवयौधाजयनामधेये
क्रियेते । तस्मात् तत एव द्वयं प्राणनमपाननं चेत्येतद् द्वयम् उत्तरेणो-
र्ध्ववर्तिना प्राणेन करोति पुमान् ॥ ४ ॥

  1. T. अथ अर्वाञ्चः for अधः अवाञ्चः; T. adds एव after त्रयः
  2. Bh JA (अ)र्वाञ्चो० for (अ)वाञ्चो०; Bh JA रेतसः मूत्रपुरीषः
    for रेतस्यो...
  3. M. मूत्रीयः for मूत्र्यः.
  4. Bh JA विज्ञाना० for विज्ञेया०.
  5. M. adds करोतीत्युच्यते । after अधरेण.
  6. R Bh J नामनी for ०नामधेये; AM प्राणनमपाननं, Bh.
    प्रीणनमवयाननं for मूत्रविसर्जनं पुरीषविसर्जनं.
  7. Bh A चेत्येव च द्वयमुत्तरेणोध्र्ववर्तिना प्राणं for चेत्येतद् ०...
    करोति; S आसन०, BI आसवन० for अधो०; Bh om. पुमान्.
  8. BI विसर्जनीयं for विसर्जनं M. om. तथापि.
  9. M. एकं सामौशनाख्यं क्रियते for द्वे सामनी...क्रियते.
  10. M. om. तत एव द्वयं...तत एव (p. 21 L. 4) T. प्रीणनम् for
    प्राणनम्.

प्रथमोऽध्यायः (३)
विज्ञेयान्तरमाह—
एकं त्रिष्टुभि साम । तस्मादेकैव नाभिः ॥ ५ ॥
तत्रैव त्रिष्टुभि त्रिष्टुप्छन्दस्कायाम् ऋचि एकं सामौशनाख्यं क्रियते ।
तस्मात् तत एव एकैव नाभिः । नाभिरिव मध्यवर्ती प्राणः । नव वै पुरुषे
प्राणाः । नाभिर्दशमी (तै. ब्रा. १. ३. ७. ४) इति श्रुतेः । स तु एक एव । 5
इतरप्राणवत्तस्य वृत्तिभेदाभावात् ॥ ५ ॥
नाभेः किं कर्मेत्यत्राह—
प्राणानामिव तु विधृतिः ॥ ६ ॥
नाभिस्तु प्राणानामूर्ध्वाधोभागवर्तिनामुभयेषामपि विधृतिर्विधारिका ।
यथा इतरप्राणानां प्राणधारणादन्यत् कर्मास्ति तद्वदस्य कर्मान्तरं नास्ति । 10
किंतु प्राणधारणमेकमेव कर्मेत्यभिप्रायः ॥ ६ ॥
एवं पुरुषविधस्य यज्ञस्य प्रातःसवनं पादस्थानीयम् । प्राणस्थानीयो
माध्यंदिनः पवमानः एत्र इत्यभिहितम् । अथेदानों तत ऊर्ध्वं क्रियमाणानि
चत्वारि स्तोत्रीयाणि किमात्मकानीत्यत्राह—
अथ यदेव तत ऊर्ध्वं तानि पृष्ठानि ॥ ७ ॥ 15
अथ पुनः ततो माध्यंदिनात् पवमानात् ऊर्ध्वं यदेव स्तोत्रं क्रियते ।
यच्छब्देन सर्वस्तोत्राणां सामान्येन निर्देशात् यानि स्तोत्राणि क्रियन्ते इत्यर्थः ।
तानि पृष्ठानि—पृष्ठं मध्यदेहस्य पश्चाद्भागः । तत्स्थानीयानि ॥ ७ ॥
कथमित्यत्राह—
बार्हतान्येकगायत्रीकाणि । तस्माद् बृहत्य एव 20
पर्शवो बृहत्य एव कीकसाः पृष्ठमभिसमायन्ति ॥ ८ ॥ 21

  1. Bh. विज्ञातव्या० for विज्ञेया०
  2. Bh JA om. नाभिरिव; MT. add नाभिः after (इ)व; M. मध्यं
    प्राण [न]म् for मध्यवर्ती प्राणः.
  3. BT om. ०भाग०.
  4. Bh. प्रमाणम् for प्राणधारणम् .
  5. T. om. प्रातःसवनं; Bh KT. ०सवनीयं for ०सवनं; Bh JA.
    om. पादस्थानीयं.
  6. Bh T. om. बृहत्य एव पर्शवो०.
  7. RSh परिशवो० for पर्शवो०.

२२ षड्विंशब्राह्मणम्
तानि पृष्ठानि बार्हतानि बृहतीषु भवन्ति । तत्र बृहद्रथन्तरयोर्बृहती-
प्रमुखत्वात् श्यैतनौधसकालेयानां पुनर्बृहतीष्वेवोत्पन्नत्वात् । किंच ।
तान्येकगायत्रीकाणि । वामदेव (व्य ?) नामकस्यैकस्य साम्नो गायत्र्यामुत्पन्नत्वात् ।
यस्मादेवं तस्मात् पुरुषे पर्शवः पार्श्वस्थीनि बृहत्य एव भूयस्यो बृहत्यः
पार्श्वस्थिस्थानीयाः । तथा बृहत्य एव कीकसाः पृष्ठास्थ्यवयवाः तत्स्थानीयाः ।
पृष्ठमभिसमायन्ति । पृष्ठस्थानीयामेकां गायत्रीं समागच्छन्ति ॥ ८ ॥
तत ऊर्ध्वं क्रियमाणं किमात्मकमित्यत्राह—
अथ यदेव तत ऊर्ध्वं स आर्भवः पवमानः ॥ ९ ॥
अथ पुनः ततो माध्यंदिनात् पवमानादूर्ध्वं यदेव क्रियमाणं स्तोत्रं स
आर्भवः पवमानः । पुरुषविधस्य यज्ञस्य मुखं भवति । मुखे संभूत-
त्वादित्यर्थः ॥ ९ ॥
मुख्यानां गायत्र्यादीनां प्राणादिरूपतामाह—
प्राणो गायत्री श्रोत्रे उष्णिक्ककुभौ वागनुष्टुप्
चक्षुर्जगती ॥ १० ॥
मुखरूपे आर्भवपवमाने विद्यमाना गायत्री प्राणस्थानीया । प्राणापान-
व्यानैस्त्रिवृत्प्राणः । गायत्र्यपि त्रिपदेति गायत्र्याः प्राणसाम्यम् । उष्णिक्ककुभौ
श्रोत्रे । अनुष्टुप् वाक्स्थानीया । वाग्वा अनुष्टुप् (श. ब्रा. १.३.२.१६)
इति श्रुतेः । जगती चक्षुः ॥ १० ॥
यदत्रानुदाहृतमक्षरपङ्क्त्यादिकं विकृतिषु क्रियमाणं छन्दस्तत् किमात्म-
कमित्यत्राह—
3. R Bh JA add: बृहत्य एव कीकसाः पृष्ठमभिसमायान्तीति तानि
पृष्ठानि बार्हतानि after ०गायत्रीकाणि.
4. T. परिशवः for पर्शवः; Bh. om. बृहत्य एव...तत्स्थानीयाः.
5. JA. पार्श्वस्थीनि for पार्श्वस्थिस्थानीयाः; R Bh KSJB पृष्ठस्या०
for पृष्ठास्थ्य०.
9. R. दिन० for ०दिनात्, Bh. ०दिनः पवमानः पवमानात्,
TJA ०दिनपवमानात् for ०दिनात् पवमानात् •
12. BSI. ०रूपताद्या० for रूपता०.
15. SI. आर्भवे for आर्भव०.
19. R. अतो० for अत्रा०; RA add अनुक्तम् before अनुदाहृतं;
R. ०पङ्क्त्यादि, Bh पङ्क्त्यादिषु for पङ्क्त्यादिकं.

प्रथमोऽध्यायः (३) ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ ⁠ २२

पुष्टिय॑दन्यत् ॥ ११ ॥
यदन्यदुदाहृतेभ्यो व्यतिरिक्तमक्षरपङ्क्त्यादि तत् पुष्टिः गायत्र्यादीनां
मुख्यानामपि पुष्टिहेतुः ॥ ११ ॥
एवं छन्दोविभागं दर्शयित्वा इदानीं साम्नां विभागं दर्शयति—
द्वे गायत्र्यां सामनी । तस्माद् द्वयं प्राणेन करोति ।
प्राणिति चापानिति च । एकं छन्दः ककुबुष्णिहौ द्वे सामनी ।
तस्मात् समानं सत् श्रोत्रं द्वेधैव शृणोति । द्वे अनुष्टुभि
सामनी । तस्माद् द्वयं वाचा करोति । सत्यं चानृतं च
वदति । एकं जगत्यां साम । तस्माद् द्वे अक्षिणी सती
समानं पश्यतो न हि पश्चादायन्तं पश्यति ॥ १२ ॥
गायत्र्याम् ऋचि द्वे गायत्रसंहिताख्ये सामनी क्रियेते। तस्मात् पुरुषः
प्राणेन द्वयं प्राणनमपाननं च करोति । तस्यैव विवरणम् । प्राणिति
चापानिति चेति । ककुबुष्णिहौ द्वे अपि एकमेव छन्दः । द्वयोरपि
अष्टाविंशत्यक्षरात्मकत्वात् । तत्र ककुभि द्वौ प्रथमतृतीयौ पादाव-
ष्टाक्षरौ मध्यमः पादो द्वादशाक्षरः । उष्णिहि तु प्रथमद्वितीयावष्टाक्षरौ तृतीयो
द्वादशाक्षर इति विशेषः । तत्र द्वे सफपौष्कलाख्ये सामनी क्रियेते । तस्मात्
पुमान् समानम् ऐक्ये सत् श्रोत्रम् एकेनैव श्रोत्रेन्द्रियेण द्वेधैव द्विधैव
पुरस्तात् पश्चाच्च शृणोति । अनुष्टुभि द्वे श्यावाश्वान्धीगवनामके सामनी
भवतः । तस्मात् पुरुषो द्वयं सत्यमनृतं चैकया वाचा करोति वदति ।


  1. BTSI om. अपि.
    5 6&8. TSK साम्नी for सामनी.
  2. Sh K एक० for एकं.
  3. Bh. समानसस्थं for समानं सत् श्रोत्रं; RT. द्वेधेव for द्वेधैव.
  4. A Bh. repeat द्वे अपि एकमेव.
  5. KM ऐक्यं, JA Bh. अन्येन for ऐक्ये; R. द्वेधेव द्विधेव for द्वेधैव द्विधैव.
  6. B पुरस्ताच्च for पुरस्तात् ; Bh MK. ०गवानामेके for गवनामके.
  7. Bh MJA om. (ए)कया.

२४ षड्विंशब्राह्मणम्
तस्यैव विवरणम् । सत्यं चानृतं च वदतीति । जगत्यां कावाख्यम् एकं
साम भवति । तस्माद् अधिष्ठानभेदाद् अक्षिणी द्वे सती समानम् अवैलक्षण्येन
पुरस्तादायन्तं पदार्थं पश्यतः । करणे कर्तृत्वोपचारः । न तु पश्चात् पृष्ठत
आयन्तं भावं चक्षुषा पुमान् पश्यति । श्रोत्रेण यथा पृष्ठतः शब्दं
शृणोति न तद्वदित्यर्थः ॥ १२ ॥
अवशिष्टस्य यज्ञायज्ञीयस्य मूर्धात्मकत्वं दर्शयति—
अथ यदेव तत ऊर्ध्वं मूर्धा तद्यज्ञायज्ञीयम् ॥ १३ ॥
अथ पुनः ततो यथोक्तेभ्यो गायत्र्या(त्रा?)दिभ्यः सामभ्यः ऊर्ध्वं
यदेव साम भवति तद्यज्ञायज्ञीयम् मूर्धा पुरुषविधस्य यज्ञस्य शिरस्थानीयम् ।
उत्तमत्वात् ॥ १३ ॥
यथोक्तं यज्ञायज्ञीयविदं स्तौति—
मूर्धा स्वानां भवति य एवं वेद ॥ १४ ॥
यः पुमान् एवं यज्ञायज्ञीयं मूर्धानं वेद स स्वानां ज्ञातीनां मध्ये
मूर्धा श्रेष्ठो भवति ॥ १४ ॥
एतदेव विवृणोति—
अध इव वा अन्यान्यङ्गान्युपरीव मूर्धा अध इवास्मादन्ये
स्वा भवन्त्युपरीव स्वानां भवति । य एवं वेद ॥ १५ ॥
मूर्ध्नोऽन्यान्यङ्गानि अध इव वै अधस्तादेव भवन्ति खलु । मूर्धा तु
एषामुपरीव उपर्येव भवति । यः पुमानेवं यज्ञायज्ञीयं मूर्धानं वेद अस्माद्

  1. Bh. om. एव.
  2. JA. तस्याधिष्ठानम्। तदा अक्षिणी for तस्माद. . .अक्षिणी.
  3. J. om. पदार्थं.
  4. RBSIK add: नहि पश्चादायन्तं पश्यतीति after इत्यर्थः
  5. RS मूर्धात्मतां for मूर्धात्मकत्वं.
  6. J. तथान्ते, Bh A तथान्तो० M. तथा for ततो०.
  7. Bh JA om. एव; T संभवति for भवति.
  8. RSTK यथोक्त for यथोक्तं; J. ०विदः for विदं.
  9. S. adds. यः पुमानेवं वेदेति after एवं वेद.
  10. MTSIK. अथ० for अध० Bh MSK. अथ० for अध०.
  11. M. om. तु.

प्रथमोऽध्यायः (३) २५

एवंविदुषोऽन्ये स्वा ज्ञातयोऽध इव अधरा एव भवन्ति । विद्वांस्तु स्वानां
ज्ञातीनामुपरीव श्रेष्ठ एव भवति ॥ १५ ॥
अथ यज्ञप्रतिपादकस्य वेदस्यार्थतो विज्ञानं तत्प्रवचनं च प्रशंसति—
यज्ञो वा अथ जज्ञ इत्याहुरेष वाव जात एषोऽव-
लुप्तजरायुरेष आर्त्विजीनो य एतं वेदमनुब्रूते यदा वा एतं
वेदमनुब्रूते, अथ हैनं शृण्वन्त्यसावन्ववोचतेति तद्धै स
जायते ॥ १६ ॥
अथशब्दो वाक्यादौ समवैति । यज्ञो वै जननहेतुत्वाज्जज्ञः । अयमेव
यज्ञ इति परोक्षं नाम आहुः । तद्विदः व्यवहरन्ति । यः पुमान् एतं यज्ञप्रति-
पादकं वेदं विदित्वा अनुब्रूते प्रवचनं करोति एष वाव अयमेव खलु जातः
सफलजन्मा भवति । अन्यस्तु जातोऽप्यजातप्राय इत्यभिप्रायः । किं च
एषोऽयमेव अवलुप्तजरायुः अवलुप्तं जरायुः गर्भवेष्टनं तत्स्थानीयमाच्छादकं
वेद । तदर्थविषयमज्ञानं जरायुशब्देन विवक्षितम् । तदवलुप्तं यस्य स
तथोक्तः । किं च । एषोऽयमर्त्विजीनः ऋत्विकर्मार्हः । अनुष्ठानस्य ज्ञान-
पूर्वकत्वात् । अपि च यदा वै यस्मिन् एव काले एवं यज्ञप्रतिपादकं वेदमनु-
ब्रूते । अथ ह तदैव एतमनुब्रुवाणं शृण्वन्ति । असावन्ववोचतेति सम्यगनु-


  1. R BBh JA एव for एवं.
  2. R Bh BJIA अध for अथ; R BBh JSIA Sh Ms. यज्ञो० for जज्ञः
  3. Bh. यज्ञ० for वेद०.
  4. Bh JA om. है.
  5. RSI समन्वेति for समवैति ; BBh JA यज्ञः; for जज्ञः.
  6. JA यज्ञम for परोक्षं नाम; M परोक्ष० for परोक्षं ; BBh. MSIA एवं for एतं.
  7. MTIJ वा for वाव.
  8. R. तत्स्थानम्, Bh A तत्संस्थानम् for तत्स्थानीयम्.
  9. B वेदार्थ०, M वैतदर्थे, I वेदार्थ for वेद तदर्थ०.
  10. Bh JA एष त्वेव० for एषोऽय०
  11. Bh JA om. एवं.
  12. R. तथैव, BMIK तदेव for तदैव; Bh A एवम् for एतम्.

वचनमकार्षीदिति । प्रसूतकीर्तिर्भवतीत्यर्थः । तद्वै यदा अयं विख्यातो
भवति तदा खलु सोऽनुवक्ता जायते पुण्यजन्मा भवति ॥ १६ ॥
यज्ञेषु प्रातःसवनादिषु बहुषु प्रदेशेषु गायत्र्यादीनां छन्दसां
न्यूनाक्षरत्वमस्ति । तत्र प्रातःसवने सामान्येन गायत्र्या ऊनाक्षरत्वं स्तौति—
ऊनाक्षरा गायत्री प्रातःसवने प्रजानां प्रजात्या
ऊनादिव हि प्रजाः प्रजायन्ते ॥ १७ ॥
प्रातःसवने गायत्री ऊनाक्षरा । तद्यथा—बहिष्पवमाने उपास्मै
गायत नरः (सा. ६५१) इत्येषा गायत्री ऊनाक्षरा । पवमानायेन्दवे
(सा. ६५१ᵇ) इति द्वितीयपादस्य सप्ताक्षरत्वात् तथा तत्रैव दविद्युतत्या
रुचा (सा. ६५४) इत्येषा गायत्री न्यूनाक्षरा । तथा आज्येष्वपि
होतुराज्ये तं त्वा समिद्भिरङ्गिरः (सा. ६६१) इत्येषा गायत्री । तत्र
बृहच्छोचा यविष्ठ्यः (सा. ६६१ᶜ) इति तृतीयः सप्ताक्षरः । तथा आनो
मित्रावरुणा (सा. ६६३) इत्ययं पादः सप्ताक्षरः । अच्छावाकान्त्येऽपि
इन्द्राग्नी आगतं सुतम् (सा. ६६९) इत्येषा गायत्री । तत्र गीर्भिर्नभो
वरेण्यम् (सा. ६६९ᵇ) इति द्वितीयः पादः सप्ताक्षरः । एवमन्यदपि
उदाहार्यम् । एतद् गायत्र्या ऊनाक्षरत्वं प्रजानां प्रजात्यै प्रजननाय भवति ।
तथा हि लोके प्रजाः सर्वाः ऊनादिव न्यूनादेव देशात् परिच्छिन्नदेशात्
प्रजायन्ते १७ ॥
3. Bh MJA om. प्रातःसवनादिषु बहुषु; Bh MJA add य० before
प्रदेशेषु
4. RBJ ऊना० for न्यूना०; MA सवन० for सवने.
7. M. om. बहिष्पवमाने.
8. Bh JA add प्रातःसवने प्रजानां प्रजात्यै before पवमानायेन्दवे.
12. RBSI add तथा स नः पृथु श्रवाय्यं बृहदग्ने सुवीर्यं (सा. 662 a&c) after सप्ताक्षरः ।
13. Bh MT. मैत्रा० for मित्रा० ; JA अच्छावकस्यापि for अच्छावकान्त्येऽपि.
15. BM¹S. om. पादः.
16. BIS उदाहरणीयम for उदाहार्यम् .
17. RJA add गुह्यप्रदेशात् after ऊनादिव.

प्रथमोऽध्यायः (३) २७

एवं सामान्यतः प्रातःसवने गायत्र्या न्यूनाक्षरत्वं प्रदर्श्य इदानीं
तत्रैवामहीयवे गायत्र्या न्यूनाक्षरत्वं स्तौति—
ऊनाक्षरा गायत्र्यामहीयवे प्रजानां प्रजात्या
ऊनादिव हि प्रजाः प्रजायन्ते ॥ १८ ॥
आमहीयवे साम्नि गायत्री न्यूनाक्षरा । तद्यथा—उच्चा ते जातमन्धसः
(सा. ४६७) इत्येषा गायत्री न्यूनाक्षरा । दिवि सद्भूम्‍या ददे (सा. ४६७b)
इति द्वितीयस्य सप्ताक्षरत्वात् । तथा एना विश्वान्यर्य आ (सा. ५९३)
इत्येषापि । आद्यद्वितीययोः सप्ताक्षरत्वात् । प्रजानाम् इत्यादि पूर्ववत् ॥ १८ ॥
माध्यंदिने सवने पृष्ठेषु वामदेव्ये गायत्र्या ऊनाक्षरत्वं स्तौति —
ऊनाक्षरा गायत्री पृष्ठेषु वामदेव्ये यजमानलोक
एव स मध्ये हि यज्ञस्य यजमानः ॥ १९ ॥
पृष्ठेषु स्तोत्रेषु वामदेव्ये साम्नि अभीषुणः सखीनाम् (सा. ६८४)
इत्येषा गायत्री न्यूनाक्षरा । त्रयाणामपि पदानां सप्ताक्षरत्वात् । तथा सति
यजमानलोक एव यजमानस्थान एव न्यूनता भवेत् । अन्यैश्चानाक्रान्ते एव
हि देशे यजमानस्तिष्ठति । न त्वन्यैराक्रान्ते । अतः तत्स्थाने गायत्र्या
न्यूनाक्षरत्वं गुण एव । वामदेव्यस्य यजमानस्थानत्वोपपादनम् । तथा हि—यदा
यज्ञस्य मध्ये वामदेव्यं क्रियते स यजमानश्च तदानीं यज्ञस्य मध्ये [हि]
एव वर्तत इति ॥ १९ ॥
तृतीयसवन आर्भवपवमाने संहितसाम्नि गायत्र्या न्यूनाक्षरत्वं प्रशंसति—
ऊनाक्षरा गायत्री संहिते प्राणापानयोः उच्चार
ऊनादिव हि प्राणापानावुच्चरतः ॥ २० ॥

  1. Bh JA प्रशस्य for प्रदर्श्य.
  2. JA तत्रैवामहीयवं for तत्रैवामहीयवे; J गायत्र्यां साम भवति; A
    गायत्र्यां यौधाजयं च साम भवति for गायत्र्या...स्तौति
  3. R. om. पृष्ठेषु...न्यूनता भवेत् (L. 14)
  4. RBMSI अन्यैरना० for अन्यैश्चना०.
  5. Bh. ०रज्ञाते for ०राक्रान्ते.
  6. R. ०चारः for ०पादनम्; Be. MJA om यदा.

संहितनामधेये साम्नि वरिवोधातमो भुवः (सा. ६९.१) इत्येषा
गायत्री न्यूनाक्षरा । पर्षि राधो मघोनाम् (सा. ६९१.c) इति तृतीयस्य
सप्ताक्षरत्वात् । यदेतन्न्यूनाक्षरत्वं गायत्र्यास्तत् प्राणापानयोरुच्चारे संचरणे
तन्निमित्तमेव भवतीत्यर्थः । तथा हि—प्राणापानावूनादिव परिच्छिन्नादेव
नासाविवराद् उच्चरतः संचरतः । अतो न्यूनाक्षरत्वं प्रशस्तम् इत्यर्थः ॥ २० ॥
तत्रैव यज्ञायज्ञीये, सतो बृहत्या न्यूनाक्षरत्वं स्तौति—
ऊनाक्षरं यज्ञायज्ञीयं प्राणानामुत्सृष्ट्यै ॥ २१ ॥
यज्ञायज्ञीयं साम ऊनाक्षरम् । तदीयप्रगाथे ऊर्जो नपातम् (सा.
७०४) इत्येषा सतो बृहती न्यूनाक्षरा । तृतीयपादस्यैकादशाक्षरत्वाच्चतुर्थस्य
सप्ताक्षरत्वात् । ततः तत्र गीयमानं यज्ञायज्ञीयं न्यूनाक्षरमित्युच्यते ।
तदेतन्न्यूनत्वं प्राणानामुत्सृष्ट्यै भवति । स्वावकाशप्रदेश एव प्राणानां
गतिर्नान्यत्रेति न्यूनाक्षरत्वं गुण एव ॥ २१ ॥
तदेतत्सोदाहरणमुपपादयति—
यो हि पूर्णमुपधमेद्यदि प्रतीयाद्विपदेद् यदि न
प्रतीयाद्विष्यन्देत ॥ २२ ॥
यो हि पुमान् लोके नालाद्यन्तर्गततृणाद्यपनयनायोदकपूर्णं करकादिकं
यद्युपधमेत् यदि च तदुपधमनं प्रतीयात् प्रतिगच्छेत् तर्हि स उपधमाता
2. RJA add अत्र after इति.
3. RSM रुच्चारः for ०रुच्चारे; MTK संचरेण for संचरणे.
8. BMIA ०प्राणार्थे, S ०प्राणनार्थे; Bh ०प्रमाथो, T ०प्रमाणार्थे
for प्रगाथे.
10. Bh JA न्यूनम्, MT न्यूनाक्षरत्वम् for न्यूनाक्षरम्.
11. M. न्यूनाक्षरत्वं for न्यूनत्वं; R सावकाश० for स्वावकाश०,
Bh य एवकार प्रकारा, KT. [स्वा]वकाशप्रकश०, JA एवंप्रकारा for
स्वावकाशप्रदेश०; Bh adds च and J यत् after एव.
14. T पुण्यं० for पूर्णं०; MT ०यमे०, SK ०यन्ये० for ०धमे०.
16. J om. यो हि पुमान्...गायेदित्यर्थः (p. 29. L. 5)
17. Bh A न हि for तर्हि.

प्रथमोऽध्यायः (३) २९

विदेपत् विपन्नो भवति । व्यर्थप्रयासो भवतीत्यर्थः । यद्युपधमनं न प्रतीयात् ।
न कुर्यादित्यर्थः । तर्हि विष्यन्देत करकादिनालशुद्धेरभावादभीष्टादुदपाना-
द्धीयेतेत्यर्थः । तस्मादपूर्णमेव करकादिकं तृणापनयनायोपधमेत् । तथा
सति वायोः संचरणात् तृणापनयो भवति । तद्वदत्रापि न्यूनाक्षरमेव यज्ञा-
यज्ञीयं प्राणानामुत्सृष्टयै गायेदित्यर्थः ॥ २२ ॥
त्रिष्वपि सवनेषु गायत्र्या न्यूनाक्षरत्वं समानं प्रशंसति —
तदाहुः सवनानां च वा एत उदानाः प्राणानां
चोत्सृष्टिरिति ॥ २३ ॥
तत्रैतमाहुर्ब्रह्मवादिनः—सवनानां वै सवनानामेव खलु एते गायत्र्यादि-
रूपाः प्राणाः उदानाः संचारहीनास्तिष्ठन्ति । तेषां सवनत्रयसंबन्धिनां
गायत्र्यादीनां न्यूनाक्षरत्वेन प्राणानामुत्सृष्टिरेव भवतीति ॥ २३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे षड्विंशब्राह्मणे
प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


  1. R om. व्यर्थप्रयासो भवति; A यथो० for यद्यु०.
  2. Bh A न हि for तर्हि; B विष्ण०, Bh M विश्व०, T विव्व०,
    A विष्ट० for विष्य० ; BS ०ध्माते० for ०शुद्धे० ; Bh A नालशु (A श्व)
    राद्धे (A द्धे) मावर्त (A र्ते) for नालशुद्धेरभावा०.
  3. MTK ०हीयते for ०हीयेत.
  4. M. गायत्र्यां for गायत्र्या.