सामग्री पर जाएँ
सर्वकोश
षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)

Shadvimsha Brahmana of the Samaveda with Commentary

सामवेदीय वैदिक ऋषि मण्डल द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 10, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 10

पत्क्तास्मि तदागच्छतेति । एवमेव अनेन प्रकारेण यद् ब्रूयात्तदेतद् देवेभ्यः
श्रुत्यामेव प्राहेति ॥ २७ ॥
निगदशेषं प्रतीकेनोपादत्ते —
देवा ब्रह्माण इति ॥ २८ ॥
देवा ब्रह्माण आगच्छतागच्छतागच्छत (ला. श्रौ. सू. १.३.३) इति
निगदशेषः । हे देवाः हे ब्रह्माणः हे ब्राह्मणाः आगच्छत । त्रिरुक्तिरादरार्था
वा ॥ २८ ॥
एतद् व्याचष्टे—
देवा हैव देवा अथ हैते मनुष्यदेवा ये ब्राह्मणाः
शुश्रुवांसोऽनूचानास्ते मनुष्यदेवाः ॥ २९ ॥
देवाः प्रसिद्धा वस्वादय एव देवाः । अथ पुनः एते ह वक्ष्यमाणा एव
मनुष्यदेवाः ये ब्राह्मणाः परिवृढा इति कीर्त्यन्ते इति शेषः । के ते मनुष्यदेवा
इत्यत उक्तम्—शुश्रुवांसः [इति] । श्रुतवन्तः अर्थविदः अनूचानाः
साङ्गवेदाध्यायिनो ये ब्राह्मणाः ते मनुष्यदेवाः ॥ २९ ॥
किं देवानां भागधेयं किंच ब्राह्मणानां य[द्]दानेन प्रीणयितुं तानु-
भयानाह्वयतीत्यत्राह—
आहुतय एव [भागधेयं] देवानां दक्षिणा मनुष्य-
देवानाम् । आहुतिभिर्ह देवान् प्रीणाति । दक्षिणाभिर्मनुष्य-
देवान् शुश्रुवुषोऽनूचानान् ब्राह्मणान् प्रीणाति ॥ ३० ॥

  1. R. om. एतद् .
  2. TK. ब्राह्मणाः for ब्रह्माणः.
  3. T. ब्राह्मण[ाः] for ब्रह्माणः; Bh. आगच्छतेति for आगच्छता०...
  4. T. ब्राह्मणाः for ब्रह्माणः; Bh. om. हे ब्राह्मणाः.
  5. T. ब्राह्मणदेवाः for ब्राह्मणाः
  6. Bh JA combine this and the following text and
    reproduce आहुतय एव....ब्राह्मणान् प्रीणाति after आत्राह (L. 16) again in
    the commentary.
  7. R Bh BTSI कीर्नांते P कीर्त्यन्ते; Bh T हे JA अथ है for के.
  8. Bh JA om. अर्थविदः
  9. T. सतत, JA तत्र, for य[द्]; B अनेन for दानेन.
  10. KTI. शुश्रूषो० for शुश्रुवुषो०