सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 99, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 99

68
गमकाख्यः प्रयोगश्चेत् तदा रूढपदान्वितः । - [ ‘ रुद्रपदान्वितः ’
इति पाठांतरम् ]
प्रभुनामाङ्कितोमध्ये विलम्बितपदत्रयः ॥ ३८१ ॥
ध्रुवो भवेत्तत्र पूर्वं एकधातु पदद्वयम् ।
तृतीयं भिन्नधातुस्यात् आभोगस्तदनन्तरम् ॥ ३८२ ॥
कार्यो वाग्गेयकारेण स्वाभिधानविभूषितः ।
पुनर्गानं विधायास्य न्यासस्तु ध्रुवके भवेत् ॥ ३८३ ॥
मण्ठद्वितीयकंकाळप्रतितालेषु कश्चन ।
तालोत्र विनियोक्तव्यः ग्रहस्तु विषमो भवेत् ॥ ३८४ ॥
प्रबन्धेस्मिन् प्रभोः कार्यं शौर्यधैर्यादिवर्णनम् ।
सामान्यप्रतिपत्त्यर्थं एलासामान्यलक्षणम् ॥ ३८५ ॥
कथितं ये विशेषास्ते ज्ञेयाग्रन्थान्तराद्बुधैः ।
षट्पञ्चाशद्युतं प्रोक्तं तत्रैलानां शतत्रयम् ॥ ३८६ ॥
तथाच रत्नाकरः
अङ्घ्रौखण्डद्वयं सानुप्रासमेकेन धातुना ।
ततः प्रयोगस्तदनु पल्लवाख्यं पदत्रयम् ॥ ३८७ ॥
द्वेस्तोविलम्बिते तत्र तृतीया द्रुतमानतः ।
एवं पादत्रयं गेयं उद्ग्राहे तुल्यधातुकम् ॥ ३८८ ॥
केवलं तु तृतीयेऽङ्घ्रौ सम्बोधनपदान्वितः ।
प्रयोगोऽन्यो विधातव्यो नपल्लवपदस्थितिः ॥ ३८९ ॥