सामग्री पर जाएँ
सर्वकोश
सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

सङ्गीतदर्पण (दामोदर पण्डित - तंजौर सरस्वती महल संस्करण, सङ्गीत एवं नाट्य लक्षण)

Sangita Darpana of Damodara Pandita (TMSSML Edition)

दामोदर पण्डित (सम्पादक: के. वासुदेव शास्त्री) द्वारा

DevanagariSanskritpublished258 पृष्ठ

पृष्ठ 114, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 114

83
किञ्चिदुच्चं भवेत्खण्डं द्विरभ्यस्तमिदं त्रयम् ।
ततोद्विखण्ड आभोगः ततः स्यात् खण्डमुत्तमम् ¹ ॥ ४७१ ॥
एकधातुद्विखण्डञ्च खण्डमुच्चतरं भवेत् ।
स्तुत्यनामाङ्कितश्चासौ क्वचिदुच्चैकखण्डकः ॥ ४७२ ॥
उद्ग्राह स्यादखण्डेच न्यास स्सध्रुवको भवेत् ।
जयन्तादि प्रभेदेन ध्रुवाष्षोडश कीर्तिताः ॥ ४७३ ॥
(470-473) 30— The seven kinds of 'Salagasuda':—
(1) Dhruva.
(சு--470—473) 30— ‘ஸாலகஸூடம்’ என்ற ஏழுவகை
பிரபந்தங்களின் விவரம்:— (1) த்ருவம்.
जयन्त श्शेखरोत्साहौ ततो मधुर निर्मलौ ।
कुन्तलः कमल श्चारो नन्दन श्चन्द्रशेखरः ॥ ४७४ ॥
कामोदो विजयाख्यश्च कन्दर्पजयमङ्गलौ ।
तिलको ललितश्चेति संज्ञास्तेषां क्रमादिमाः ॥ ४७५ ॥
आदितालेन शृङ्गारे खण्ड एकादशाक्षरः ।
गीयते चेज्जयन्तस्स्यात् आयुःश्रीबलवर्धनः ॥ ४७६ ॥
वीरे निस्सारुताले च गीयते द्वादशाक्षरः ।
खण्ड श्शेखर संज्ञस्स्यात् ऋद्धिसौभाग्यदो नृणाम् ॥ ४७७ ॥
त्रयोदशाक्षरो हास्ये उत्साहः प्रतिमण्ठतः ।
मन्वक्षरस्तु करुणे मधुरो हयलीलया ॥ ४७८ ॥

  1. आदिमम्— इतिवा पाठः ।