षड्विंश ब्राह्मण (सामवेद का अद्भुत ब्राह्मण - दैव-उत्पात शान्ति विधान सटीक)
Shadvimsha Brahmana of the Samaveda with Commentary
सामवेदीय वैदिक ऋषि मण्डल द्वारा
पृष्ठ 15, कुल 226 में से
संदर्भ में पढ़ेंअथ सुब्रह्मण्याया मन्त्रविषयत्वेऽपि स्त्रीपुंनपुंसकात्मकत्वं व्युत्पादयितुं
विमर्शपूर्वकम् ऋग्यजुःसामात्मकत्वं दर्शयति—
तदाहुर्कक् सुब्रह्मण्या३यजूर३स्सामा३इति । सर्वमेवेति
ब्रूयात् । ऋच इवास्या नामधेयं सुब्रह्मण्येति । तस्मादृक् ।
मन्त्र एव खल्वयं निगदभूतो भवति । तस्माद्यजुः ।
सामकारिणः कुर्वन्ति यथान्यैः सामभिः । तस्मात् साम ।
तस्मात् सर्वमेवेति ब्रूयात् ॥ ७ ॥
तत्र सुब्रह्मण्याशब्दस्य मन्त्रनामधेयत्वे सुब्रह्मण्या किम् ऋक् किं वा यजुः
उत साम । विचारार्थः प्लुतः । इति यद्याहुः तर्हि सर्वमेव ऋग्यजुःसामानि
सर्वाण्यपि सुब्रह्मण्येत्युत्तरम् । तस्य विवरणम् । ऋच इव यथा ऋग्रूपस्य
मन्त्रस्य स्त्रीलिङ्गः ऋक्शब्दो नामधेयम्, तथास्याः सुब्रह्मण्यस्य मन्त्रस्य,
सुब्रह्मण्येति स्त्रीलिङ्गं नामधेयम् । तस्माल्लिङ्गसाम्यात् ऋक् सुब्रह्मण्या ।
अयं सुब्रह्मण्याशब्दवाच्यो मन्त्रो निगदभूत एव भवति खलु । निगदो
नाम यजुर्विशेषः तस्माद्यजुः । यथा यस्मात् सामकारिणः सामगाः अन्यैः
सामभिः सह कुर्वन्ति एवं पठन्ति तस्मात् साम । तैः पठ्यमानत्वात् । तस्मात्
सर्वमेव ऋग्यजुःसामेति ब्रूयात् । ऋङ्निगदसामात्मकत्वेन मन्त्रविषयेऽपि
स्त्रीपुंनपुंसकत्वमित्यभिप्रायः ॥ ७ ॥
एवं सुब्रह्मण्याह्वानं दर्शयित्वा ततो यत् कर्तव्यं तदाह—
- T ०ण्ययोगं च, BJ Bh ०ण्यायोगित्वं० for ०ण्याया मन्त्र०;
J BhB. ०विषयत्वेन for विषयत्वे. - B. विमत० for विमर्श०.
- S om. यजू३ स्सामा३...त्तासुब्रह्मण्या० (ll. 3—8.)
- J अथवा for किंवा; J adds वा after यजुः.
- J before विचारार्थः adds (इ)त्याशङ्क्य सर्वमेवेत्युक्तम्। ऋग्यजुः-
साम०; Bh A. यथा०, J यदा० for यद्या०; JA add तत् before सर्वम्. - Bh JA om. तस्य विवरणम्...सुब्रह्मण्यस्य मन्त्रस्य.
- Bh JA om. नामधेयम्। तस्माल्लिङ्ग; Bh. सामान्यात् for साम्यात्.
- JA om. अन्यैः.
- Bh A. सामगैः for साम तैः; J सामगैः for तैः.
- Bh JA ०विषयेष्वपि for विषयेऽपि.