सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
66
फलान्येतानि जायन्ते तस्मादेतान्विचारयेत् ।
क्वचिदन्योऽपि कथितः विशेषस्मोऽभिधीयते ॥ ३७५ ॥
नकारो नाशयेल्लक्ष्मीं हकारस्तु हरेद्यशः ।
मकारस्सर्वहृत्तस्मात् गीतादौ तान्परित्यजेत् ॥ ३७६ ॥
376— Some special effects according to certain
authorities :—
(1) Na destroys wealth
(2) Ha ,, fame
(3) Ma ,, every thing
These 3 letters must, therefore, be avoided in the
beginning of compostions.
(சு. 736) வேறு சில பலன்கள்
(1) ‘ ந ’ தன நாசம்
(2) ‘ ஹ ’ கீர்த்தி நாசம்
(3) ‘ ம ’ ஸர்வ நாசம்
ஆகையால் இந்த எழுத்துக்களை பாட்டுக்களின் முதல் எழுத்
துக்களாக உபயோகிக்கக் கூடாது.
उद्ग्राहे तु दकारश्च भकारश्चान्तरे तथा ।
आभोगे तु वकारश्च त्रयं लक्ष्मीफलप्रदम् ॥ ३७७ ॥
(377) Beneficial initials :—
1 Da in udgraha ⎫
2 Bha in Antara ⎬ give wealth
3 Va in Abhogdea ⎭
(சு. 377) லக்ஷ்மி விலாஸமுள்ள முதலெழுத்துக்கள்:—
- த (द) உத்க்ராகத்தில்
- ப (भ) அந்தராவில்
- வ ஆபோகத்தில்
65
अकचटतपयशवर्गास्तेषामेतास्तु देवताः क्रमशः ।
सोमो भौमः सौम्यो जीवश्शुक्रश्शनीरवी राहुः ॥ ३७२ ॥
आयुः कीर्तिं कुरुते तत्राद्योऽन्यस्सदायशःकारी ।
संपदमाविष्कुरुते तृतीयक ष्टस्तु सौभाग्यम् ॥ ३७३ ॥
तः कीर्तिं, पो मांद्यं, मृत्युं यः शून्यतां शस्तु ।
स्तुत्यस्य श्लोकगीतादौ प्रयोगो गणवर्गयोः ॥ ३७४ ॥
374—The Devatas and effects of initial letters of
musical compositions on the subjects:
Letter--- Devatas Effects
A Moon Long life
Kavarga Mars Fame
Cha ,, Mercury wealth
Ta(ट) ,, Jupiter good luck
Ta(त) ,, Venus Fame
Pa ,, Saturn Dullness
Ya ,, Sun Death
Sa(श) ,, Rahu Emptiness
(சு—374) முதல் எழுத்துக்களின் தேவதைகளும் பலன்களும்
எழுத்து தேவதை பலன்
அ--- சந்திரன் ஆயுள், கீர்த்தி
கவர்க்கம்— செவ்வாய் கீர்த்தி
ச்ச ,, புதன் சம்பத்து
ட ,, குரு அதிர்ஷ்டம்
த ,, சுக்கிரன் கீர்த்தி
ப ,, சனி மந்தம்
ய ,, சூரியன் சாவு
ச ,, ராகு சூன்யம்
9
67
द्विजवर्णोऽकवर्गाभ्यां चटाभ्यां क्षत्रियो भवेत् ।
तपाभ्यां वैश्यवर्णश्च यशाभ्यां शूद्रसंज्ञकः ॥ ३७८ ॥
378 Letters and Castes :—
A and Ka— Brahmin
Cha and Ta— Kshatriya
Ta and Pa— Vaisya
Ya and Sa— Sudra
(சு. 378) எழுத்துக்களும் ஜாதிகளும் :—
அ, க— பிராம்ஹண
ச்ச, ட— க்ஷத்ரிய
த, ப— வைசிய
ய, ச— சூத்ர
एलाकरण ढेङ्कीमि वर्तन्या झोम्बडेनच ।
लम्भरासैकतालीभिः शुद्धसूदोऽष्टभिःस्मृतः ॥ ३७९ ॥
379. The descriphon of the well-known prabandhas
or musical compositions:—(1) 'Sudha Sooda' and its
Component elements: Ela, karana, Dhenki, vartani
Jhombada, Lambha, Rasa & Ekatali.
சு. 379 ப்ரபந்தங்களின் விபரம் :— 1- 'சுத்த சூடம்', அதன்
எட்டு அங்கங்களும் :—
ஏலா, கரணம், டேங்கி, வர்த்தனி, ஜோம்பட, லம்ப, ராஸ,
ஏகதாளீ
तत्रैलाप्रथमे पादे कार्ये खण्डद्वयं बुधैः ।
सानुप्रासं तदैकेन धातुना भिन्नमातुकम् ॥ ३८० ॥
68
गमकाख्यः प्रयोगश्चेत् तदा रूढपदान्वितः । - [ ‘ रुद्रपदान्वितः ’
इति पाठांतरम् ]
प्रभुनामाङ्कितोमध्ये विलम्बितपदत्रयः ॥ ३८१ ॥
ध्रुवो भवेत्तत्र पूर्वं एकधातु पदद्वयम् ।
तृतीयं भिन्नधातुस्यात् आभोगस्तदनन्तरम् ॥ ३८२ ॥
कार्यो वाग्गेयकारेण स्वाभिधानविभूषितः ।
पुनर्गानं विधायास्य न्यासस्तु ध्रुवके भवेत् ॥ ३८३ ॥
मण्ठद्वितीयकंकाळप्रतितालेषु कश्चन ।
तालोत्र विनियोक्तव्यः ग्रहस्तु विषमो भवेत् ॥ ३८४ ॥
प्रबन्धेस्मिन् प्रभोः कार्यं शौर्यधैर्यादिवर्णनम् ।
सामान्यप्रतिपत्त्यर्थं एलासामान्यलक्षणम् ॥ ३८५ ॥
कथितं ये विशेषास्ते ज्ञेयाग्रन्थान्तराद्बुधैः ।
षट्पञ्चाशद्युतं प्रोक्तं तत्रैलानां शतत्रयम् ॥ ३८६ ॥
तथाच रत्नाकरः
अङ्घ्रौखण्डद्वयं सानुप्रासमेकेन धातुना ।
ततः प्रयोगस्तदनु पल्लवाख्यं पदत्रयम् ॥ ३८७ ॥
द्वेस्तोविलम्बिते तत्र तृतीया द्रुतमानतः ।
एवं पादत्रयं गेयं उद्ग्राहे तुल्यधातुकम् ॥ ३८८ ॥
केवलं तु तृतीयेऽङ्घ्रौ सम्बोधनपदान्वितः ।
प्रयोगोऽन्यो विधातव्यो नपल्लवपदस्थितिः ॥ ३८९ ॥
69
अमुं प्रयोगं मेलापं प्राहुः सोमेश्वरादयः ।
स्तुत्यनामाङ्कितोमध्ये विलम्बितपदत्रयः ॥ ३९० ॥
ध्रुवोभवेत्तत् पूर्वं एकधातुपदद्वयम् ।
तृतीयं भिन्नधातु स्यादाभोगस्तदनन्तरम् ॥ ३९१ ॥
गेयो वाग्गेयकारेण स्वाभिधानविभूषितः ।
पुनर्गत्वा ध्रुवे न्यासो ग्रहस्तु विषमोभवेत् ॥ ३९२ ॥
एलासामान्यलक्ष्मैतत्पूर्वाचार्यैरुदीरितम् ।
मण्ठद्वितीय कंकाल प्रतितालेषु कश्चन ॥ ३९३ ॥
तालोस्यांत्यागसौभाग्य शौर्यधैर्यादिवर्णनम् ।
॥ इत्येलालक्षणम् ॥
(380-393). Prabandha called 'Ela' described; the
w ords' and 'music' of the 4 parts of 'Ela' detailad.
சு. (380-393), 'ஏலா' என்னும் ப்ரபந்தத்தின் 4 பகுதி
களுக்குமுள்ள அக்ஷரம், வர்ணமெட்டு இவைகளின் விவரம்.
सामान्यलक्षणं नास्ति करणानामतो मया ॥ ३९४ ॥
विशेषलक्षणं तेषां प्रत्येकमभिधीयते ।
उद्ग्राहध्रुवकौयस्य स्वरबद्धौ पदैर्भवेत् ॥ ३९५ ॥
आभोगस्तत्र नामस्या द्धातृनेत्रोर्ग्रहःपुनः ।
इष्टस्वरे तु कर्तव्यो न्यासःस्यादंशके स्वरे ॥ ३९६ ॥
रासकस्तत्र तालःस्याल्लयश्चात्रद्रुतो भवेत् ।
स्वराद्यं करणं चैतत् कथितं पूर्वसूरिभिः ॥ ३९७ ॥
70
स्वरैश्चहस्तपाटैश्च स्यात्पाटकरणं परम् ।
क्रमव्यत्यासभेदात्तद्द्विविधं स्वरपाटयोः ॥ ३९८ ॥
स्वरैर्मुरजपाटैर्यत् तद्बन्धकरणं मतम् ।
स्वरैः पदैश्चयद्बद्धं करणं तत्पदादिमम् ॥ ३९९ ॥
यत्स्वरैर्बिरुदैर्बद्धं करणं बिरुदादि तत् ।
स्वरैश्चतेनकैर्बद्धं करणं तेनकादि तत् ॥ ४०० ॥
स्वरैश्च करपाटैश्च निबद्धं मुरजाक्षरम् ।
पदैश्च चित्रकरणं तदुक्तं भरतादिभिः ॥ ४०१ ॥
स्यान्मिश्रकरणं बद्धं स्वरैःपाटैस्सतेनकैः ।
हस्तपाटादिमात्रेण पूर्वे स्याद् भेद ईदृशः ॥ ४०२ ॥
स्वरादिकरणस्यैव शिष्टमेषां तु लक्षणम् ।
नवानां मार्गभेदेन त्रैविध्यात्सप्तविंशतिः ॥४०३॥ इति करणम् ।
394–403. Prabandha called 'Karana' described.
சு. (394–403) 'கரணம்' என்னும் ப்ரபந்தத்தின் விவரம்.
यत्रोद्ग्राहस्य पूर्वार्धं गीयते द्विरनन्तरम् ।
उत्तरार्धं सकृत्पश्चात् प्रयोगात्माभवेन्नच ॥ ४०४ ॥
मेलापकस्तु गातव्यावतालौ तावुभावपि ।
अथवा ढेङ्किकाताले कङ्कालेवाविलम्बिते ॥ ४०५ ॥
71
तालेनान्येन गातव्यौ ध्रुवाभोगौ लयान्तरे ।
ध्रुवस्त्रिखण्डःखण्डेद्वे गीयेते समधातुना ॥ ४०६ ॥
तृतीयमुच्चमीषद्धिराभोगस्तु सकृत्ततः ।
पुनर्गीत्वा ध्रुवेन्यासो यस्यां सा ढेङ्किकामता ॥ ४०७ ॥
सामान्यलक्षणं चैतत् ढेङ्किकायाः प्रकीर्तितम् ।
ग्रन्थान्तरेविशेषेण त्रिंशद्ढेङ्क्यःप्रकीर्तिताः ॥ ४०८॥ इतिढेङ्की ।
(404—408) Prabandha Called 'Dhenki, described,
(404—408) ' டேங்கி ' என்னும் பிரபந்தத்தின் விவரம்
यल्लक्षणं स्वराद्यस्य करणस्योदितंमया ।
वर्तन्यामपि तत्सर्वं तालोन्योरासकाद्भवेत् ॥ ४०९ ॥
विलम्बितो लयश्चात्र द्विरुद्ग्राहस्तुगीयते ।
ध्रुवाभोगौसकृद्गायेत् मोक्षस्तु ध्रुवके भवेत् ॥ ४१० ॥
कङ्कालताले प्रतितालकेवा कुडुक्ककेवा प्रतिमण्ठकेवा ।
विनिर्मिताचेदिहवर्तनीयं विवर्तनीतिप्रथिता तदानीम् ॥ ४११ ॥
(409—411 ) The Prabandha called 'Vartani' discri-
bed.
(சு. 409—411) ' வர்த்தனீ ' என்னும் பிரபந்தத்தின் விவரம்.
यस्मिन्नुद्ग्राहपूर्वार्धं गीयेते द्विसकृत्ततः ।
उत्तरार्धं प्रयोगाढ्यो भवेन्मेलापकोनवा¹ ॥ ४१२ ॥
(1) मेलापकस्तदा इति पाठान्तरम्
72
द्विर्गीत्वा ध्रुवमाभोग सकृन्न्यासो ध्रुवे भवेत् ।
यत्रासौ झोंबडोनाम ताले निस्सारुके भवेत् ॥ ४१३ ॥
कुडुक्के त्रिपुटेवापि प्रतिमण्ठे द्वितीयके ।
यतितालाङ्गुताल्यैक तल्या गारुगिरासयोः ॥ ४१४ ॥
सङ्ख्याता झोंबडाभेदै र्वियच्चन्द्रशरामयः ।
(३९१०) इति झोंबडा
(414) The Prabandha called 'Jhombada' described
(சு—414) 'ஜோம்படம்' என்னும் பிரபந்தம் விவரிக்கப்
பட்டது.
एकखण्डो द्विखण्डो वा यस्योद्ग्राहो भवेदिह ।
गीयतेऽसौ सकृद्द्विर्वा ध्रुवोयत्रभवेत्पुनः॥
द्विराभोगो भवेन्मुक्तिः ¹प्रबंधस्सतु लंभकः ॥ ४१५ ॥
(415) Prabandha called 'Lamabhaka '
(சு—415) 'லம்பகம்' என்னும் பிரபந்தம்
यो झोंबडगतं लक्ष्म गमकस्थानकैर्विना ।
भजते रासकस्सोऽयं रासतालेन गीयते ।
मातृकास्ते त्रिपञ्चाशत् वर्णजाः पञ्चविंशतिः ॥ ४१६ ॥
इति रासः ॥
(416) 'Prabandha' called 'Rasaka'
1 'ध्रुवेमुक्तिः' इति वा पाठः
78
(சு. 416) 'ராஸகம்' என்னும் பிரபந்தம்.
द्विरुद्ग्राहो ध्रुवोऽपिद्विः आभोगध्रुवकौ ततः ।
गीत्वा न्यासो यत्र सा स्यात् एकतालयैकतालिका ॥ ४१७ ॥
इति शुद्धसूडलक्षणम्
(417) Prabandha 'called 'Ekatalee'. Here end the
8 kinds of Prabandhas included in 'Suddhasuda'
variety.
(சு. 417) 'ஏகதாளீ' என்னும் பிரபந்தம். இதனோடு
• 'சுத்த ஸூடம்' என்னும் வகையில் அடங்கிய 8 பிரபந்தங்களின்
விவரம் முற்றுப்பெற்றது.
वर्णो वर्णस्वरो गद्यं कैवाड श्चाङ्गचारिणी ।
कन्दस्तुरङ्गलीलाच गजलीला द्विपद्यपि ॥ ४१८ ॥
चक्रवालः क्रौञ्चपदः स्वरार्थो ध्वनि कुट्टनी ।
आर्या गाथा द्विपथगः कलहंसोऽथतोटकः ॥ ४१९ ॥
घटोवृत्तं मातृकाच तथा रागकदंबकः ।
पञ्चतालेश्वर स्तालार्णव इत्यालिसंज्ञिकाः ॥ ४२० ॥
श्रीरङ्गः श्रीविलासस्तु पञ्चभङ्गिरतः परम् ।
पञ्चाननोमातिलकौ द्विपदीचचतुष्पदी ॥ ४२१ ॥
षट्पदी वस्तुसंज्ञश्च विजयस्त्रिपथस्तथा ।
चतुर्मुखस्सिम्हलीलो हंसलीलोऽथदण्डकः ॥ ४२२ ॥
झोंबडः कन्दुकः स्यान्त्रिभङ्गी हरिविलासकः ।
सुदर्शनः स्वराङ्कः श्रीवर्धनो रा¹गवर्धनः ॥ ४२३ ॥
- 'हर्षवर्धनः' इतिवा पाठः ।
10
74
वदनं चर्चरी चर्या पद्धडी राहडी तथा ।
वीरश्रीमङ्गलाचारौ धवलो मङ्गलस्तथा ॥ ४२४ ॥
ओवी लोली ढोल्रीच दन्तीषट्त्रिंशदित्यमी ।
प्रबन्धा विप्रकीर्णाख्याः सालगास्तु ध्रुवादयः ॥ ४२५ ॥
(418-425) The variety of Prabandhas known as
‘Aali’, 24 number; ‘Viprakeerna’ or miscellaneous
varaieties of Prabandhas, 36 in number.
(சு. 418-425) ‘ஆளி’ என்ற வகையைச்சேர்ந்த 24 பிரபந்-
தங்கள் ; ‘விப்ரகீர்ணம்’ அல்லது பலவகை பிரபந்தங்கள் 36.
आद्यो ध्रुव स्ततो मण्ठः प्रतिमण्ठो निसारुकः ।
अड्डताल स्ततो रासः एकतालीति सप्त ते ॥ ४२६ ॥
शार्ङ्गदेवेन कथिताः मिलिताः पञ्चसप्ततिः ।
(425-426) ‘Salaga suda’, its seven constituent ele-
ments in the seven talas:— Dhruva, Mantha, Prati-
mantha, Nisaruka, Adda, Rasa and Ekatali. Here end
the 75 Prabandhas according to Sarngadeva in Sangeeta-
ratnakara.
(சு. 425-426) ‘ஸாலக ஸூடம்’ என்னும் பிரபந்தத்தில்
அடங்கிய ஏழு வகையும், அவற்றின் தாளங்களும் :—
த்ருவம், மண்டம், ப்ரதி மண்டம், நிஸாருகம், அட்ட, ராஸ,
ஏகதாளீ; இதனுடன் ஸங்கீத ரத்னா கரத்தில் சார்ங்க தேவரால்
விவரிக்கப்பட்ட 75 பிரபந்தங்கள் முற்றுப்பெற்றன.
केचिद्देषु प्रसिद्धाये तल्लक्षण मिहोच्यते ॥ ४२७ ॥
कर्णाट भाषयाबद्धो बिरुदै र्वर्णतालतः ।
वर्णसंज्ञः प्रबंधोऽयं त्रिविधस्तालभेदतः ॥ ४२८ ॥
75
इति वर्णः
(427-428) Prabandhas in practice at the present
day ((i-e) of the author):— (1) Varna.
(சு. 427-428) பிற்காலத்தில் பிரசித்தமான பிரபந்தங்கள்:-
(1) வர்ணம்.
स्वरैः पाटैः पदै स्तेनै रचिता वाञ्छितः क्रमात् ।
न्यासस्तु तेनकैरेव स वर्णस्वर उच्यते ॥ ४२९ ॥
इति वर्णस्वरः
(429) (2) 'Varnasvara.'
(சு. 429) (2) வர்ணஸ்வரம்,
गद्यं निगद्यते छन्दोहीनं पदकदंबकम् ।
तस्य भेदास्तु बहवो ज्ञेया ग्रंथान्तराद्बुधैः ॥ ४३० ॥
इति गद्यम्
(430) (3) 'Gadya' (Prose).
(சு. 430) (3) 'கத்யம்' (உரை நடை).
उद्ग्राहध्रुवकौ यस्य पाटैरेव विनिर्मितौ ।
सार्थकैरर्थहीनैर्वा न्यसनन्तु ध्रुवे भवेत् ॥ ४३१ ॥
स कैवाडः शुद्धमिश्रपाटभेदाद्विधा मतः ।
इति कैवाडः
(431) (4) 'Kaivada.'
(சு. 431) (4) 'கைவாடம்.'
पूर्वपूर्वाक्षरव्रा¹तो योऽन्त्योवर्णचय स्सचेत् ।
- 'कान्तौ' इतिवा पाठः ।
76
उत्तरोत्तरवाक्यादौ चक्रवालस्तदा भवेत् ॥ ४३२ ॥
गद्यपद्यप्रभेदेन द्विविधः परिकीर्तितः ।
इति चक्रवालः
(432) (5) 'Chakravala.'
(432) (5) 'சக்ரவாளம்.'
पदैः स्वरैः क्रौञ्चपदः प्रतितालेन गीयते ॥ ४३३ ॥
स्वरे न्यासः स तन्नाम्ना छन्दसा मुक्तकोऽथवा ॥ ४३४ ॥
इति क्रौञ्चपदः
(434) (6) 'Kraunchapada'.
(சு. 434) (6) 'க்ரௌஞ்ச பதம்.
यत्र स्वराक्षरैरेव वाञ्छितार्थोऽभिधीयते ।
स स्वरार्थो द्विधा शुद्धो मिश्रस्तैः शुद्धमिश्रितैः ॥ ४३५ ॥
न्यासो ग्रहस्वरेचास्य सप्तधैकादिकैः स्वरैः ।
क्रमात् क्रमाभ्यां बहुशः भिद्यन्ते द्विस्वरादयः ॥ ४३६ ॥
इति स्वरार्थः
435—436 (7) 'Svarartha'.
(சு. 435—436) (7) 'ஸ்வாரார்த்தம்.'
एकैकमातृकावर्णपूर्वकाणि पदानिचेत् ।
क्रमेण परिगीयन्ते तदासौ मातृका मता ॥ ४३७ ॥
मातृकावर्णपूर्वाणि केचिद्वाक्यानि मन्वते ।
77
यातु संस्कृतया वाचा मार्गतालैश्च गीयते ॥ ४३८ ॥
सा दिव्या प्राकृता गीता देशीतालैश्च मानुषी ।
उभयो र्मिश्रणादुक्ता मातृका दिव्यमानुषी ॥ ४३९ ॥
अनिबद्धा गद्यजा सा निबद्धा पद्यजा मता ।
सर्वमन्त्रमयी ह्येषा सर्वसिद्धिप्रदायिनी ॥ ४४० ॥
इति मातृका ।
(437-440) (8) 'Matrika'
(சு. 437-440) (8) 'மாத்ருகா'
तालै रनेकै विविधैश्चरागैः वृत्तैस्तथाङ्गैरपि धातुमिश्च ।
शृङ्गारवीरादिरसैरुपेतो निबध्यते रागकदंब एषः ॥ ४४१ ॥
चतुर्वृत्तश्चतुस्तालो रागराजीविर्राजितः ।
तालमानद्वयेन स्यान्नन्द्यावर्तस्तदा भवेत् ॥ ४४२ ॥
तालेनैकेन गद्येन केचिदङ्गगुर्बुधाः ।
एतस्माद्रागतालैश्च द्वि
78
(441-445) (9) 'Raga kadambaka' and its varieties.
(சு. 441-445) (9) ' ராக கதம்பகம் ', அதன் வகைகள்.
कर्तव्यः पूर्वमालापः सच तालविवर्जितः ।
प्राप्तश्चरूपकालापे तस्यातः प्रतिषेधभाक् ॥ ४४६ ॥
चच्चत्पुटेन तालेन¹ प्रत्येकं पदपञ्चकम् ।
पूर्ववच्च स्वराः पाटाः तद्द्विमानेनचान्तरः ॥ ४४७ ॥
द्वि²चच्चत्पुटमानेन पाटैः पटहसंभवैः ।
तत श्वाचपुटेनापि गातव्यं पदपञ्चकम् ॥ ४४८ ॥
हौडुकपाटैस्तदनु षट्पितापुत्रकेणच ।
पृथक् पदानि पञ्च द्विस्तेनैव स्वरपाटकाः ॥ ४४९ ॥
तद्विमानः पृथक्पाटैः अन्तरः स्यात्ततस्तुषट् ।
प्रत्येकं द्विपदानिस्युः संपक्केष्टाकतालकः ॥ ४५० ॥
तत्तालाः स्युः स्वराः पाटाः तद्विमानेनचान्तरः ।
कांस्यतालोद्भवैः पाटैः अथोद्घट्टपदानिषट् ॥ ४५१ ॥
प्राग्वत्तथा स्वराः पाटाः पाटै मुरजसंभवैः ।
अन्तरः पूर्ववच्चास्या भोगश्चस्याद्विलंबितः ॥ ४५२ ॥
प्रबंध नाम्ना प्राग्वानं नेतृनाम्नाथतेनकः ।
- 'द्विर्गेयम्' इतिपाठांतरम् ।
2 अयं श्लोक 11499, 11500 अङ्कितमातृकयोर्नदृश्यते
79
गातव्योऽथ प्रबंधस्य नामचालापके भवेत् ॥ ४५३ ॥
पञ्चतालेश्वरोनाम सर्वसिद्धिप्रदायकः ।
वीरावतारः शृङ्गारतिलकश्चेति सद्बिधा ॥ ४५४ ॥
वीरशृङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः ।
इति पञ्चतालेश्वरः
(446-454) (10) 'Panchatalesvara'
(சு. 446-454) (10) 'பஞ்சதாளேச்வரம்'
निबद्धो बहुभिस्तालैः, द्विविधो गद्यपद्यजः ।
तालार्णवो भवेदेषः प्रबंधोऽन्वर्थनामकः ॥ ४५५ ॥
इति तालार्णवः
(455) (11) 'Talarnava'
(சு. 455) (11) 'தாளார்ணவம்'
तालैश्चतुर्भी रागैश्च षडङ्गेन्ते पदान्वितः ।
श्रीरङ्गः श्रीविलासस्तु तालै रागैश्च पञ्चभिः ॥ ४५६ ॥
षडङ्गोऽयं स्वरान्तः स्यात् प्रबंधः श्रीफलप्रदः ।
इति श्रीरंगः । श्रीविलासः ।
(456) (12) 'Sreeranga' and (13) 'Sreevilasa'
(சு—456) (12) 'ஸ்ரீரங்கப்ரபந்தம்' (13) 'ஸ்ரீவிலாசம்'
तेनकान्तः पञ्चभङ्गिः तालै रागैश्च पञ्चभिः ॥ ४५७ ॥
इति पञ्चभङ्गिः ।
(457) (14) Panchabhangi.
(சு. 457) (14) பஞ்சபங்கி
तृतीय प्रकीर्णकाध्याय एवं चतुर्थ प्रबन्धाध्याय (गीत-रचना भेद)
80
रागाभ्यामपि तालाभ्यां पाटैः पञ्चाननोऽन्तगैः । पञ्चाननः ।
(458) (15) ‘Panchanana’
(சுi 458) (15) ‘பஞ்சாநநம்’
तालैरागै स्त्रिभिः प्रोक्तः उमातिलकसंज्ञकः ।
विरुदान्ता स्त्रयोप्येते षडङ्गाःपरिकीर्तिताः ॥ ४५८ ॥
इति उमातिलकः
(458) (16) ‘Umatilaka’ (சு. 458) ‘உமாதிலகம்’
यस्मिन्विजयतालेन विजयो गीयते प्रभोः ।
तेनकैश्र्व स्वरैः पाटैः पदैर्न्यासश्र्वतेनकैः ।
विजयाख्याः प्रबंधोऽयं विजयश्रीप्रदोनृणाम् ॥ ४५९ ॥
इति विजयः
(459) (17) ‘Vijaya’ (சு. 459) (17) ‘விஜயம்’
स्वरैः पाटैः पदै स्तेनैः वर्णैः स्थाय्यादिभिः क्रमात् ।
चत्वार श्र्वरणा गेयाः ध्रुवेन्यास श्रुतुर्मुखे ॥ ४६० ॥
इति चतुर्मुखः ।
(460) (18) ‘Chaturmukha’
(சு. 460) (18) ‘சதுர்முகம்’
स्वरैः पाटैश्च विरुदैः तेनकैर्योविरच्यते ।
सिंहलीलेन तालेन सिंहलील स्सउच्यते ॥ ४६१ ॥
इति सिंहलीलः ।
हंसलीलो हंसलीले तालेङ्गीपदपाटजौ ।
81
पदैः पाटैश्च बिरुदैः कन्दुकः परिगीयते ॥ ४६२ ॥
इति कन्दुकः
462, (20) — Hamsalila
(21) — Kanduka.
(சு—462) (20) ஹம்ஸலீலம்
(21) கந்துகம்.
स्वरैः पाटैः पदैः प्रोक्तस्त्रिभङ्गिश्च सपञ्चधा ।
एकत्रिभङ्गितालेनवृत्तेनान्यस्त्रिभङ्गिना ॥ ४६३ ॥
तालै रागैस्त्रिभिर्यद्वाथवावृत्तत्रयान्विता ।
ब्रह्मविष्णुशिवस्तुत्या तालैस्त्रैगुण्यमुक्तिकः ॥ ४६४ ॥
इति त्रिभङ्गिः ।
463—464. (22) — Tribhangi and its five kinds.
(சு—463—464) (22) — த்ரிபங்கி, அதன் 5 வகைகள்.
पदैस्सबिरुदै स्तेनैर्निर्दिशन्तु सुदर्शनम् । इति सुदर्शनः ।
पदैस्सबिरुदैः पाटैस्तेनैर्हरविलासकः ॥ ४६५ ॥ इति
हरविलासः ।
465. (23) Sudarsana.
(24) Harivilasa.
(சு—465) (23) சுதர்சனம்,
(24) ஹரவிலாஸம்,
पदैः स्वरैश्चबिरुदैः उद्ग्राहादित्रयः क्रमात् ।
एकद्विलाश्चताळाःस्युः स्वराङ्कैन्यसनं स्वरैः ॥ ४६६ ॥
11
82
इति स्वराङ्कः ।
466— (25) Swaranka.
(சு—466) (25) ஸ்வராங்கம்.
बिरुदैर्गीयते यस्तु पाटैरपि पदैःस्वरैः ।
तालमानद्वयन्यासः भवेत् श्रीवर्धनाभिधः ॥ ४६७ ॥
इति श्रीवर्धनः ।
467— (26) Srivardhana.
(சு—467) (26) ஸ்ரீவர்த்தனம்.
पदैश्च बिरुदैर्हर्षवर्धनः स्वरपाटकैः । हर्षवर्धनः ।
पदैश्च बिरुदैर्बद्धोवीरश्रीरिति गीयते । वीरश्रीः ॥ ४६८ ॥
(468) (27) Harshavardhana. (28) Veerasri.
(சு—468) (27) ஹர்ஷவர்த்தனம். (28) வீரஸ்ரீ
¹दोहदः स्यात्पदान्तेषु प्रोल्लसद्धोलरीपदः ।
सा धोल्लरीति कथिता लाट भाषा विनिर्मिता ॥ ४६९ ॥
इति धोल्लरी । ' ढोलरी ' इतिवा नाम
(469) 29— Dhollari.
(சு—469) 29— தோல்லரி. (டோல்லரி)
अनुक्तभोगवस्तूनां पदै राभोगकल्पना ।
एकधातुद्विखण्डस्यात् यत्रोद्ग्राहस्ततः परम् ॥ ४७० ॥
- डौहडः— इतिवा पाठः ॥
83
किञ्चिदुच्चं भवेत्खण्डं द्विरभ्यस्तमिदं त्रयम् ।
ततोद्विखण्ड आभोगः ततः स्यात् खण्डमुत्तमम् ¹ ॥ ४७१ ॥
एकधातुद्विखण्डञ्च खण्डमुच्चतरं भवेत् ।
स्तुत्यनामाङ्कितश्चासौ क्वचिदुच्चैकखण्डकः ॥ ४७२ ॥
उद्ग्राह स्यादखण्डेच न्यास स्सध्रुवको भवेत् ।
जयन्तादि प्रभेदेन ध्रुवाष्षोडश कीर्तिताः ॥ ४७३ ॥
(470-473) 30— The seven kinds of 'Salagasuda':—
(1) Dhruva.
(சு--470—473) 30— ‘ஸாலகஸூடம்’ என்ற ஏழுவகை
பிரபந்தங்களின் விவரம்:— (1) த்ருவம்.
जयन्त श्शेखरोत्साहौ ततो मधुर निर्मलौ ।
कुन्तलः कमल श्चारो नन्दन श्चन्द्रशेखरः ॥ ४७४ ॥
कामोदो विजयाख्यश्च कन्दर्पजयमङ्गलौ ।
तिलको ललितश्चेति संज्ञास्तेषां क्रमादिमाः ॥ ४७५ ॥
आदितालेन शृङ्गारे खण्ड एकादशाक्षरः ।
गीयते चेज्जयन्तस्स्यात् आयुःश्रीबलवर्धनः ॥ ४७६ ॥
वीरे निस्सारुताले च गीयते द्वादशाक्षरः ।
खण्ड श्शेखर संज्ञस्स्यात् ऋद्धिसौभाग्यदो नृणाम् ॥ ४७७ ॥
त्रयोदशाक्षरो हास्ये उत्साहः प्रतिमण्ठतः ।
मन्वक्षरस्तु करुणे मधुरो हयलीलया ॥ ४७८ ॥
- आदिमम्— इतिवा पाठः ।
84
क्रीडातालेन शृङ्गारे निर्मल स्तीर्थवर्णकः ।
लघुशेखर तालेन कलार्णः कुन्तलोऽद्रुते ॥ ४७९ ॥
विप्रलंभेतु कमलो झंपातालेन गीयते ।
तस्य खण्डस्तु कर्तव्यो बुधै स्सप्तदशाक्षरः ॥ ४८० ॥
अष्टादशाक्षर श्चारो वीरे निस्सारुतालतः ।
वीरशृङ्गारयो रेकताल्य प्रोक्तस्तुन्दनः ॥ ४८१ ॥
एकोनविंशद्वर्णस्तु सर्वसिद्धिप्रदायकः ।
वीरे हास्येच शृङ्गारे गीयते चन्द्रशेखरः ॥ ४८२ ॥
प्रतिमण्ठेन तालेन विंशत्यक्षरखण्डकः ।
एकविंशत्यक्षरस्तु प्रतिमण्ठेन गीयते ॥ ४८३ ॥
शृङ्गारेऽभीष्टफलदः कामदाख्यो ध्रुवो भवेत् ।
द्वाविंशत्यक्षरो हास्ये विजयः स्याद्द्वितीयतः ॥ ४८४ ॥
हास्यशृङ्गारकरुणे प्वादितालेन गीयते ।
त्रयो