सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 101, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 101

70
स्वरैश्चहस्तपाटैश्च स्यात्पाटकरणं परम् ।
क्रमव्यत्यासभेदात्तद्द्विविधं स्वरपाटयोः ॥ ३९८ ॥
स्वरैर्मुरजपाटैर्यत् तद्बन्धकरणं मतम् ।
स्वरैः पदैश्चयद्बद्धं करणं तत्पदादिमम् ॥ ३९९ ॥
यत्स्वरैर्बिरुदैर्बद्धं करणं बिरुदादि तत् ।
स्वरैश्चतेनकैर्बद्धं करणं तेनकादि तत् ॥ ४०० ॥
स्वरैश्च करपाटैश्च निबद्धं मुरजाक्षरम् ।
पदैश्च चित्रकरणं तदुक्तं भरतादिभिः ॥ ४०१ ॥
स्यान्मिश्रकरणं बद्धं स्वरैःपाटैस्सतेनकैः ।
हस्तपाटादिमात्रेण पूर्वे स्याद् भेद ईदृशः ॥ ४०२ ॥
स्वरादिकरणस्यैव शिष्टमेषां तु लक्षणम् ।
नवानां मार्गभेदेन त्रैविध्यात्सप्तविंशतिः ॥४०३॥ इति करणम् ।
394–403. Prabandha called 'Karana' described.
சு. (394–403) 'கரணம்' என்னும் ப்ரபந்தத்தின் விவரம்.
यत्रोद्ग्राहस्य पूर्वार्धं गीयते द्विरनन्तरम् ।
उत्तरार्धं सकृत्पश्चात् प्रयोगात्माभवेन्नच ॥ ४०४ ॥
मेलापकस्तु गातव्यावतालौ तावुभावपि ।
अथवा ढेङ्किकाताले कङ्कालेवाविलम्बिते ॥ ४०५ ॥