सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)
Sangita Darpana of Damodara Pandita (TMSSML Edition)
दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा
पृष्ठ 110, कुल 258 में से
संदर्भ में पढ़ें79
गातव्योऽथ प्रबंधस्य नामचालापके भवेत् ॥ ४५३ ॥
पञ्चतालेश्वरोनाम सर्वसिद्धिप्रदायकः ।
वीरावतारः शृङ्गारतिलकश्चेति सद्बिधा ॥ ४५४ ॥
वीरशृङ्गारयोस्तेन प्रीयन्ते सर्वदेवताः ।
इति पञ्चतालेश्वरः
(446-454) (10) 'Panchatalesvara'
(சு. 446-454) (10) 'பஞ்சதாளேச்வரம்'
निबद्धो बहुभिस्तालैः, द्विविधो गद्यपद्यजः ।
तालार्णवो भवेदेषः प्रबंधोऽन्वर्थनामकः ॥ ४५५ ॥
इति तालार्णवः
(455) (11) 'Talarnava'
(சு. 455) (11) 'தாளார்ணவம்'
तालैश्चतुर्भी रागैश्च षडङ्गेन्ते पदान्वितः ।
श्रीरङ्गः श्रीविलासस्तु तालै रागैश्च पञ्चभिः ॥ ४५६ ॥
षडङ्गोऽयं स्वरान्तः स्यात् प्रबंधः श्रीफलप्रदः ।
इति श्रीरंगः । श्रीविलासः ।
(456) (12) 'Sreeranga' and (13) 'Sreevilasa'
(சு—456) (12) 'ஸ்ரீரங்கப்ரபந்தம்' (13) 'ஸ்ரீவிலாசம்'
तेनकान्तः पञ्चभङ्गिः तालै रागैश्च पञ्चभिः ॥ ४५७ ॥
इति पञ्चभङ्गिः ।
(457) (14) Panchabhangi.
(சு. 457) (14) பஞ்சபங்கி